TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शिवराजाभिषेकप्रयोग: - प्रथमेऽहनि

गागाभट्टकृत राजाभिषेकप्रयोग: ।


प्रथमेऽहनि
[ज्येष्ठ शु. ६ शनिवार शके १५९६: ३० मे १६७४]
काले राजा देशकालौ संकीर्त्य । मम प्रजापरिपालनाधिकारिसिध्दिव्दारा परमेश्वरप्रीत्यर्थे साम्राज्यादिफलप्राप्त्यर्थे गणेशपूजन तदंगत्वेन ब्राह्मणै: पुण्याहवाचन मातृकावसोव्दारापूजन नांदीश्राध्दं पुरोहितवरणादिकं च करिष्ये ॥ इति संकल्प्य ।
[अनुष्टुभ ]
हे हेरंब त्वमे ह्येहि अंबिकात्र्यंबकात्मजम्‍ ।
सिध्दिरिध्दियुतत्र्यक्ष सर्वलोकपित: प्रभो ॥९८॥
नागास्य नागहार त्वं गणनाथ चतुर्भुज ।
भूषणै: स्वायुधैर्दिव्यै: पाशांकुशपरस्वधै: ॥९९
आवाहयामि पूजार्थ रक्षार्थ च मम क्रतो: ।
इहागच्छ गृहाण त्वं पूजां रक्ष च मे क्रतु: ॥१००॥
इत्यावाह्य षोडशोपचारैंर्गधादिपंचोपचारैर्वा संपूज्य पुष्पफलयुतमर्ध्यमादाय ।
रक्ष गणाध्यक्ष मम त्रैलोक्यनायक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्‍ ॥१०१॥
व्दै मातरकृपासिंधो बाण्मातुराग्रजप्रभो ।
वरद त्वं वरं देहि वांछितं वांछितार्थद ॥१०२॥
गृहाणार्ध्यमिदं देव सर्वदेव नमस्कृत ।
अनेन फलदानेन फलदो भव मे प्रभो ॥१०३॥
इत्यर्ध्य दत्वा प्रार्थयेत्‍ ।
[वसंततिलका]
विश्वेश्वराय वरदाय सुराधिपाय
लंबोदराय सकलाय जगध्दिताय ।
नागाननाय सितसर्पविभूषणाय
गौरीसुताय गणनाथ  नमो नमस्ते ॥१०४॥
भक्तार्तनाशनपराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तप्रसन्नवरदाय नमो नमस्ते ॥१०५॥
[ अनुष्टुभ ]
[नमस्ते] ब्राह्मरुपाय विष्णुरुपाय ते नम: ।
नमस्ते रुद्ररुपाय करिरुपाय ते नम: ॥१०६॥
वक्रतुंड [ महाकाय सूर्यकोटिसमप्रभ] ।
निर्विघ्रं कुरु मे देव सर्वकार्येषु सर्वदा ॥१०७॥
ततो दक्षिणोत्तरयो: कलशौ संस्थाप्य गंधदूर्वापल्लवहेमरत्नानि प्रक्षिप्य तन्मुखयो: पूर्णपात्रे संस्थाप्य ।
पाशहस्तं च वरुण अर्णव संप्रतिमीश्वरम्‍ ।
आवाहयामि यज्ञे‍ऽस्मिन्‍ पूजेयं प्रतिगृह्यतम्‍ ॥१०८॥
इति वरुणमावाह्य पूजयित्वा कलशस्य मुखे विष्णुरिति मंत्रै: । मातृदेवो भव । पितृदेवो भव ।आचार्यदेवो भव ॥ इति कलशं संप्रार्थ्य । तत: अवनिकृतजानुमंडल: कमलमुकुलसदृशमंजलिं शिरस्याध्याय दक्षिणेन पणिना सुवर्णापूर्णकलशं धारयित्वा आशिष: प्रार्थयंते ।
एता: सत्या आशिष: संतु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायु: प्रमाणेन पुण्याहं दीर्घमायुरस्तु । शिवा आप: संतु ।
सौमनस्यमस्तु  । अक्षतं चारिष्टं चास्तु । गंधा: पांतु । सुमांगल्यं चास्तु । अक्षता: पांतु । आयुष्यमस्तु । पुष्पाणि पांतु । सौश्रियमस्तु । तांबुलानि पांतु । ऐश्वर्यमस्तु । दक्षिणा: पांतु । बहुदेयं चास्तु ॥
इति विप्रान्‍ प्रार्थ्य संपूज्य । भवद्भिरनुज्ञात: पुण्यं पुण्याहं वाचयिध्ये । वाच्यतामित्युक्त: ।
मा विघ्रे मा च मे पापं मा संतु परिपंथिन:
सौम्या भवंतु सुखिन: सर्वलोका: सुखावहा: ॥१०९॥
इत्युक्ता विप्रास्तुक्ता वक्ष्यमाणश्लोका: पठेयु: ।
करोतु स्वस्ति मे ब्रह्मा स्वस्ति चापि व्दिजातय: ।
सरीसृपाश्च ते श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥११०॥
ययातिनहुषश्चैव धुंधुमारो भगीरथ: ।
तुभ्यं राजर्षये सर्वे स्वस्तिं कुर्वतु नित्यश: ॥१११॥
स्वाहा स्वधा शची चैव लक्ष्मीश्चैव अरुंधती ।
[         ] कुरुतां स्वस्ति ते सदा ॥११२॥
असितो देवलो व्यास: विश्वामित्रांगिरास्तथा ।
वसिष्ठ: कश्यपश्चैव स्वस्तिं कुर्वतु ते सदा ॥११३॥
धातार्यमा च लोकेशा दिशश्च सदिगीश्वरा ।
तुभ्यं स्वस्तिं प्रयच्छंतु कार्तिकेयश्च षण्मुख: ॥११४॥
विवस्वान्‍ भगवान्‍ स्वस्तिं करोतु तव सर्वदा ।
दिग्गजाश्चैव चत्वार: क्षितिश्च गगनं ग्रहा: ॥११५॥
शेषश्च पन्नगश्रेष्ठ: स्वस्तिं तुभ्यं प्रयच्छतु ।
स्वस्तिस्तेऽस्तु व्दिपादेभ्य: चतुष्पादेभ्य एव च ॥११६॥
स्वस्त्यस्त्वपादकेभ्यश्च सर्वेभ्य: स्वस्ति ते सदा ॥११७॥
