TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शिवराजाभिषेकप्रयोग: - विधिमुहुर्तादि विचार

गागाभट्टकृत राजाभिषेकप्रयोग: ।


विधिमुहुर्तादि विचार
॥ श्रीगणेशाय नम:॥
इंद्रवज्रा
नत्वा गणेशं शिवशारदे च
मूलं समालोच्य च विष्णुधर्मम्‍ ।
राजाभिषेकस्य महाप्रयोगं
विश्वेश्वरो दैनकरिस्तनोति ॥१॥
स चाभिषेको व्दिविध: । प्रथमाभिषेको सांवत्सरिकश्चेति । तत्राद्ये पुरोहितादिना कृतं । राजा प्रथमाभिषेक रथसिंहासनासिच्छत्रचामरध्वजगजवाजीवस्त्रालंकारसांवत्सर- चिकित्सकपुरोहितादीन्पुत्रयुक्तादिनोपयोजयेदिति गोपथब्राह्मणात्‍ । तत्राद्रौ पुरोहितवरणं ।
तस्माद्रुरुं वेदरहस्य युक्तं
चतुर्विधौ कर्मणि चाप्रमत्तम्‍ ।
शांतं च दांतं च जितेंद्रियं च
कुर्याव्दिजेंद्रं प्रियदर्शनं च ॥२॥
इति गोपथब्राह्मणात्‍ । वरणोत्तरं च कर्तव्यं तत्रैवोक्तं  । मधुपर्काद्येन सर्वार्धे संपाद्य दक्षिणां दद्यात्‍ ।कोटिमध्यात्तृतीयं  भागं यथा भूमिप्रमाणेन वा हस्त्याश्वनरयानान्‍ दिव्यमाभरणमातपत्र हिरण्यं क्षिति गोधनं धान्यं रत्नादिकं च गुरवे दद्यात्‍ । अनया तुष्यतेति । ततो विनायकशांति कृत्वा मंडपं कुंडं च विधाय ग्रहमखैंद्रीशांतिश्च कारयेत्‍ आथर्वणसूत्र उक्तं । विष्णुधर्मोत्तरे तु । विनायकशांतिर्नोक्ता । राजाभिषेककालो विधिश्च वसिष्ठसंहितायां ।
आधानजन्मेशदशाधिनाथ
रवींदुभौमेज्यसिते: बलस्थै: ।
उक्त्वा हि दोषादिविवर्जितेषु
धरधिपानामभिषेक इष्ट: ॥३॥
मूलत्रिकोणस्वप्रहो मित्र-
प्रहस्थितैर्वाऽपि तदंशसंस्थितै: ।
शुभे विलग्रे सततं प्रहेंद्रा
दिशंति लक्ष्मीं विपुलां च कीर्तिम्‍ ॥४॥
स्वनीचगैर्वैरिग्रहाविगैर्वा
ह्यस्तंगतैर्वक्रमुपागतैर्वा ।
पापोदये शोकभयं त्वकीर्ति
दिशंति राज्ञां भृशमंबराटा: ॥५॥
शीर्षोदये चोपचये ग्रहे वा
स्वजन्मलग्रा [दथ लग्र] गेऽपि
शुभग्रहैर्युक्तनिरीक्षिते वा
पदं स्थिरं स्यात्‍ सततं च राज्ञां ॥६॥
रिक्ता स्वमायां बुधभौमवार-
विवर्जिते वारदिनेषु चैव ।
खले दिने क्रक्षनिशीशयोश्च
न नैधने भे त्वभिषेक इष्ट: ॥७॥
पापग्रहै: स्वांत्यगतैश्च नि:स्वो
रोगी विलग्रोपगतैर्भवेत्स: ॥
पदच्युत: सप्तचतुर्थसंस्थै: ।
पुत्रास्थितै: सर्वसुखैर्विहीन: ॥८॥
भ्रष्टोत्सुक: कर्मगतैरनायु :
