TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|
बृहत्कथामञ्जर्याः परिशिष्टम्

बृहत्कथामञ्जर्याः परिशिष्टम्

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


बृहत्कथामञ्जर्याः परिशिष्टम्
पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयमहो नु ते ।
भुङ्क्ष्व गत्वा श्रियं राजन्नो चेदेकां कथां श्रृणु ॥१॥
श्रीमान्वेत्रवतीपूरमेखलायां महीपतिः ।
नगर्यां विदिशाख्यायां क्ष्मापतिः शूद्रकोऽभवत् ॥२॥
तस्मै कदाचिदास्थाने चण्डालपतिपुत्रिका ।
उपायनीचकारैकं रत्नं सर्वविदं शुकम् ॥३॥
राज्ञा कृतफलाहारः स पृष्टः स्वकथां निशि ।
ऊचे दीर्घास्ति वेणीव देव विन्ध्याटवी भुवः ॥४॥
तस्यां पम्पासरस्तीरे मदोद्धत इवोन्नतः ।
शुककोटिनिवासोऽस्ति जीर्णः शाल्मलिपादपः ॥५॥
तस्मिन्वृद्धशुकस्याहं जातश्छिन्नगतेः सुतः ।
प्रसवक्लेशनिर्जीवा जननी पञ्चतां ययौ ॥६॥
तातेन द्विगुणस्नेहात्पक्षगर्भादनुज्झितः ।
धृतोऽहं जननीस्नेहाच्छुष्कौषधिहलाम्बुभिः ॥७॥
एकदा शबरव्रातैः संनिपातैरिवोत्कटैः ।
कानने मृगयासक्तैः सर्वप्राणिभये कृते ॥८॥
अप्राप्तवन्यपिशितस्तं समारुह्य शाल्मलिम् ।
एकश्चकार शबरः स्थविरः शुकसंक्षयम् ॥९॥
तातं विधाय निर्जीवं पक्षाच्छादितमत्तनुम् ।
क्षितिक्षिप्तैः शुकैरन्यैस्तमादाय जगाम सः ॥१०॥
अहं तु तातपक्षान्तर्लम्बमानतनुश्च्युतः ।
निचये जीर्णपर्णानां पुण्यशेषेण रक्षितः ॥११॥
ततस्तत्सरसि  स्नातुं प्राप्तेन मुनिसूनुना ।
हारेतनाम्ना नीतोऽहं कृपया स्वतपोवनम् ॥१२॥
जाबालिर्जनकस्तस्य तत्राब्जज इवापरः ।
स सर्वन्विस्मितं प्राह मामालोक्य महामुनिः ॥१३॥
स्वस्यैव कर्मणः पाकं स्नेहादनुभवत्यसौ ।
श्रुत्वैतन्मुनयः सर्वे पप्रच्छुर्मम चेष्टितम् ॥१४॥
सोऽब्रवीदुज्जयिन्याख्या पुरी रमुयास्त्यवन्तिषु ।
विधातुर्बिविधाश्चर्यनिधानानामिवावधिः ॥१५॥
तारापीडाभिधस्तस्यां बभूवावनिवासवः ।
देवी विलासवत्यस्य शुकनासश्च मन्त्रवित् ॥१६॥
निरपत्यतयार्तायाः पत्न्याः शोकेन दुःखितः ।
स्वप्नेऽपश्यत्स तद्वक्त्रं प्रविशन्तं निशाकरम् ॥१७॥
विलासवत्यथानन्दमिवासूत जनप्रियम् ।
चन्द्रसंदर्शनात्स्वप्ने चन्द्रापीदाभिधं सुतम् ॥१८॥
पत्नी च शुकनासस्य पुत्रं प्राप मनोरमा ।
वैशम्पायननामानं स्वप्नेऽब्जप्राप्तिसूचितम् ॥१९॥
