TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कुरङ्गाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कुरङ्गाख्यायिका
ततो विद्याधराधीशैर्मुनीन्द्रैश्च सह स्थितम् ।
व्यजिज्ञपत्समभ्येत्य प्रणतो वाहिनीपतिः ॥९४॥
कन्या लावण्यपीयूषलहरी हरिणेक्षणा ।
विक्रोशन्ती हृतास्मीति सोचिता सा मया विभो ॥९५॥
को हि देव भवद्वीर्यरक्षितो व्योममण्डले ।
कर्तुं लङ्घितमर्यादः सहसा विप्लवं क्षमः ॥९६॥
स मया ललनाचौरः पृष्टः प्राह विहाय ताम् ।
संरम्भललितोत्तालमाल्यशेखरषट्पदः ॥९७॥
अहं मदनवेगस्य पुत्रो विद्याधरप्रभोः ।
जातः कलिङ्गसेनायामितो नाम नभश्चरः ॥९८॥
इयं मतङ्गदेवेन पुत्री सुरतमञ्जरी ।
विद्याधरी पुरा मह्यं दत्ता वाचैव सुन्दरी ॥९९॥
कालेन पालकस्याद्य सुतायोज्जयिनीपतेः ।
अवन्तिवर्धनाख्याय वितीर्णा तेन मानिना ॥१००॥
ततो मया माययेयं हृता मानुषरागिणी ।
स्त्रीकृते को हि सहते वीरो न्यक्कारमात्मनः ॥१०१॥
इत्युक्तवाक्यः स ययौ मौनतां परदारहृत् ।
पालकस्य स्नुषा चासौ मुक्ता सुरतमञ्जरी ॥१०२॥
श्रुत्वा हरिशिखस्येति वचनं वाहिनीपतेः ।
गोपालानुमते प्राह नरवाहो नभश्चरान् ॥१०३॥
तदमात्यं च सुनयव्रतं भरतरोहकम् ।
वृत्तं सुरतमञ्जर्यास्ततो विज्ञायतेऽखिलम् ॥१०४॥
इति प्रभुगिरा गत्वा स समादाय खेचरः ।
सभायां न्यस्तवांस्तौ च नरनाथं प्रणेमतुः ॥१०५॥
मातुलेयं परिष्वज्य सोऽपश्यत्तस्य मन्त्रिणम् ।
स च पृष्टोऽवदत्कन्यावृत्तं भरतरोहकः ॥१०६॥
अस्ति वत्सेश्वरदिष्टः पालको लोकपालकः ।
वीर प्रशास्ति वसुधां वसुधामशतप्रदः ॥१०७॥
ततः कदाचित्संप्राप्तपुर्यामुदकदान्तिके ।
महोत्सवे पौरजनो बभूवाबद्धकौतुकः ॥१०८॥
हत्वा चण्डमहासेनो दैत्यमङ्गारकं पुरा ।
प्रत्यब्दं तद्गिरा चक्रे वारिदानोत्सवस्थितिम् ॥१०९॥
महोत्सवारम्भो भूषिताशेशमण्डले ।
यात्राकुलेषु लोकेषु प्रहृष्टो निर्ययौ गजः ॥११०॥
स निर्गतो लम्बमानचरणालानश्रृङ्खलः ।
भारपीडाभयेनेव भोगीन्द्रानुगतो बभौ ॥१११॥
स लेभे लोलमत्तालिवलयश्यामलै रदैः ।
मन्थोत्थकालकूटाम्बुसिक्तमन्दरविभ्रम म् ॥११२॥
तच्चण्डडिण्डिमध्वानपिण्डिते जनमण्डले ।
अकालप्रलयभ्रान्तिभीमः कोलाहलोऽभवत् ॥११३॥
ततः कुतूहलाकृष्टा निर्ययुस्तरलेक्षणाः ।
पुरभङ्गापरित्रस्ता गरहाणामिव देवताः ॥११४॥
मुखाम्बुरुहहारिण्यस्ता बभुर्नयनोत्पलाः ।