मृत्युस्थितैर्वीर्ययुतैश्च पार्थै: ।
लग्रव्ययाष्टारिगत: शशांक:
क्षितीश्वरं हंति तदा बली चेत्‍ ॥९॥
केंद्रत्रिकोणत्रिघनाय सौम्यै:
त्रिषष्ठलाभारिगतैश्च पापै: ।
षष्ठालग्रव्ययवर्जितेन
चंद्रेण राज्ञां शुभदोऽभिषेक: ॥१०॥
यस्याभिषेके पुरुहूतमंत्री
लग्रे त्रिकोणे यदि वा भवेत्स: ।
षष्ठे कुज: कर्मगतश्च शुक:
स मोदते विक्रमराज्यलक्ष्म्या ॥११॥
दुश्चिक्यलाभारिगतैर्विनाऽर्क -
स्वस्थेऽमरेज्ये यदि बंधुगे झे ।
यस्यात्र योगे क्रियतेऽभिषेक -
श्चिरायुषस्त्वस्य पदं स्थिरं स्यात्‍ ॥१२॥
शुभेष चंद्र्योगेषु स्वयोगेषु शुभेषु च ।
राजयोगेषु यो राजा ह्यभिषिक्त: क्षितीश्वर: ॥१३॥
प्राग्भागे मंदिरस्याथ गोमयेन तु कारयेत्‍ ।
मंडल चतुरस्रं तव्दर्णकै: समलंकृतम्‍ ॥१४॥
तत्र भद्रासनं सम्यग्‍ अर्चयेत्सुमनोहरम्‍ ।
गंगातोयसुसंपूर्णस्वंर्ण कुंभोदकै: सह ॥१५॥
दिग्विदिक्षु स्थितै: शुकगंधमाल्यांबरार्चितै: ।
शतौषधीमूलहेमरत्नासव्दिजपल्लवै: ॥१६॥
मृत्तिका वृषश्रृंगं च गजदंतं सुरोचनम्‍ ।
उत्पलं पद्मकं पद्मं मुस्तरेणुककुंकुमम्‍ ॥१७॥
राजसर्षपमुस्तं च देवदारुसमन्वितै: ।
देवस्य त्वैति मंत्रेण आयु: पुष्टियशस्करै: ॥१८॥
आब्लिंगैर्वेदमंत्रैश्च शुभलग्रे शुभान्विते ।
भद्रासने स नृपतिरभिषेकं च कारयेत्‍ ॥१९॥
नीराजनं च कर्तव्यं शंस्त्रवादित्रनि:स्वनै: ।
आशिषो वाचन कृत्वा पूजयेश्च सुरान्पितृन ॥२०॥
आयुधानि पदं विप्रान्‍ गंध[व्दारा] दिनार्चयेत्‍ ।
शुकमाल्यांबरधृत: प्रामुखस्य महीपते: ॥२१॥
पट्टं शिरसि बधीयात्‍ सिंहासनगतस्य च ।
विप्रेभ्यो दक्षिणां दद्यात्‍ मानयेन्मंत्रपूर्वकम्‍ ॥२२॥
व्रुयात्प्रत्यमुखो राजा नमामि त्वां धरेति च ।
प्राच्यां मामभिषिचंतु वसवस्तेजसे श्रियै ॥२३॥
याम्यायामभिर्षिचंतु मां रुद्रा विजयाय च ।
आदित्यास्त्वभिषिंचंतु प्रतीच्यां दिशि वृध्दये ॥२४॥
विश्वेदेवास्तभिषिंचंतु अभिषिंचंतु तुष्टये ।
दिगीशास्तभिषिंचंतु मां सदा विजयाय च ॥२५॥
साम्राज्यमिति मंत्रेण राजानं सम्यगर्चयेत्‍ ।
व्याघ्रचर्मण्यथासीनं नवालंकारभूषितम्‍ ॥२६॥
छत्रचामरसंयुक्तं राजचिन्हसमन्वितम्‍ ।
पुरोहितश्च जुहुयात्सावित्र्याऽग्रौ प्रयत्नत: ॥२७॥
उदुंबरसमिद्भिश्च आज्योनाष्टोत्तरं शतम्‍ ।
विव्दत्पुरोहितामात्यवृध्दबंधुसमन्वितै: ॥२८॥