तत: कर्ता: मन: समाधीयतां । समाहितमनस: स्म: । प्रसीदंतु भवंत: । प्रसन्ना: स्म: । तत: कर्ता वक्ष्यमाणमंत्रै: जलं पात्रे दद्यात्‍ ।
शांतिरस्तु  । पुष्टिरस्तु । तुष्टिरस्तु । वृध्दिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । कर्मसमृध्दिरस्तु । शास्त्रसमृध्दिरस्तु । पुत्रसमृध्दिरस्तु । इष्टसंपदस्तु । अनिष्टनिरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु । यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरा: क्रिया: शुभा: शोभना: संपद्यतां । तिथिकरणमुहूर्तनक्षत्रसंपदस्तु । तिथिकरणमुहुर्तनक्षत्रग्रहलग्रहलग्राधि देवता: प्रीयंतां । तिथिकरणे मुहुर्ते नक्षत्रे सग्रहे सदैवते प्रीयेतां । दुर्गापांचाल्यौ प्रीयेतां । अग्रिपुरोगाविश्वेदेवा :  प्रीयंतां । इंद्रपुरोगा मरुद्रणा: प्रीयंतां । विष्णुपुरोगा: सर्वे देवा: प्रीयंतां । ब्रह्मपुरोगा:  सर्वे वेदा: प्रीयंतां । वसिष्ठपुरोगा ऋषिगणा: प्रीयंतां । अरुंधतीपुरोगा एकपत्न्य: प्रीयंतां । ब्रह्म च ब्राह्मणाश्च प्रीयंतां । श्रीसरस्वत्यौ प्रीयेतां । श्रध्दा मेधे प्रीयेतां । भगवती कात्यायनी प्रीयंतां । भगवती माहेश्वरी प्रीयतां । भगवती पुष्टिकरी प्रीयतां । भगवती तुष्टिकरी प्रीयतां । भगवती वृध्दिकरी प्रीयंतां । भगवती शुध्दिकरी प्रीयंतां । भगवंतौ विघ्नविनायकौ प्रीयेतां । भगवान्‍ स्वामी महासेन: सपत्नीक: ससुत: सर्वस्थानगत: प्रीयतां । हरिहरहिरण्यगर्भा: प्रीयंतां । हता ब्रह्मव्दिष : । हता: परिपंथिन: । हता अश्चकर्मणो विघ्नकर्तार: । शत्रव: पराभवं यांतु । शाम्यंतु घोराणी । संतु शिवा ऋतव: संतु । शिवा अग्रया: संतु । शिवा ओषधय: संतु । शिवा आहुतय: संतु । शिवा वनस्पतय: संतु । अहोरात्रे शिवे स्यातां ॥
निकामे निकामेन: पर्जन्यो वर्षतु । फलिन्यो न ओषधय: पच्यंतां । योगक्षेमो न: कल्पताम्‍ ॥
शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा:  सर्वे प्रहा: प्रीयंतां । भगवान्नारायण: प्रीयतां । भगवान्पर्जन्य: प्रीयतां ।भगवान्स्वामी महासेन: प्रीयताम्‍ ॥
पुण्याहकालान्वाचयिष्ये । वाच्यतां उद्रातेव शकुने०, यत्पुण्यं नक्षत्र । पुनान: सोमेति सामब्राह्मणा: पठेयु: । ततो यजमान: ।
ब्राह्मं पुण्यं महर्यच सृष्टयुत्पादनकारकम्‍ ।
देववृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवंतु न : ॥११८॥
ब्राह्मणा मम गृहे अस्य कर्मण: पुण्याहं भवंतो ब्रुवंतु त्रिर्वदेत्‍ पुण्याहं इत्युत्तरं । स्वस्तिरिध्दि प्रपथे ऋक्क्‍ । अष्टौ देवा यजु: । त्रातारमिंद्रमिति साम ब्राह्मणा: प्रति ।
स्वस्तिर्याचाविना शाख्या पुण्यकल्याणवृध्दिदा ।
विनायकप्रिया नित्यं तां तां स्वस्तिं ब्रुवंतु न : ॥११९॥
ब्राह्मणा इत्यादि स्वस्ति भवंतो ब्रुवंत्विति त्रि: । ऊँ आयुष्मते स्वस्ति । ॠध्याम स्तोमं० । ऋध्यास्मह० यजु: । कयानश्चित्रेति साम ।
सागरस्य तु षा ऋध्दिर्महालक्ष्मादिभि: कृता ।
संपूर्णा चैव ऐंद्रेया यां तां ऋर्ध्दि ब्रुवंतु न: ॥१२०॥
ब्राह्मणा इत्यादि ऋध्दिं भवंतो ब्रुवंतु । ऋध्यतां ॥ अपा: सोमेति ऋक्‍ । त्वष्टा नक्षत्रमिति यजु: । अग्रिर्जोतिरिति सामब्राह्मणा: । प्रति ।
पृथिव्यां उधृता यांतु यत्कल्याणं पुरा कृतम्‍ ।
ऋषिभि: सिध्दगंधर्वै: तत्कल्याणं ब्रुवंतु न : ॥१२१॥
ब्राह्मणा इत्यादि कल्याणं भवंतो ब्रुवंतु । कल्याणं ॥ श्रिये जात: ऋक्‍ । यस्मिन्‍ ब्रह्मा यजु: । तं वो दस्मेति साम: ब्राह्मणा: । प्रति ।
क्षीरोदधि समुद्भूता मध्यमाने महोदधौ ।
विष्णुर्या च प्रिया नित्यं तां श्रियं भो ब्रुवंतु न: ॥१२२॥
ब्राह्मणा श्रीरस्तु इति भवंतो ब्रुवंतु । अस्तु श्री: । वर्षशतं पूर्णमस्तु । वंशाभिवृध्दिरस्तु । प्रजापति: प्रीयतां । ततो  ब्राह्मणा: सुरास्त्वेति पौराणिकमंत्रैर्यजमानमभिषिच्य ।
सुरास्त्वाभिषिंचंतु ब्रह्माविष्णुमहेश्वरा: ।