कुमारस्याप्तविद्यस्य जनन्याः शासननादभूत् ।
कन्यका पत्रलेखाख्या ताम्बूलदलवाहिनी ॥२०॥
यौवराज्याभिषेकार्द्रः कुमारः सोऽथ शक्तिमान् ।
वर्षत्रयं महासेनः पृथ्वीं बभ्राम दिग्जयी ॥२१॥
कदाचिदुत्तराशान्ते मृगयार्थी चचार सः ।
अब्धिजन्मानमारुह्य हयमिन्दायुधाभिधम् ॥२२॥
स दृष्ट्वा किंनरद्वन्द्वं मनोहरतराकॄति ।
वेगाज्जिघृक्षन्नाज्ञासील्लङ्घितां विपुलां भुवम् ॥२३॥
तस्मिन्वने तु दीर्घाध्वश्रान्तः कैलासभूभुतः ।
प्रापाच्छोदं सरः पार्श्वे स्फटिकस्वच्छसुन्दरम् ॥२४॥
आश्वासिताश्च सलिलैस्तत्र शुश्राव सुस्वरम् ।
दूराध्गीतध्वनिं त्यक्तग्रासैराकर्णितं मृगैः ॥२५॥
गत्वा सुदूरं सोऽपश्यच्चतुर्मुखशिवालये ।
कन्यां मूर्तिमतीं शंभोश्चूडाचन्द्रकलामिव ॥२६॥
दृष्टोपवीणयन्तीं तां ततस्तद्विरतौ शनैः ।
सोऽपृच्छज्जन्मवृत्तान्तं निवेद्य स्वकथां पुरः ॥२७॥
सा नाम्ना प्राह हंसोऽस्ति गन्धर्वाधिपतिर्गिरौ ।
हेमकूटे स मां गौर्यां महाश्वेतामजीजनत् ॥२८॥
सरः स्नातुमिदं मात्रा सह संप्राप्तया मया ।
दृष्टौ मुनिसुतौ कान्तौ पुण्डरीककपिञ्जलौ ॥२९॥
पुण्डरीकः स मे कर्णे स्वकर्णाद्दिव्यमञ्जरीम् ।
चकार कौतुकार्तायाश्चित्तवृत्तिं जहार च ॥३०॥
आहूता छत्रधारिण्या ततोऽहं मातुराज्ञया ।
नाज्ञासिषं स्वभवनं प्राप्य काहमिदं च किम् ॥३१॥
तदीयसुहृदाभ्येत्य मन्मथव्यग्रता तदा ।
तथा मे कथिता तस्य गताहं तत्पदं यथा ॥३२॥
गत्वा व्यसुं प्रियं दृष्ट्वा तत्राहं मरणोद्यता ।
भविता प्रियलाभस्ते भीर्मेत्युक्त्वा सुधांशुना ॥३३॥
पुण्डरीकं गॄहीत्वेन्दौ प्रयाते सकपिञ्जले ।
स्थितास्मि न सहे दाहं तध्द्यानव्रतसंयुता ॥३४॥
सुहॄच्चित्ररथाख्योऽस्ति गन्धर्वेन्द्रः पितुर्मम ।
मदिरायां प्रिया तस्य जाता कादम्बरी सुता ॥३५॥
तया मुद्दुःखतुल्यत्वाद्विवाहे नियमः कृतः ।
तां प्रेषिता बोधयितुं सखी तरलिका मया ॥३६॥
इति स्मृतिनवीभूतशोकया कथिते तया ।
श्रुत्वा संक्रान्त््पीडश्चन्द्रापीडोऽनयन्निशाम् ॥३७॥
प्रातर्ज्ञात्वा महाश्वेता ततस्तरलिकागिरा ।
अत्यन्तदुर्ग्रहामेव सखीं चित्ररथात्मजाम् ॥३८॥
गन्धर्वनगराश्चर्यदर्शनप्रणयार्थिनम् ।
चन्द्रापीडं समादाय कादम्बर्यास्पदं ययौ ॥३९॥
चन्द्रापीडोऽपि गन्धर्वपुरे रत्नगृहे स्थिताम् ।