तदा संचित्य सप्तांगं प्रजा धर्मेण पालयेत्‍ ।
एवं य: कुरुते सम्य्‍क स राजा वर्ध्दते चिरम्‍ ॥२९॥
अथ विष्णुधर्मोंत्तरोक्तो राजाभिषेक: । हेमाद्रौ ।
अथ संभृतसंभारो राज्ञस्सांवत्सरस्तथा ।
कालेऽभिषेचनं कुर्यात्तं कालं कथयाम्यहम्‍ ॥३०॥
मृते राजनि कालस्य नियमोऽत्र विधीयते ।
तत्रास्य स्नपनं कार्य विधिवत्तिलसर्षपै: ॥३१॥
घोषयित्वा जयं चास्य सांवत्सरपुरोहितै: ।
अन्यासनोपविष्टस्य दर्शयेत्तं जनं शनै: ॥३२॥
सन्मानयित्वा स्वजनं मुक्त्वा बंधनगांस्तथा ।
अभयं घोषयित्वा तु कालाकांक्षी तथा भवेत्‍ ॥३३॥
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव ।
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि व्दिज ॥३४॥
न च भौमदिने राम चतुर्थ्या च तथैव च ।
नवम्यां नाभिषेक्तव्यश्चतुर्दश्यां च भार्गव ॥३५॥
ध्रुवाणि वैष्णवं शाकं हस्तपुष्यौ तथैव च ।
नक्षत्राणि प्रशस्यन्ते भूमिपालभिषेचने ॥३६॥
नागं चतुष्पदं विष्टिं किंतुघ्रं  शकुनिं तथा ।
करणानि न शस्यतें व्यतीपातदिनं तथा ॥३७॥
नक्षत्रमुल्काभिहतमुत्पाताभिहतं च यत्‍ ।
सोमसूर्यकुजाक्रांतं परिविष्टं च भार्गव ॥३८॥
मुहूर्ताश्चोक्तनक्षत्रा: सतां मानहितप्रदा: ।
कुजहोरास्तथानिष्टा सर्वत्र कुलिकस्तथा ॥३९॥
वृषोऽथ कीटसिंहौ च कुंभो लग्रश्च शस्यते ।
एतेषां जन्मलग्रा [भ्यां य: ] स्यादुपचयस्थित: ॥४०॥
तारा व्दितीया षष्ठी च चतुर्थी चाष्टमी तथा ।
नवमी च तथा शस्ता अनुकूलश्च चंद्रमा: ॥४१॥
पापाश्चोपचयस्थाने शस्तो लग्रे दिवाकर: ।
सौम्या: केंद्रगता लग्रा: शुभाश्चैव त्रिकोणगा: ॥४२॥
[इंद्रवज्रा]
लग्रे नवांश: क्षितिजस्य वर्जो
वर्गस्तथा तस्य महानुभाव: ।
सूर्यस्य वर्ग: सकल: प्रशस्तो
राजाभिषेके सग्रहो नृपाणाम्‍ ॥४३॥
कार्या पौरवरीशांति : प्रागेवास्य पुरोधसा ।
[प्राप्तेऽभिषेकदिवसे सोपवास: पुरोहित: ॥]॥४४॥
सोष्णीय: श्वेतवसन : सितचंदनभूषित: ।
सितामाल्योपवीतश्च सर्वाभरणभूषित: ॥४५॥
वेदिमुल्लिस्य मंत्रेण कृत्वा च विधिवत्तत: ।
जुहुयाव्दैष्णवान्मंत्रांस्तथा शाक्रान्विचक्षण: ॥४६॥
सावित्र्यान्वैश्वदेवांश्च सौम्यां च विधिवत्तत: ।
शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्‍ ॥४७॥
आयुषयमभयं चैव तथा चैवापराजितम्‍ ।