वासुदेवो जगन्नाथस्तथा संकर्षणो विभु: ॥१२३॥   
प्रद्युम्नश्चानिरुध्दश्च भवंतु विजयाय ते ।
आखंडलोग्रिर्भगवान्यमो वै नैऋतिस्तथा ॥१२४॥
वरुण: पवनश्चैव धनाध्यक्षस्तथा शिव: ।
ब्रह्मणा सहित: शेषो दिक्पला: पांतु ते सदा ॥१२५॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टि: श्रध्दा क्रिया मति : ।
बुध्दिर्लज्जा वपु: शांति: तुष्टिश्च कांति मातर: ॥१२६॥
एतास्त्वामभिषिंचंतु देवपत्न्य: समागता: ॥१२७॥
आदित्यचंद्रमा भौमो बुधो जीव: सितार्कजौ ।
ग्रहास्त्वामभिषिंचंतु राहुकेतुश्च तर्पिता: ॥१२८॥
देवदानवगंधर्वा यक्षराक्षसपन्नगा: ॥१२९॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा: दैत्याश्चाप्सरसां गणा : ॥१३०॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्चये ॥१३१॥
सरिता: सागरा: शैला: तीर्थानि जलदा नदा: ।
एते त्वामभिषिंचंतु सर्वकामार्थ सिध्दये ॥१३२॥
इति अभिषिच्य । करोतु ते स्वस्ति ब्रह्येत्यादि मंत्रै: यजमानस्य नीराजनतिल-कभाशिष्यश्च कुर्यु: । ततस्तंडुलपूजादौ गौर्यादिषोडशमातृका आवाह्य । पंच सप्त वा घृतधारा: कृत्वा वसुधाराद्यै नम: इति पूजयेत्‍ । तत्र मंत्रा: ।
हिमाद्रितनयां देवीं वरदा भैरवप्रियाम्‍ ।
लंबोदरस्य जननीं गौरीमावाहयाम्यहम्‍ ॥१३३॥
पद्मास्यां पद्मनयनां पद्मनाभिरसिस्थिताम्‍ ।
जगत्प्रियां पद्मवासां पद्मामावाहयाम्यहम्‍ ॥१३४॥
दिव्यरुपां विशालाक्षीं शुचिकुंडलधारिणी ।
रत्नयुक्ताद्यलंकारां  शचीमावाहयाम्यहम्‍ ॥१३५॥
विश्वस्मिन्‍ भूरिरक्ताब्जे जलनिर्झरसेविताम्‍ ।
बुध्दिप्रबोधिनीसौम्यां मेधामावायाम्यहम्‍ ॥१३६॥
जगत्सृष्टिकरीं धात्रीं देवीं प्रसवमातृको ।
वेदगर्भा जगन्मायां सावित्रीं स्थापयाम्यहम्‍ ॥१३७॥
सर्वास्त्रधारिणीं देवीं सर्वाभरणभूषिताम्‍ ।
सर्वदेवनतां ध्येयां विजयां स्थापयाम्यहम्‍ ॥१३८॥
दैत्यक्षयकरीं देवीं देवानामभयप्रदाम्‍ ।
त्रैलोक्यवंदितां देवीं जयामावाहयाम्यहम्‍ ॥१३९॥
मयूरवाहिनीं देवीं खडशक्तिधनुर्धराम्‍ ।
आवाहचे देवसेनां तारकासुरधातिनीम्‍ ॥१४०॥
हविर्गृहीत्वा सततं देवेभ्यो य: प्रयच्छति ।
तां दिव्यरुपां परमां स्वाहामावाहयाम्यहम्‍ ॥१४१॥
अग्रिष्वाता पितृभ्यो या काव्यार्थे या प्रतिष्ठिता ।
पितृणां तृप्तिदां देवीं स्वधामावाहयाम्यहम्‍ ॥१४२॥
विश्वस्मिन्‍ मातृरुपेण स्थितां देवीं वरप्रदां ।
संस्तुतैव जगन्मात: शांतामावाहयाम्यहम्‍ ॥१४३॥
सर्वहर्षकरीं देवीं भक्तायामयप्रदाम्‍ ।
हर्षोत्फुल्लाक्षकमलां दृष्टिमावाहयाम्यहम्‍ ॥१४४॥
या पुष्णाति जगत्सर्व निजदेहसमुद्रवै: ।
शाकै: रत्नैर्जलै: चैव पुष्टिमावाहयाम्यहम्‍ ॥१४५॥
नरैराराधितां देवीं सदा संतोषशालिनीम्‍ ।
प्रसादसुमुखीं देवीं तुष्टिमावाहयाम्यहम्‍ ॥१४६॥
पत्तने नगरे प्रामे विपिने पर्वते गृहे ।
नानाजातिकुलेशानिं देवीमावाहयाम्यहम्‍ ॥१४७॥
समीपे मातृवर्गस्य सर्वाविघ्रहरे सदा ।
त्रैलोक्यपूजितं देव गणेशं स्थापयाम्यहम्‍ ॥१४८॥
एतैरावाह्य ।
ब्राह्मी माहेश्वरी [चैव] कौमारी वैष्णवी [तथा] ।
वाराही [ च त] थेंद्राणी चामुण्डा [ सप्तमातर:] ॥१४९॥
ब्राह्मादिसप्तमातृका आवाह्य संपूज्य । कुडयादौ सप्तपंचवाससोधारायै नम: इति घृतधारा: कृत्वा संपूज्य सां कल्पिकेन विधिना नांदीश्राध्दं कुर्यात्‍ । तद्यथा दूर्वायवफलाद्यात्‍ आपसत्य्वसुसंज्ञिका विश्चेदेवा: नांदीमुखा: भूर्भुव: स्व: इदं व: पाद्यं स्वाहा नम इयं च वृध्दि: । एवं मातृपितामहीप्रतितामह्य: नांदीमुखा: भूर्भुव: स्व: इदं व: पाद्यं स्वाहा नम इयं च वृध्दिरिति क्षिपेत्‍ । पितृपितामहप्रतितामहा: नांदीमुखा : भुर्भुव: स्व: इदं व: [पाद्यं स्वाहा नम इयं च वृध्दि: ] । एवं मातामहमातृपितामहमातृप्रतिमहा: पत्नीसहिता: नांदीमुखा: इदं व: पाद्यं दत्वा आचम्य । ततो दूर्वागंधाक्षतयवानादाय सत्यवसुसंज्ञिकाविश्वेदेवो: नांदीमुखा: स्व: इदं व: आसनगंधाद्युपचारकल्पनं स्वाहा नम इयं च