कादम्बरीं नयनयोर्ददर्श प्रमदप्रदाम् ॥४०॥
तयोः सकौतुकाकृष्टविलोकनरतोत्सवे ।
मनः परस्परप्रेमसोत्रस्यूतमिवाभवत् ॥४१॥
प्रेमोद्यानात्कुमारोऽथाकृष्टः स्वनगरीं ययौ ।
पितुः शासनलेखेन पवनेनेव षट्पदः ॥४२॥
त्वरया न्यस्तसैन्याब्धिं दृष्ट्वा प्राप्तं सुतं नृपः ।
किं वैशम्पायनं त्यक्त्वा संप्राप्तोऽसीत्यभर्त्सयत् ॥४३॥
पश्चात्सैन्ये समायाते तत्रैवावस्थितं वने ।
वैशम्पायनमाकर्ण्य शुकनासः शशाप तम् ॥४४॥
चन्द्रापीदं प्रभुं त्यक्त्वा जनकं मां च दुर्जनः ।
स्थितस्तत्रैव पक्षीव शुकपाठी शुकस्तु सः ॥४५॥
कादम्बरीवियोगार्तः सुहृदं दूरवर्तिनम् ।
चन्द्रापीडस्तमन्वेष्टुं प्रययौ शासनात्पितुः ॥४६॥
महाश्वेताश्रमं प्राप्य साश्रुधारामधोमुखीम् ।
वैशम्पायनवॄत्तान्तमपृच्छत्साब्रवीच्च तम् ॥४७॥
आविष्ट इव संश्लेषं ययाचे चपलः स माम् ।
शुकवच्चाटुकृन्नीतः शापेन शुकतां मया ॥४८॥
त्वन्मित्रमिति विज्ञाय पश्चान्मोहान्ध्यमाश्रिता ।
श्रुत्वैतद्दुःसहतरं चन्द्रापीडोऽभवव्द्यसुः ॥४९॥
कादम्बरी प्रियं श्रुत्वा महाश्वेताश्रमे स्थितम् ।
सहिताभ्याययौ पूर्वस्थितया पत्रलेखया ॥५०॥
विजीवितं प्रियं दृष्ट्वा मोहं कादम्बरी ययौ ।
इन्द्रायुधं समादाय पत्रलेखाविशत्सरः ॥५१॥
तदैव सरसस्तस्मादुदतिष्ठत्कपिञ्जलः ।
अभ्येत्य स महाश्वेतां प्रीत्या पृष्ठस्तयाब्रवीत् ॥५२॥
उत्क्षिप्तः पुण्डरीकोऽसौ पृष्टः पश्चान्मया दिवि ।
मामुवाच शशाङ्कोऽहं शप्तस्त्वत्सुहृदामुना ॥५३॥
मत्तुल्यव्यथयैवार्ति यास्यस्यपरजन्मनि ।
मया च प्रतिशप्तोऽयं त्वमप्येवं भविष्यसि ॥५४॥
शापान्तावधि तस्यापि देहमस्य स्वमण्डले ।
मद्वंशजा महाश्वेता जामाता तत्पतिर्मम ॥५५॥
श्रुत्वाहमेतच्चन्द्रोक्तं पुण्डरीकपितुर्मुनेः ।
श्वेतकेतोः पदं गन्तुं प्रवृत्तस्तत्कथार्पकः ॥५६॥
वैमानिकः खे व्रजता मया वेगेन लङ्घितः ।
अशपन्मां जवोदग्रं तुरगस्त्वं भविष्यसि ॥५७॥
ततोऽहमब्धौ पतितः क्षणादश्वः समुत्थितः ।
इन्द्रायुधाभिधः प्राप्तश्चन्द्रापीडस्य वाहताम् ॥५८॥
अधुना मुक्तशापोऽहं गच्छामि श्वेतकेतवे ।
वक्तुं वृत्तान्तमित्युक्त्वा ययौ व्योम्ना कपिञ्जलः ॥५९॥
कादम्बरीं लब्धसंज्ञां प्रवेष्टुं वह्निमुद्यताम् ।
वर्षन्निवामृतं चन्द्रः प्रोवाच गगनस्थितः ॥६०॥