आशु: । आशु: शिशान: इति सूक्त्दं । शर्मगण: क्षर्मवर्मा गण इत्यादि आथर्वणे प्रसिध्द: । स्वस्त्ययना पुष्पत्रयापराजितगणा अपि । तत्रैव प्रसिध्द: ।
संपातवंतं कलशं तथा कुर्याश्च काश्चनम्‍ ॥४८॥
स्नानं समारभेद्राज्ञो होमकाले पुरोहित: ।
आदौ तु स्वेच्छया स्मात: पुन: मृद्भि: समारभे‍त्‍ ॥४९॥
पर्वताप्रमृदा तावन्मूर्धानं शोधयेनृप: ।
वल्मिकाप्रमृदा कर्णो वदनं वै शिवालयात्‍ ॥५०॥
इंद्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात्‍ ।
करिदंतोघृतमृदा दक्षिणं तु तथा भुजम्‍ ॥५१॥
वृषश्रृंगोघृतमृदा वामं चैव तथा भुजम्‍ ॥५२॥
सरोमृदा तथा पृष्ठं चोदरं संगमान्मृदा ।
नदीकूलव्दयमृदा पार्श्वेसंशोधयेत्तदा ॥५३॥
वेश्मव्दारमृदा राज्ञ: कटिशौचं विधियते ।
गजस्थानात्तथैवोरु गोस्थानाज्जानुनी तथा ॥५४॥
अश्वस्थानात्तथा जंघे राजा संशोधयेव्दुध: ।
रथचक्रोधृतमृदा तथैव चरणध्दयम्‍ ॥५५॥
मृत्स्नात: स्वपनीय: स्यात्पंचगव्यजलेन तु ।
ततो भद्रासनगतं  मुख्यात्म्यचतुष्टम्‍ ॥५६॥
वर्णप्रधान भूपालभिषिंचेद्यथाविधि ।
पूर्वतो हेमकुंभेन घृतपूर्णेन वाडव: ॥५७॥
वाडवो ब्राह्मण:
दक्षिणो क्षीरपूर्णेन रौप्यकुंभोन वाडज: [क्षत्रिय:] ।
दध्रा च ताम्रकुंभेन वैश्य: पश्चिमतो व्दिज: ॥५८॥
माहेयेन जलेनोदक्शूद्रमात्योऽभिषेचयेत्‍ ।
ततो ऽभिषेकं नृपतेर्बहृचप्रवरो द्विज: ॥५९॥
कुर्वीत मधुना राम च्छंदोगश्च कुशोदकै: ।
संपातवंत कलशं तथा नुत्वा पुरोहित: ॥६०॥
विधाय़ वन्हिरक्षां तु सदस्ये तु यथाविधि ।
राजसूयाभिषेके तु ये मंत्रा: परिकीर्तिता: ॥६१॥
अनुक्त समुच्चयार्थिश्चकार: । आजिं धावनसोनशौयाख्यानविदेवनादीनां संग्रह:
तैस्तु दद्यान्महाभागो ब्राह्मणानां स्वनेन तु ।
तत: पुरोहितो गच्छेव्देदिमूलं तदैव तु ॥६२॥
विभूषितं तु राजानं सर्वतोभद्र आसने ।
शतछिद्रेण पात्रेण सौवर्णेन यथाविधि ॥६३॥
अभिषिंचती धर्मज्ञ: [यजुर] सम्यग्वेद विशारद: ।
या औषधीरौषधीभि: सर्वाभि: सुसमाहित: ॥६४॥
रथे[ अक्षेति] तिष्ठेति गंधैश्च अब्रह्मन्ब्रह्मणेति च ।
वीजै: पुष्पै: तथा स्नानं रामपुष्पवतीति च ॥६५॥
तेनैव चाभिमंत्रेण फलैस्तमभिषेचयेत्‍ ।
आशु: शिशान इत्येव सर्वमंत्रैश्च भार्गव ॥६६॥
ये देवा: पुरस्सदेति कुशादैर्परिमार्जयेत्‍ ।