वृध्दि: । एवं मातृपितामहीप्रतितामह्य: पितृपितामहप्रतितामहा: मातामहमातु: पितामहमातु: प्रतितामहा: पत्नीसहिता: नांदीमुखा: भूर्भुव: स्व: आसनगंधाद्युपचारकस्पनं स्वाहा नम: इयं च वृध्दि: । ततो दूर्वाक्षतयवानादाय सत्य [वसुसंशिकाविश्वेदेवा: ] नांदीमुखा: युग्मब्राह्माणभोजनपर्याप्तामत्रं ग्रामं हिरण्यं वा यथाशक्तिसोपस्कारं स्वाहा नम: इयं च वृध्दि: । एवमग्रेऽपि मातामहेभ्यो दत्वा गौर्यादिषोडशमातर: ब्राह्मादिसप्तमातर: इदं व: युगा ब्राह्मणेत्यादि दत्त्वा उपास्मै गायना नर इति पठित्वा । कृतस्य नांदीश्राध्दस्य प्रतिष्ठा [फल] सिध्यर्थ द्राक्षामलकनिष्क्रियभूतं द्रव्यं दक्षिणात्वेन स्वाहा नम: इयं च वृध्दि: इति दक्षिणा दत्त्वा प्रजापते न त्व इति पठित्वा । अनेन नांदीश्राध्देन नांदीमुखादेवता: प्रीयतां नम: इदं च वृध्दि: इति जलं क्षिपेत्‍ ।
मातापितामहीश्चैव तथैव प्रतितामही ।
पितापितामहश्चैव तथैव प्रतितामह: ॥१५०॥
मातामहस्तत्पिता च प्रमातामहकादय: ।
एते भवंतु सुप्रीता: प्रयच्छंतु च मंगलम्‍ ॥१५१॥
इळामग्रे इति । घंटादिवाद्यं कुर्यात्‍ । इति नांदीश्राध्दं ॥
अथ पुरोहितवरणं कुर्यात्‍ । फलकुंडलमुद्रिकाह्यलंकारहस्तकरिष्यमाण राजाभिषेककर्मणि पौरोहित्यं कर्तु अमुकप्रवरामुकगोत्रममुकगोत्रममुकशर्माणं राष्ट्रगोपं पौरोहित्येन एभि: वस्त्रालंकारादिभि: त्वामहं वृणे इति वृणुयात्‍ ।
ऊँ । अमोहमस्मि सा त्वं सा त्वमस्य मोहं धौरहं पृथिवी त्वं सामाहं ऋक्‍ त्वं तावेह संभवावहै ॥
पुराण्यस्मान्‍ महाभयात्‍ । तनुरसि तन्वं मे पाहि शते  पठित्वा ।
[इंद्रवज्रा ]
धर्मस्य धौम्यो जनकस्य वाम-
देवो वसिष्ठश्च यथा रघूणाम्‍ ।
पुरोहितो मे भव विप्रमुख्य
पुरोहितत्वं मम संचिकीर्ष्य ॥१५२॥
इति प्रार्थयेत्‍ ।तत: मधुपर्काद्येन अर्ध्ये संपाद्य कोटिमध्यात्तृतीयं भागं यथा भूमि प्रमाणेन हस्त्यश्वनरयानदिव्याभरणमातपत्रं हिरण्य क्षितिगोधनधान्यादिकं च गुरवे दद्यात्‍ येन स तुष्यतेति । तत: फलाद्यादाय करिष्यमाणराजाभिषेकसादस्य कर्मकट सादस्यत्वेन त्वामहं वृणे ।
[अनुष्टुभ ]
त्वं नो गुरु: पिता माता प्रभुस्त्वं च परायणम्‍ ।
त्वत्प्रसादाच विप्रर्षे सर्व मे स्यान्मनोगतम्‍ ॥१५३॥
आपव्दिमोक्षणार्थाय कुरु यज्ञमतंद्रित: ।
ऋत्विग्भि: सहितै: शुध्दै: संयतै:  सुसमाहितै: ॥१५४॥
आचार्येणापि सहित: सादस्यं कुरु सुव्रत: ॥१५५॥
इति सादस्यं वृणुयात्‍  । वृतोस्मि कर्म करिष्यामि इति सादस्य: । तत: आचार्यकर्मकर्तु अमुकप्रवरमौकगोत्रनामानं आचार्यत्वेन त्वामहं वृणे ।
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पति: ।
तथा त्वं मम यज्ञेऽस्मिन्‍ आचार्यो भव सुव्रत ॥१५६॥
वृतोस्मि कर्मकरिष्यामि इत्याचार्य: । एवं ब्रह्माणं ब्रुत्वा तत: ऋत्विग्वरणं उक्तद्रव्यै: पूर्वकुंडे होतृत्वेन त्वामहं वृणे इति वृत्वा ।
अस्य यागस्य निष्पत्तौ भवं संप्रार्थिता मया ।
सुप्रसन्नेन कर्तव्यं यज्ञकर्म यथोदितम्‍ ॥१५७॥
इति प्रार्थयेत्‍ । एवं सर्वत्र आग्रेयकुंडे दक्षिणकुंडे इत्यादि ईशानकुंडपर्येतं आष्टौ होतृन वृत्वा अष्टौ ब्राह्मणान्‍ अष्टौ जापकांश्च वृणुयात्‍ । ते च पूर्वाग्रेयकुंडयो वव्हृचा: दक्षिणनिऋत्यो याजुषा पश्चिमवायव्ये सामगा: उत्तरईशानयो अथर्वणा: । ततो व्दारपालान्‍ वृणुयात्‍ । उक्तद्रव्यै : अमुकप्रवरामुकगोत्रनामानौ पूर्वव्दारे शांतिसूक्तपाठार्थे युवामहं वृणे इति युगपत्‍ व्दौ वृत्वा ।
ऋग्वेद: पद्मपत्राक्षो गायन: सोमदैवत: ।
अत्रिगोत्रस्तु विप्रेंद्र ऋत्विक्त्वं मे मखे भव ॥१५८॥
इति प्रार्थयेत् । प्रत्येकं वरणं इति केचित्‍ एवं दक्षिणव्दारे यजुर्वेदिनौ ।
कातराक्षो यजुर्वेदस्त्र्यैष्टुभो विष्णुदैवत: ।
काश्यपेयस्तु विप्रेंद्र ॠत्विक्त्वं मे मखे भव ॥१५९॥
इति प्रार्थयेत्‍ । एवं पश्चिमव्दारे सामवेदिनौ ।
सामवेदस्तु पिंगाक्षो जाग्रत: शक्रदैवत: ।