विलोडनभयात्प्राप्ता नलिन्य इव सेवितुम् ॥११५॥
विद्रुतेष्वथ लोकेषु तत्र चण्डालदारिका ।
तस्य तस्थावसामान्यलावण्यटिनी पुरः ॥११६॥
भ्रूलतालास्यललितं स्तनस्तबकसुन्दरम् ।
उद्यानमिव पुष्पेषोर्बिभ्राणामिव यौवनम् ॥११७॥
उगुञ्जाहारानुकारीभिर्भूषिताधरकान्तिभिः ।
गरुरी लीलाकिरातीव कटाक्षशिखिपिच्छिका ॥११८॥
दीर्घवेणीलता मौर्वीतनुमध्या मनोभुवः ।
त्रिवली मुष्टिमुद्रेव क्रीडाकोडण्डचन्द्रिका ॥११९॥
भयानभिज्ञा सा तत्र तस्थौ कौतुकनिश्चला ।
वल्लरीव निवातस्था कुटिलालकषट्पदा ॥१२०॥
तां जिघृक्षुः स सहसा कदलीमिव कुञ्जरः ।
ससर्पोद्दण्डशुण्डालो राहुश्चन्द्रकलामिव ॥१२१॥
ह्रियमाणाम गजेन्द्रेण वीक्ष्य तां चकितेक्षणाम् ।
ग्रस्तं रूपं गता कान्तिरिति पौराः प्रचुक्रिशुः ॥१२२॥
मातङ्गानामियं लक्ष्मीः कामिनीति मतङ्गजः ।
रत्नुं करेण पस्पर्श सहसा त्यक्तविक्रियः ॥१२३॥
अतिचन्द्रामृतः कोऽपि परिरम्भो मृगीदृशाम् ।
पशवोऽपि यमासाद्य भवन्ति सुखनिश्चलाः ॥१२४॥
( तत्स्पर्शमीलिताक्षं तं विलोक्य करिणं जनाः ।
अहो चित्रमहो चित्रमित्यूचुः कौतुकाकुलाः ) ॥१२५॥
अवन्तिवर्धनस्तत्र राजपुत्रोऽयमुत्सुकः ।
दृष्ट्वा चण्डालकन्यां तामभवत्स्मरतापितः ॥१२६॥
ततस्तद्विरहायासपाण्डुरः प्रतिवासरम् ।
कृष्णपक्षकृतालम्बः शशीव क्षामतां ययौ ॥१२७॥
पालकोऽथ सुतं ज्ञात्वा सभार्यः पृथिवीपतिः ।
गाढाभिलाषं मातङ्ग्यां चिन्ताशोकाकुलोऽभवत् ॥१२८॥
राजानं दुःखसंतप्तं तनयस्नेहयन्त्रितम् ।
प्राहावन्तिवती देवी धिगेवं कुलपांसनम् ॥१२९॥
राजा राजकुले जातो विद्याभिरभिसंस्कृतः ।
अतीव कोऽप्ययोग्येषु विधत्ते साभिलाषताम् ॥१३०॥
पापः कोऽ‍प्येष जठरे मया भारश्चिरं धृतः ।
अस्य शीलेन नः सर्वं संशये पतितं कुलम् ॥१३१॥
शीलं राज्ञा दिशां चन्द्रस्तारुण्यं हरिणीदृशाम् ।
लतानां मधुमासश्च विभूषणमकृत्रिम म् ॥१३२॥
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥१३३॥
इति जायावचः श्रुत्वा प्राह पालकभूपतिः ।
देवि चन्डालकन्यैषा दिव्यजातिरिवेक्ष्यते ॥१३४॥
रूपमुत्तम््लाना कान्तिः सप्रतिभं वचः ।
गणनीया गुणश्रीश्च सूचयन्ति न नीचताम् ॥१३५॥
धात्रा शापावतीर्णासौ कापि स्वर्गवधुर्ध्रुवम् ।
रज्यते जातिदोषेण मर्त्यसंस्पर्शदूषणात् ॥१३६॥
नगरे सुप्रतिष्ठाख्ये राज्ञः सेनाजितः पुरा ।
पुत्री कुरङ्गिका नाम विहर्तुं वनमाययौ ॥१३७॥
