TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

धीवराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


धीवराख्यायिका
राजा मलयसिंहोऽभूत्पुरे राजगृहाभिधे ।
तस्य मायावती नाम तनयाभूत्सितस्मिता ॥१५०॥
वसन्ते संततामोदनन्दितेन्दीवराकुले ।
सा कदाचिद्वरोद्याने विजहार मनोहरे ॥१५१॥
ततो यदृच्छया यातः सुप्रहाराभिधो युवा ।
ददर्श धीवरः कान्तां तां तारुण्यतरङ्गिणीम् ॥१५२॥
दृष्ट्वैव तद्गुणक्षिप्तकंदर्पबडिशेन सः ।
तूर्णं हतमनोमीनः शून्यो ह्रद इवाभवत् ॥१५३॥
स तु ध्यानपरो गत्वा मुमूर्च्छास्वस्थविग्रहः ।
पृष्टो जनन्या स्वं वृत्तं शनैर्लज्जानतोऽवदत् ॥१५४॥
धीवरी धीवरी साथ ज्ञात्वा रक्षिभिकाभिधा ।
मत्स्योपायनहस्ता तां सेवितुं कन्यकां ययौ ॥१५५॥
चिरेण सेवया तस्यास्तुतोष नृपपुत्रिका ।  
प्रीतिजालैर्मनोमत्स्यः कस्य नाम न कृष्यते ॥१५६॥
करवाणि प्रियं सत्यं तवेत्युक्तवतीं च ताम् ।
धीवरी प्राह पुत्रो मे त्वां विना याति पञ्चताम् ॥१५७॥
राजपुत्री निशम्येति ध्यात्वोवाच तथेति ताम् ।
प्रतिश्रुतं हि महतां पश्चात्तापैर्न लुप्यते ॥१५८॥
ततः स्नातस्तयाहूतो भूषितः सुरभीकृतः ।
न्यस्तः स धीवरयुवा शय्यायां गुप्तमन्दिरे ॥१५९॥
सहिता गुह्यराजेन राजपुत्री ततोऽविशत् ।
निशि शय्यागृहं खिन्ना चन्द्रकान्तिरिवाम्बरम् ॥१६०॥
तमालिलिङ्ग सा तत्र हर्षपीयूषवर्षिणी ।
अदृष्टपूर्वसंस्पर्शकातरं भृशविह्वलममा ॥१६१॥
चिरान्मनोरथप्राप्त्या प्रशान्तविरहानलः ।
स भेजे क्षीणवृत्तित्वात्क्षणं मोक्षोपमां दशाम् ॥१६२॥
अप्राप्तसुरतासङ्गः स निद्रां क्षिप्रमाययौ ।
अधन्यः को हि दैवेन फलकाले न वञ्चितः ॥१६३॥
निद्रानिश्चेष्टमालोक्य तं राजतनया ययौ ।
लघुसंचारनिभृता करस्थगितनूपुरा ॥१६४॥
अहमभ्रष्टकौमारा प्राप्तकामश्च धीवरः ।
उभयोः कुशलं दिष्ट्या ध्यात्वेति प्रीतिमाप सा ॥१६५॥
नष्टधीर्धीवरः कान्तां प्रबुद्धो वीक्ष्य निर्गताम् ।
उक्त्वा हा वञ्चितोऽस्मीति बभूव सहसा व्यसुः ॥१६६॥
विज्ञाय तं तथाभूतं राजपुत्री सुदुःखिता ।
तस्यानुशरणं वह्निप्रवेशे निश्चयं व्यधात् ॥१६७॥
ततो विदितवृत्तान्तः शोकलज्जाकुलो नृपः ।
तनयावत्सलश्चक्रे शंकराराधनव्रतम् ॥१६८॥
तस्य सत्यव्रतस्याग्रे प्रोच्चचार वचो दिवः ।
नरेन्द्र सुप्रहारोऽयं पूर्वं विप्रो न धीवरः ॥१६९॥
पुरा नागस्थलग्रामे द्विजन्माभून्महीधरः ।
तस्यायं तनयो गङ्गातीरे तत्याज जीवितम् ॥१७०॥
प्राणप्रयाणसमये दृष्ट्वाग्रे मत्स्यजीविनमम ।
स स्पृहावासनातुल्यां जातिं प्रपतोऽद्य गर्हिताम् ॥१७१॥
तस्यानुपतिता वह्निं तद्भार्येयं सुता तव ।
आयुशोऽर्धेन पुत्र्यास्ते जीवत्वेष द्विजाकृतिः ॥१७२॥
इत्याकर्ण्य नभोवाणीं स तया लम्बितायुषे ।
तस्मै ददौ तां तनयामिति प्राग्जन्मसोचिकाम् ॥१७३॥
इति धीवराख्यायिका ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-02T22:32:34.1430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.