भारव्दाजस्तु विप्रेंद्र ऋत्विक्त्वं मे मखे भव ॥१६०॥
इति प्रार्थयेत्‍ । एवमुत्तरव्दारे अथर्वणौ ।
बृहन्नेत्रो अथर्वेदो नुष्टुभो रुद्रदैवत: ।
वैशंपायन विपेंद्र ऋत्विक्त्वं मे मखे भव ॥१६१॥
इति प्रार्थयेत्‍ । तत: आचारात्‍ उपद्रष्टारं वृणुयात्‍ । तत: सर्वान्‍ प्रत्येकं मधुपर्केणार्चयेत्‍ । स च पूज्यशाखया पूजकशाखया वा । तत: ऋग्वेदिनां एकविंशति- कुशपत्रसूत्रवेष्टितं विष्टरमादाय । प्रामुख उदमुखो वा यजमानो विष्टरो ३ प्रतिगृह्यतामिति ब्रूयात्‍ उक्तोऽर्चस्तण प्रतिगृह्णामीति प्रतिगृह्य । अहं वर्ष्म सजातानां विद्युतामिव सूर्य: । इदं तमाधितिष्टामि यो भाकश्चमिदा सति ॥ इति तस्मिनुदगग्रे उपविश्य । एवं यजमानेन पाद्यं ३ प्रतिगृह्यतामित्युक्ते प्रतिगृह्णामीति प्रतिगृह्य पादप्रक्षालनं कारयेत्‍ । ‘अस्मिन्‍ राष्टे’ इत्यादि मंत्रान्पठेत्‍ । पादप्रक्षालनानंतर स्वयमाचामेत्‍ । एवं अर्ध्य प्रतिगृह्यतामित्युक्ते प्रतिगृह्य । तज्जलं स्वां जलौ क्षिपेत्‍ । एवमाचमनीयं । प्रतिगृह्य तदेकदेशं [ऊँ] अमृतोपस्तरणमसीत्याचामेत्‍ । तत: कांस्यविहितं मधुपकों ३ प्रतिगृह्यतामित्युक्ते ।[ ऊँ] मित्रस्य त्वा चक्षुषा प्रतीक्षे इति तं वीक्ष्य ।
[ऊँ] देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‍ । प्रतिगृहामि ॥
इत्यंजलिना प्रतिगृह्य सव्ये पाणौ कृत्वा मधुवाता ऋतायते मधु इति ऋचेनालोढय पूर्वादि दिक्षु ।
[ऊँ] वसवस्त्वा गायत्रेज छंदसा भक्षयंतु । [ऊँ] रुद्रास्त्वा त्रैष्टुभेन छन्नसा भक्षयंतु । [ऊँ ] आदित्यास्त्वा जागतेन छम्दसा भक्षय़ंतु ।[ऊँ] विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयंतु ।
इति तै: क्षिप्रा ॥ भूतेभ्यस्वैति त्रिरुर्ध्व क्षिपेत्‍ । ततो मधुपर्कैकदेशं ।
विराजो दोहोसीति प्राश्य लौकिकोदकेनाचम्य । विराजो दोहमशीय इति व्दितीयं प्राश्य लौकिकोदकेनाचम्य । मयि दोह: पद्यायै विराज: इति तृतीयं प्राश्य लौकिकोदकेनाचम्य ।
आचमनीयै[ कदेशं] ।
अमृतापिधानमसीत्याचम्य पुनर्लौकिकोदकेनाचम्य । सत्यं यश: श्रीर्मयि श्री: श्रयतामित्याचमनीयेनाचम्य । लौकि कोदकेन पुनराचामेत्‍ ।
ततो गंधादिनाभ्यर्च्य गोगोंरिति प्रतिगृह्यतामित्यर्च्यको ब्रुयात्‍ । ततोऽयं मातारुद्राणामिति पठित्वा ऊँ उत्सृजतेती ब्रूयात्‍ इति ॥
अथ अजुर्वेदिना अर्चकेन विष्टरमादाय कूर्च इत्युक्त अर्च तं प्रतिगृह्य ।
राष्टभृदस्याचार्यासन्दी मा त्वद्योषम्‍ ।
तस्मिन्नुपविशति आप: पाद्या इत्युक्ते ।
आप: पादावनेजनीव्दिषन्तं निर्हतु मे । अस्मिनकुले ब्रह्मवर्चस्यसानि ।
पाद्यमवेक्ष्य प्रक्षालयितारं उपस्पृश्य ।
मयि महो मयि यशो मयींद्रियं वीर्यम्‍ ।
आत्मानं अपउपस्पृश्य । अर्हणीया आप इत्युक्ते ।
आ मा गन्‍ यशसा वर्चसा संसृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपति पशूनाम्‍ ।
इत्युक्ता ।
विराजो दोहोसि विराजो दोहमशीय मम पद्याय विराज ।
अंजला वा नीयमाने ।
समुद्रं व: प्र हिणोमि स्वां योनिमपिगच्छत । अच्छिद्र: प्रजया भूयासं मा परासेचि मत्पय ।
इत्याभिमंत्रयेत्‍ । अर्चको दधिमधुकांस्याभ्यां च प्रतिगृह्य मधुपर्क इति वदेत्‍ ततोर्च्य ।
त्रय्यै विद्यायै यशोसि यशसो यशोसि ब्रह्मणो दीप्तिरसि । तं मा प्रियं [प्रजानां कुर्वधिपतिं ] पशूनाम्‍ । आ मा गन्‍ यशसा [ वर्चसा संसृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम्‍ ] ।
इति अभिमंत्र्य ।
अमृतोपस्तरणमासि ।
इत्याचम्य गंधवस्त्रादिभिरभ्यर्च गौरित्युक्ते अर्च्य ।
यज्ञो वर्धतां यज्ञस्य वृध्दिमनु वर्धाऽपचितिरस्यापचितिं मा कुर्वपचितोऽहं मनुष्येषु भूयासम्‍ । गौर्धेनुभव्या माता रुद्राणां [दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभि: । प्रणु वोचं चिकितुषे जनाय मा गामनोगामदिति] वधिष्ट । पिवतूदकं तृणान्यत्तु ॥
तत: सिध्दमत्रं भूतमित्युक्ते अर्च्य ।
भूतं । स विराट । तन्माक्षायि तस्य तेऽशीय तन्मा ऊर्ज धा: । ओं कल्पयत्‍ ॥