अत्रान्तरे मदगजस्त्रुटितालानश्रृङ्खलः ।
धावञ्जग्राह तामेत्य नीलाद्रिरिव जङ्गमः ॥१३८॥
तां राजपुत्रीं नागेन दृष्ट्वा विप्रह्रदे जने ।
ररक्ष करिणं हत्वा कोऽपि चण्डालदारकः ॥१३९॥
ततः परस्परप्रेमविलोकनमहोत्सवे ।
तयोर्बभौ मनोग्रन्थिविदग्धो मकरध्वजः ॥१४०॥
सेवाभिरौषधैर्मन्त्रैः प्रीतिः कालेन जायते ।
दृष्टमात्रस्तु वशद अतीव दयितो जनः ॥१४१॥
स चन्डालकुमारोऽथ गत्वा तद्विरहाकुलः ।
श्मशाने वह्निमादाय जीवितं त्यक्तुमुद्ययौ ॥१४२॥
तमुवाच ततस्तत्र भगवान्पावकः स्वयम् ।
कानीनस्त्वं मम सुतो न त्वं चण्डालदारकः ॥१४३॥
कपिलाख्या ब्राह्मणस्य पुत्री कपिलशर्मणः ।
मया समागता पूर्व त्वामसूत रविप्रभम् ॥१४४॥
त्यक्तस्तया कन्ययैव कुन्त्या वैकर्तनिर्यथा ।
चण्डालेनासि संप्राप्य गोक्षीरेण विवर्धितः ॥१४५॥
गच्छ याचस्व तां कन्यां भूपालं ब्राह्मणो भव ।
प्राक्कर्मजोऽयं संसर्गदोषः प्लुष्टो मयाद्य ते ॥१४६॥
श्रुत्वेति पावकवचो गत्वा सेनाजितं नृपम् ।
कन्यामयाचत प्रौढश्चौकोपास्मै ततो नृपः ॥१४७॥
ततस्तु जन्मवृत्तान्तं यथोक्तं स्वयमग्निना ।
देवदूतो दिवः प्राह तच्चामन्यत भूपतिः ॥१४८॥
ततः कुरङ्गीं संप्राप्य चिरं विरहतापिताम् ।
पित्रार्पितामिति प्रायो देवा यान्त्यपि दुष्कुले ॥१४९॥
इति कुरङ्गाख्यायिका ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-02T22:31:56.0970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नदारद

  • स्त्री. ( या शब्दसंहतीचा मूळचा फारसी भाषेतील अर्थ त्याच्या जवळ नाही . असा आहे . परंतु बोलतांना पुढील भिन्न अर्थांनी या शब्दसंहतीचा उपयोग केला जातो ) १ ( साधारणपणे ) नकारदर्शक शब्द ; नन्ना . पैसा नदारत , खायलाहि नदारत . २ खर्चून गेलेला ; फस्त केलेला ; फडशा पाडलेला . लांकूड तर नदारद . - पेद २१ . ६९ . नाहीसा , नष्ट झालेला ; गत ; लुप्त . ४ न दिलेला ; बाकी राहिलेला . किल्याचे नदारद फाजील किल्ले यांजकडे शिल्लक तेरासव्वाशे रुपये राहिली असे . - थोमारो १ . ३४८ . ५ पार फडशा ; कुल फडशा ; बेबाक करणे . नदारदची याद दप्तरची भरण्याची सर्कारचे मोर्तबानसी होती ते मशार्निल्हेनी दाखविली . - रा ६ . ५१८ . [ फा . नदारद = त्याच्याजवळ नाही ] 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site