त्वं चन्द्राकान्तपर्यङ्के देहं रक्षास्य निर्व्यथा ।
अचिरात्प्राप्तजीवोऽयं भविष्यति पतिस्तव ॥६१॥
श्रुत्वैतद्गदितं खे च संसयाश्वासिताशया ।
चन्द्रापीदशरीरस्य परिचर्यारताभवत् ॥६२॥
देशं ततस्तं सहितः शुकनासेन शोकवान् ।
पत्न्या विलासवत्या च तारापीडः समाययौ ॥६३॥
वैशम्पायनतां यातः पुण्डरीकः क्षितावयम् ।
इति जाबालिकथितं श्रुत्वा जातिः स्मृता मया ॥६४॥
कपिञ्जलोऽथ मामेत्य समाश्वास्याविशन्नमः ।
महाश्वेताश्रमं गन्तुमुद्यतोऽहं च्युतः श्रमात् ॥६५॥
बद्धश्चाण्डालजालेन प्रपतः कुत्सितपक्कणम् ।
चण्डालकन्यया तत्र क्षिप्तोऽहं हेमपञ्जरे ॥६६॥
न वेद्मि हेतुना केन देवस्योपायनीकृतः ।
शुकेनेत्थं कथितया कथया सह सा क्षपा ॥६७॥
क्षयं ययौ स्मयेनेव स्मेरविस्मेरतारका ।
कादम्बरीं स्मरन्क्षीब इव राजा समीक्ष्य ताममाम ॥६८॥
पप्रच्छ प्रातराहूय चन्डालीं तामुवाच सा ।
देवः कुमुद्वतीकान्तस्त्वं शंकरशिरोमणिः ॥६९॥
वैशम्पायनतां यातः शापादेव गुरोः शुकः ।
अद्यापि चपलः शापभीत्याय परिरक्षितः ॥७१॥
प्राप्ता चण्डालता राजञ्जनस्पर्शभयान्मया ।
इत्युक्त्वा साविशद्व्योम तेजपिञ्जरिताम्बरा ॥७२॥
जीवं दयिते स्मृत्वा जहतुः शुकशूद्रकौ ।
चन्द्रापीडः क्षणे तस्मिन्सहसावत्पजीवितः ॥७३॥
कण्ठे कादम्बरीं चक्रे रत्नशय्यासनोत्थितः ।
पुण्डरीकश्च तत्काले निर्गतश्चन्द्रमण्डलात् ॥७४॥
महाश्वेतां समाभ्येत्य चक्रे हर्षसुधाप्लुताम् ।
ह्म्सचित्ररथावेत्य गन्धर्वाधिपती ततः ॥७५॥
दुहित्रोश्चक्रतुः प्रीत्या विवाहोत्सवमङ्गलम् ।
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ॥७६॥
अनुरागोऽधिकः कस्य राजन्नेतेषु कथ्यताम् ।
राजा तमब्रवीन्मन्ये चन्द्रापीडोऽनुरागवान् ॥७७॥
सुहृद्वृत्तान्तमाकर्ण्य यस्य चेतस्तदास्फुटत् ।  
इति श्रुत्वैव वेतालो गत्वा पुनरलम्बत ॥७८॥

इति चतुर्विशो वेतालः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-02T22:40:30.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

श्याल

  • पु. बायकोचा भाऊ ; शालक ; साला ; मेहुणा . श्यालें तुझ्या नृपाळा ... - मोकर्ण १५ . १६ . धर्म म्हणे श्यालक हो , प्रसवावे सद्यशोर्थ सुत नातें । - मोभीष्म ३ . १९ . [ सं . ] 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.