इत्युक्त्वा किंचिद्‍भक्षयेत्‍ । इति ॥
अथाथर्वाणानां अर्चक: कुशानर्चाय दत्वा विष्ठरान्‍ कुर्विति वदेत्‍ । ततो अर्च्य: दर्भानादाय ऋतेन त्वा कर्मणा सनह्यामीत्येकशाखं । सत्येन त्वा कर्मणा सनह्यामिती व्दिशाखं । तपसा त्वा कर्मणा सनह्यामीति त्रिशाखं । तूर्ष्णो त्रीन्‍ विष्टरान्‍ कृत्वा ।
अतिसृष्टो व्देष्टयां योऽस्मान्व्देष्टि यं च वयं व्दिष्म: । शिववर्मण: च दातु: ।
इति ।तान्‍ विष्ठरान्‍ अर्चकहस्ते दद्यात्‍ । ततो अर्चकेन एखशाखं व्दिशाखं विष्टरेण सहितं पाद्यं प्रतिगृह्य ।
हिरण्यवर्णा: शुचय: पावका यासु जात: सविता यास्वग्रि: ।
या अग्रिं गर्भ दधिरे सुवर्णास्ता न आप: शं स्योना भवन्तु ॥१॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन्‍ जनानाम्‍ ।
या अग्रिं गर्भे दधिरे सुवर्णास्ता न आप: शं स्योना भवन्तु ॥२॥
यासां देवा दिवि कृण्वन्ति भक्षं  या अन्तरिक्षे बहुधा भवन्ति ।
या अग्रिं गर्भ [ दधिरे सुवर्णास्ता न आप: शं स्योना भवन्तु] ॥३॥
शिवेन मा चक्षुषा पश्यत्ताप : शिवया तन्वोप स्पृशत त्वचं मे ।
[घृतश्रुत: शुचयो या: पावकास्ता न आप: शं स्योना भवन्तु] ॥४॥
ततो अर्च्य । मयि ब्रह्म च तपश्च धारयामीति दक्षिणं । मयि क्षत्रं च विशश्च धारयामीति वामं पादं प्रक्षालयेत्‍ ।
इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम्‍ ।
आप: पादावनेजनीव्दिषन्तं निर्दहन्तु मे ॥१६२॥
अस्य स दातु: इत्युक्तवंतं पश्येत्‍ । ततो अर्चको व्दित्रिशाखं विष्टरं आसनार्थ दद्यात्‍ तं प्रतिगृह्य । विमृग्वरीं पृथिवीमावदामिक्षमां भूमिं ब्रह्मण्यं वा दधानां ओज: पुष्टिं विभ्रति मध्यभागं घृतं त्वामनीषिद्दमे भूमे । तत: एकशाखे विष्टरे व्देष्टा योऽस्मान्द्रेष्टि यं च वयं व्दिष्म: । अस्य दातुरिति पठित्वा पादं स्थापयेत्‍ । ततो अर्चकेन निवेदितमर्ध्ये ।
अन्नानां मुखमसि मुखमहं श्रेष्ठ: समानानां भूयासम्‍ । आपोऽमृतं स्यामृतं मा कृणुत दासास्माकं बहवो दासास्माकं बहवो भवन्तु । अश्वावद्रोमन्मय्यस्तु पुष्टे भूर्भुव: स्वर्जनदोम्‍ ।
इति अभिमंत्र्य आत्माभिमुखं निनीय । तेजोऽस्यमृतमसि तज्जलं ललाटे कुर्यात्‍ । अर्चकेन भो इति दत्तमाचमनीयं प्रतिगृह्य ।
जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम्‍ ॥१॥
उपजीवा स्योप जीव्यांस सर्वमायुर्जीव्यासम्‍ ॥२॥
संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम्‍ ॥३॥
जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम्‍ ॥४॥
इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम्‍ । सर्वमायुर्जीव्यासम्‍ ॥
इत्याचामेत्‍ । ततो दाता दधिघृतयुतं मधुकांस्यस्थं तेन पिहितुं मधु: त्रिशाखविष्टर- मूर्ध्वस्थितैकशाखविष्टरं मधुपर्क भो इति दत्तं तत्करस्थमेवार्च्य अभिमंत्रयेन्मंत्रै: ।
मधु वाता ऋतायते मधु क्षरन्ति सिंधव: । माध्वीर्गावो भवन्तु न: ॥१॥
मधु नक्तमुतोषसो मधुमत्पार्थिवं रज: । माध्वीर्न: सन्त्वोषधी: ॥२॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्य: । मधु द्यौरस्तु न: पिता ॥३॥
इति पुनरेतै: प्रत्यमिमंत्र्य । सूर्यस्य त्वा चक्षुषा प्रतीक्ष इति प्रेक्ष्य ।
अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रमयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्व: ॥१॥
देवस्य त्वा सवितु: प्रसवेऽश्विनोर्वाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आरभे ॥२॥
प्रशिष्या: प्रतिगृह्णामीति प्रतिगृह्य । स्थंडिले प्राग्दंडं निधाय । पृथिव्यास्त्वा नामौ सादयम्यदित्या उपस्थ इति भूमौ निधाय । अंगुलिव्दयेन प्रदक्षिणमालोडायानामिकांगुष्टाभ्यां गृहीत्वा व्दादशवारं प्राश्रीयात्‍ । यथा ।