[ऋग्वेदक्रतुतो राज्ञे रोचनाया यथाविधि॥]
ऋग्वेदावितथा राज्ञा चंदनेन यथाविधि ॥६७॥
मूर्धानं च तथा कंठं गंधव्दारेति संस्पृशेत्‍ ।
ततो ब्राह्मणमुख्या[श्च] क्षत्रियश्च विशस्तथा ॥६८॥
शूद्राश्चावरमुख्याश्च नानातीर्थसमुद्भवै: ।
नादेयै: सारसै: कौपैर्नानाकलशसंस्थितै: ॥६९॥
चतुस्सागरजैर्लाभादलाभाव्दिजकल्पकै: ।
गंगायमुनयोश्चैव निर्झरैश्च तथोद्भिदै: ॥७०॥
छत्रपाणिर्भवेत्कश्चित्केश्चित्केचिचामरपाणय: ।
अमात्यमुख्यास्तत्कालं केचिव्देत्रधरास्तथा ॥७१॥
शंखभेरीनिनादेन बंदीनांनि स्वनेन च ।
गीतावादित्रघोषेण व्दिजकोलाहलेन च ॥७२॥
राजानमभिषिंचेयु: समेत्य सहिता: जना: ।
सर्वलोकाभिषिक्तस्य संमिश्रजलसंश्रुतम्‍ ॥७३॥
सर्वौषधियुतं पुण्यं सर्व: गव्ययुतं तथा ।
रत्नबीजसमायुक्तं चंदनै: कुसुमैस्तथा ॥७४॥
पूजितं सितवस्त्रेण चोदते ग्रीवमेव च ।
श्वेतवस्त्राम्रपत्रैश्च संवीतं शुचिभूषितम्‍ ॥७५॥
क्षीरवृक्षलताछत्रं सुदंडं कांचनं नवम्‍ ।
आदाय कलशं राजा स्वयं सांवत्सरस्तदा ॥७६॥
मंत्रावसाने स्तपनं कुर्याद्‍भृगुकुलोद्भव: ।
तत: पश्येन्मुखं राजा दर्पणे चाथ सर्पिषि ॥७७॥
सोष्णीष: सितवस्वैश्च मंगलालंभनं चरेत्‍ ।
तत: संपूजयेव्दिष्णुं  ब्रह्माणं शंकरं तथा ॥७८॥
लोकपालान्प्रहांश्चैव नक्षत्राणि च भार्गव ।
तत: स्वपूजां कुर्वीत शयनीयं ततो व्रजेत्‍ ॥७९॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम्‍ ।
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत्‍ ॥८०॥
राजा चैवार्चयेत्तत्र सांवत्सरपुरोहितौ ।
मधुपर्केण धर्मज्ञस्ततस्तस्य सदैव हि ॥८१॥
पट्टबंधं प्रकुर्वीत[ मुकुटस्य च बंधनम्‍ ।
तत: स बध्दमुकुट: काले पूर्व मयेरितम्‍ ॥८२॥
परार्ध्यास्तरणोपेते पंचचर्मोत्तरच्छदे ।
ध्रुवा धौ इति मंत्रेण] सोपवेश्य पुरोधसा ॥८३॥
वृषस्य वृषदंशस्य व्दीपिनश्च भृगूत्तम ।
तेषामुपरि सिंहस्य व्याघ्रस्य च तत: परम्‍ ॥८४॥
तत्रोपविष्टस्य तदा प्रतिहार: प्रदर्शयेत्‍ ।
अमात्यांश्च तथा पौरान्नेगमांश्च पणस्तदा ॥८५॥
तथा प्रकृतयश्चान्या यथावदनुपूर्वश: ।
ततोऽग्रहदानैश्च तुरंगकनकोत्तमै: ॥८६॥
गोजाविग्रहदानैश्च सांवत्सरपुरोहितौ ।
पूजयित्वा तत: पश्चात्पूजयेद्‍ब्राह्मणोचयम्‍ ॥८७॥
अनेनैव विधानेन येन राजाभिषेचित: ।