ऊँ भूस्तत्सवितुर्वरेण्यं भू: स्वहेति प्रथमम्‍ । भर्गो देवस्य धीमहि भुव: स्त्राहेति व्दितीयम्‍ । धियो यो न: प्रचोदयात्स्व: स्वाहेति तृतीयम्‍ । वयं देवस्य धीमहि जनत्स्वाहेति चतुर्थम्‍ । तुरं देवस्य भोजनं वृध्दत्स्वाहेति पश्चमम्‍ । तत्स्वाहेति षष्ठम्‍ । रुहत्स्वाहेति सप्तमम्‍ । महत्स्वाहेत्यष्टमम्‍ । तत्स्वाहेति नवमम्‍ । शं स्वाहेति दशमम्‍ । ऊँ मित्येकादशम्‍ । तूष्णीं व्दादशम्‍ ॥
प्राश्य  आचम्योच्छिष्टं विप्राय शूद्राय च दद्यात्‍ । ततो दाता गौगौंरिति दत्तां गां ।
भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत । ऊँ भूर्भुव: स्वर्जनादोम्‍ ।
इत्यतिसृज्य ।
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभि: ।
प्र नु वोचं [ चि कितुषे जनायं मा गामनागामदितिं ] वधिष्ट ।
तृणानि गोरुत्तुसूयवसाद्भवती गंधंतीमनुमंत्र्य यजमानस्य मम च पाप्महत इति वदेत । ततो यजमान वरणवूमेण वृतानां हस्ते ।
यदा बध्नन्दाक्षायणा हिरण्यं शतानीकाय सुमनस्यामाना: । तन्न आवध्नामि शतशारदायायुष्मां जरदष्टिर्वा यथा सत्‍ ।
इति मंत्रेण रक्तसूत्रं कंकणं बध्नीयात्‍ । तत: स्वपुरं पताकदिभिर्भूपयेत्‍ । ततो अमात्यान्‍ सांवत्सरं च कुंडलमुद्रिकादिभिर्भूषयित्वा आमात्याश्च ब्राह्मणक्षत्रियवैश्यशूद्रा: तव्दस्ते कंकण बध्नीयात्‍ व्दादशवाजस्रतोऽपि ॥
ततो विनायकशांति: करिध्यमाण राजाभिषेकांगत्वेन विनायकशांतिं करिष्ये । इति संकल्प्य । तत्र न ऋत्विग्वरणं वृतत्वात्‍ । आचार्यो गोमयोपलिप्ते देशे भद्रास नार्थमेकं स्वस्तिकं कृत्वा तस्य पूर्वादि दिक्षुचतुर: स्वस्तिकान्‍ ऋत्विग्भि: कारयित्वा मध्यस्वस्तिके रक्तमनुडुहं चर्मोत्तरलोमं प्राचीनग्रीवं आस्तीर्य । तस्योपरि श्रीपणीपीठं संस्थाप्य श्वेतवस्त्रेणाच्छादयेत्‍ । ततो ऋत्विजश्चतुर्दिक्षु स्वस्तिके चतु: कलशांश्चंदनं चर्चितान्‍ ऋकदामवेष्टितकंठानवाहतवस्त्रभूषितान्धान्यराशौ निधाय । र्‍हदोदकेन नददंगमोदकेन वा पूर्य ।
उध्दृता सिवराहेण कृष्णेन शतबाहुना ।
मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम्‍ ॥१६२अ॥
इति कुंभेषु पंचमृद: प्रक्षिप्य गंधव्दारामिति चन्दनागरुकस्तुरीकर्पूरगंधान्‍ गोरोचनं गुग्गुल सहकारादिपल्लवं निक्षिप्य । पूर्णपात्रनिधानांते कलशस्य मुखे० देवदानव इत्यादि पठित्वा कुभेषु त्वन्नो अग्रिवरुणस्येति वरुणमावाह्य षोडषोपचारपूजां वा निवर्त्य । आ नो भद्रा इत्यादिकं शन्नो वात: पवतामित्यादिका वा अन्यां स्वशाखापठितां  शांति पठेयु: । केचित्तु ऐशान्यां पंचमो रुद्रकलश: । पूर्वे कुंभे श्रीसूक्तं दक्षिणे महित्रीणां इति सूक्तं पश्चिमे नहि ते क्षत्रमिति वारुणं उत्तरे वामदेव्यं पश्चिमे रुद्रसूक्तान्‍ ते जपमाहु: । आचार्यो भद्रासनस्योत्तरभागे ऐशान्यां वा विनायकं तज्जननीमंबिकां च पीठादिस्थापितप्रतिमयो पूजयेत्‍ । तत्र मंत्रौ ।
ऊँ तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि । तन्नोदंती प्रचोदयात्‍ ॥
सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो [गौरी] प्रचोदयात्‍ ॥
ततस्तत्रेव व्योमकेशं पार्वती भीमजं वसुदेव अर्के सोम मंगलं बुधं बृहस्पतिं शुक्र शनैश्चरं राहुं स्कदं विष्णु एतान्संपूज्य । गृह्योक्त विधिना अग्रिं प्रतिष्ठाप्यान्वादध्यात्‍ । अत्र प्रधानं । मितं समितं शालं कटंकटं कुष्मांडं राजपुत्रं चैकैकयार्चया जुहुत्येत्यादि । चरुं श्रपयेत्‍ । यजमानो गव्याज्यलोलीकृतेन गौरसर्षपकल्प्येनोव्दर्तितांगसर्वोषधि चूर्णौश्चदनागरुकस्तुरिकादिभिश्च लिप्तशिरा भद्रासनोपविश्य: स्वगृह्योक्तमार्गेण स्वस्तिवाचन कुर्यात्‍ । ताभ्यो वस्त्रादिदानं [कुर्यात्‍ ] पूर्वकलशमादाय ।
सहस्राक्षं शतधारमृषिभि: पावनं कृतम्‍ ।
तेन त्वामभिषिंचामि पावमान्य: पुनंतु ते ॥१६३॥
इति अभिषिंचेत्‍ । ततो दक्षिणं कलशं आदाय ।
भंग ते वरुणो राजा भगं सूर्यो बृहस्पति : ।
भगमिंद्रश्च वायुश्च भंग सप्तर्षयो ददु: ॥१६४॥
इत्यनेन । तत :पश्चिमकलशमादाय ।