ततस्यदस्यान्संपूज्य सांवत्सरपुरोधस: ॥८८॥
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत्‍ ।
गोवस्त्रतिलरुप्यान्नफलकांचनगोरसै: ॥८९॥
मोदकै: श्वेतपुष्पैश्च महादानैश्च सुव्रत ।
मंगलालंभनं कृत्वा गृहीत्वा सशरं धनु: ॥९०॥
वहिं प्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरुन्‍ ।
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥९१॥
पूजयित्वा च तुरगं मंत्रितं चाभिषेचितम्‍ ।
तत्रारुह्य ततो दानं पूजयेचाभिषेचितम्‍ ॥९२॥
मंत्रितं दक्षिणे कर्णे स्वयं दैवविदा तत: ।
आरुह्य राजमार्गेण स्वपुरं च ततो भ्रमेत्‍ ॥९३॥
मुख्यामात्यैश्च सामंतै: सांवत्सरपुरोहितै: ।
सहित: कुंजरारुढैरभिगच्छेच देवता: ॥९४॥
तासां संपूजनं कृत्वा नगरे या निवेशिता ।
पविशेत गृहं राजा प्रहष्टनरवाहन: ॥९५॥
दानमानादिसत्कारै: मृदीयात्प्रकृतीस्तत: ॥९६॥
[उपजाति]
संपूजितास्तास्तु विसर्जयित्वा
स्वके गृहे स्यान्मुदितो महात्मा ।
विधानमतत्समवाप्य राजा
कृत्स्नां च धात्रीं वशगां निदध्यात्‍ ॥९७॥
अत्र च आथर्वणोक्तप्रधानमात्रग्रहणेऽपि ऐंद्रीशां [त्या ] दौ अग्रिप्रतिष्ठापनास्विष्ट-कृतादिपूर्वोत्तरांगानि स्वशाखीयान्येव काम्यकर्मणां इव । प्रधानमात्रग्रहणेन विधिश्चारितार्थ्यात्‍ । किंचिदाथर्वणपरिशिष्ठे अथेंद्रीशांति व्याख्यास्याम: इत्युपक्रम्य विनायकस्नपनइशानबलिग्रहनक्षत्रयागनैऋतबलीनुक्त्वा ऐन्द्रीशांतिरुक्त्वा ।तेनाधिकाराख्यप्रकारेण विनायकस्नापनादीनार्मैद्रीशांत्यंगत्वमनम्यते । अत: कार्या-पौरंदरीशांतिरिति विष्णुधर्मे । सा पौरंदरीशांतिग्रहणं विनायकशांति कृत्वा ऐंद्रीशांति: कार्येत्याथर्वणसूत्रे  तु याज्ञवल्क्यस्मृतिविहितविनायकशांतिरभिषेकांगत्वांगत्वेन विधीयते । तेन विनायकशांतिविनायकलपनयो: समुच्चयो युक्त: केचित्तु कार्या पौरंदरीशांतिरितिनृत्यमेव प्रधानमात्रग्रहणेन विनायकस्नपनादिते छांति । तत्सांग ऐंद्रीशांतिविधानाचिंत्यं । एतत्सर्व प्रयोग उक्त: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-14T02:19:37.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adjutant

  • सा. Mil. समादेशक साहाय्यक 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.