यत्ते केशेषु दौभार्ग्य सीमते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद्‍घ्रंतु सर्वदा ॥१६५॥
इत्यनेन । तत उदीच्यं कलशमादाय पूर्वोक्तैस्त्रिभिर्मत्रैरभिषिंच्य बृहत्पराशरोक्तै र्मेत्रैरभिषिंचेत्‍ ।
एतव्दैपावनं स्नानं सहस्राक्षमृषि स्मृतम्‍ ।
तेन त्वा शतधारेण पावमान्य: पुनंत्विमा ॥१६६॥
शक्रादिदशादिक्पाला ब्रह्मेशा: केशवादय: ।
आपस्ते घ्रंतु दौर्भाग्यं शांतिं ददतु सर्वदा ॥१६७॥
सुमित्र्यान्‍ आप ओषधय: सन्तु दुर्मित्र्यास्तस्मै सन्तु योस्मान्‍ व्देष्टि यं च वयं व्दिष्म: ।
समुद्रा गिरयो नद्यो मुनयश्च पतिव्रता: ।
वौर्भाग्यं घ्नतु ते सर्वे शांतिं यच्छंतु सर्वदा ॥१६८॥
एवमभिषिंच्य । यजमानस्य पश्चात्‍ तिष्टन्‍ सव्यपाणिनागृहीतकुशांतरिते यजनान मूर्धनि सार्षपं तैलमौदुंबरेण स्रुवेण जुहुयात्‍ ।
ऊँ मिताय स्वाहा । ऊँ शालाय स्वाहा । ऊँ कटंकटाय स्वाहा । ऊँ कुष्मांडाय स्वाहा । ऊँ राजपुत्राय स्वाहा ।
यजमानस्त्यागं कुर्यात्‍ । इध्माधानादि क्रुत्वा पूवोक्तै: षट्‍ मंत्रैश्चरुं रुत्वा प्रायश्चित्त होमातं कृत्वा चरुशेषेणाभिषेकशालायां चेंद्रादिलोकपालेभ्यो बलिं दद्यात्‍ ।
इंद्राय नम: । अग्रये नम: । यमाय नम: । निऋतये नम: । वरुणाय नम: । वायवे नम: । सोमाय नम: । ईशानाय नम: । ब्रह्मणे नम: । अनंताय नम: ।
अथ यजमाना: स्नात्वा शुकमाल्यांबरधरो गुरुणा सहितो विनायकांबिकायै च कृताऽकृत तंडुलतिलयुक्तोदकेन पक्कापक्कमत्स्यपक्कापक्कमांसत्रिविधासुराभूलकापूप पूरिकोंडेरकस्रज: दध्योदनं  पायसगुडमिश्रपिष्टतंदुलकुल्माषफलानि पूर्वोक्तमंत्राभ्यां विनायकांबिकायैश्चेतमुपहारं ददामि इति दत्वा शिरसा भूमिं गत्वा दूर्वाकुसुमसहि तेनोदकेन पूर्वोक्तमंत्राभ्यां अर्ध्य दूर्वासर्षपांजलिं दत्वा विनायकांबिकां चोपतिष्ठेत्‍ ।
रुपं देहि जय देहि यशो देहि व्दिषो जहि ॥१६९॥
[रुपं देहि जयं देहि] भगं भगवन्देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥१७०॥
इत्यंबिकां । तत: शूर्पे कुशानास्तीयोपहारशेषं तत्र निधाय चतुष्पथं गच्छेत्‍ । अन्य: कश्चित दीपं नयेत्‍ । तत्र मंत्रै: बलिं दद्यात्‍ ।
बलिं गृहंत्विमं देवा आदित्या वसवस्तथा ।
मरुतश्चाश्विनौ रुद्रा: सुपर्णा: पन्नगाग्रहा: ॥१७१॥
असुरा यातुधानाश्च पिशाचा मातरोरगा: ।
शाकिन्यो यक्षवेताला योगिन्य: पूतना शिव: ॥१७२॥
जृंभका: सिध्दगंधर्वा नागा विद्याधरा नगा: ।
दिक्पाला लोकपालाश्च येच विघ्रविनायका: ॥१७३॥
जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षय: ।
मा विघ्नं मा च मे पापं मा संतु परिसंथिन: ॥१७४॥
सौम्या भवंतु तृताश्च भूतप्रेता: सुखावहा: ॥१७५॥
तत आचम्य गृहं गत्वा आचार्याय वस्त्रव्दयं ऋत्विग्भ्योऽन्येभ्यश्च यथाशक्तिदक्षिणां दत्वा विनायकांबिकयोरुत्तरपूजां कृत्वा विसृज्य । आचार्याय प्रतिपाद्य प्रतिपाद्य । विभूतिं धृत्वा अग्रिं विसृज्य । ब्राह्मणान्मोचयेत्‍ ॥ इति विनायकशांति: ॥
८६.हा ‘विनायकशांति’ प्रयोग कमलाकरभट्टांच्या ‘शांतिकमलाकर’ ग्रंथांत पृ ४-६ वर( प्रकाशक: बी जी. शहरकर, अंबाप्रसाद प्रेस, पुणें, १८८९) दिल्याप्रमाणें आहे. ‘शांतिकमलाकरांत’ ‘विनियोग’ जरा अधिक तपशीलवार आहे. त्यानें विधिमंत्र ‘मदनरत्न’, ‘विज्ञानेश्वर’, ‘बृहत्पराशर’, ‘अथर्वणकौशिकगृह्यपरिशिष्ट’ या ग्रंथांतून घेतले आहेत.

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-14T02:20:46.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कोकिळ

  • पुस्त्री . मंजुळ शब्द करणारा एक पक्षी . ह्याचा आवाज फार मधुर असतो . मादी आपली अंडी कावळ्याच्या घरट्यांत अबवून घेते अशा समजुतीवरुन यास संस्कृतांत परभृत , अन्यभृत म्हणतात . कोकिल वसंत ऋतुंतच फक्त गातो . कोकिलाव्रत - न . अधिक आषाढांत कोकिळेचा शब्द ऐकल्यानंतर जेवण्याचें बायकांचें एक व्रत . 
  • ना. परभृत , पिक , वनप्रिय . 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.