TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

गोपालसंन्यासकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोपालसंन्यासकथा
विद्याधरीवचः श्रुत्वा मूर्च्छितो नरवाहनः ।
पपात सुहृदामग्रे वज्राहत इवाचलः ॥३७॥
( विद्याधरीभिरभितः कदलीपल्लवानिलैः ।
व्रीज्यमानः शनैः संज्ञामवाप्य विललाप सः ॥३८॥
हा विलासरसावास हा गाम्भीर्यमहोदधे ।
हा सप्तभुवनोद्यानफुल्लकीर्तिलतावन ॥३९॥
हा दक्षिण्यनिधे देव हा तात सुतवत्सल । )
क्कासि मे वचनं देहि वत्सेत्यमृतनिर्भरम् ॥४०॥
अहो नु निरनुक्रोशः सज्जनक्रकचोऽन्तकः ।
कथाशेषः कृतो येन त्वमपि क्ष्माविशेषकः ॥४१॥
स त्वं वत्समहीपतेरगणितं रूपेण चन्द्रस्मयः  
पेठे न स्तुतिरञ्चिता न रचितश्चित्रं गुणेष्वञ्जलिः ।
देव्यो येन सतीव्रतेन च कृता दूरान्नतिः केवला
कालः केवललोलुपः स निखिलां लोकावलीमश्नुते ॥४२॥
श्रीमत्तत्पृथुहारनिर्भरमुरः शौर्यापराद्रेस्तटं
तौ स्तम्भप्रतिभं भुजावपि जगत्प्राकाररक्षार्गले ।
कीर्तिः स्वर्गनदी सुवर्णकमलं वक्त्रं क्कं तातस्य त -
द्दृष्ट्वाहं पुनरिन्दुवृन्दयशसो धिङ्मे चिरं जीवितम् ॥४३॥
इत्युक्तवति शोकाग्निसंतप्ते नरवाहने ।
रुरुदुर्गोमुखमुखा देव्यस्ता बाष्पलोचनाः ॥४४॥
तेषां करुणमाक्रन्दं श्रुत्वाश्रुलुलितेक्षणाः ।
बभूवुर्भुवनोद्यानकेलिबालकुरङ्गकाः ॥४५॥
ततो निभृतसंचारा विनयानतदृष्टयः ।
विविशुः शोकविवशा विद्याधरधराधराः ॥४६॥
तेषां कुण्डलकेयूरपद्मरागारुणांशुकैः ।
शोकाग्निना दह्यमाना मूर्तेनेवाभवन्दिशः ॥४७॥
ततः कृतोदकस्नानो वृतो विद्याधरेश्वरैः ।
मातरं साश्रुनयनः शुशोच नरवाहनः ॥४८॥
तं शोकवडवावह्निकथ्यमानमिवाम्बुधिम् ।
वीक्ष्य पिङ्गलगान्धारः प्राह वायुपथस्तथा ॥४९॥
देव धैर्यव्ययः कोऽयं तवापि महतां कुले ।
नहि निःसारसंसारविकाराः प्रभविष्णवः ॥५०॥
नहि शोकः प्रियभ्रंशे कर्तव्यो वृद्धसेविभिः ।
भवेऽप्यभावसद्भावे भावा भ्रूभङ्गभङ्गुराः ॥५१॥
एकेऽद्य श्वस्तदपरे तत्परेऽह्नि तथापरे ।
यान्ति निःसीम्नि संसारे कः स्थाता योऽनुशोचति ॥५२॥
ध्रुवं न कुर्युर्मुनयस्तपांसि विजने वने ।
यदि न स्युरमी भावाः पर्यन्तविशरारवः ॥५३॥
लक्ष्मीरम्भाकुठारस्य भोगाम्भोदनभस्वतः ।
विलासवनदावाग्नेः को हि कालस्य विस्मृतः ॥५४॥
न गुणा हीनविद्यानां श्रीमतां क्षीणसंपदाम् ।
कृतान्तपण्यशालायां समानः क्रयविक्रयः ॥५५॥
( अन्धस्य दर्पणेनेव गीतेनेव हतश्रुतेः ।
गतस्य कोऽर्थः शोकेन नेक्षते न श्रृणोति यः ) ॥५६॥
अकस्मात्संगतो नाम यद्यकस्माद्विनङ्क्ष्यति ।
शोकः किं तत्र सर्वे हि य आन्ति चायान्ति जन्तवः ॥५७॥
अश्रुतिर्बन्धुतां धत्ते कथं नष्टस्य नश्वरः ।
स्कन्धेन पङ्गुना पङ्गुर्बत वर्त्मनि नीयते ॥५८॥
जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां नासौ तेषां न तस्य ते ॥५९॥
प्रयाति चपला लक्ष्मीः स्रवत्यायुरलक्षितम् ।
इति वस्तुस्वभावेऽस्मिन्कोऽनुशोचति तत्त्वधीः ॥६०॥
गताञ्शोचति को नाम यः प्रातः शोच्यते परैः ।
छिन्नहस्तो विहस्तश्च कथं बन्धाति कङ्कणम् ॥६१॥
रुद्यते जीवतां पुंसां येषा कालो भयंकरः ।
निस्तीर्णकालभङ्गास्तु न शोच्या विगतासवः ॥६२॥
न तज्जगति पश्यामो विचिन्त्य निखिलं धिया ।
दुष्प्रापं यत्प्रयत्नेन न लीढं कालजिह्वया ॥६३॥
नृगनाभागसगरा निगीर्णा येन हेलया ।
जृम्भमाणे महाकाले तस्मिन्को नाम मुच्यते ॥६४॥
विकोशाशापलाशेऽस्मिन्संसाराभसरोरुहे ।
कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥६५॥
तेजो नास्ते गुणाः सा श्रीस्तत्सुखं ताश्च केलयः ।
कालसंकल्पकलया नेयन्ते स्मृतिशेषताम् ॥६६॥
विकचत्कवलक्रीडा यस्य ब्रह्माण्डपिण्डकैः ।
सर्वंकषाय कालाय नमस्तस्मै महाशिने ॥६७॥
इति तद्वचनन्यस्तशोकाग्निर्नरवाहनः ।
भर्गग्रस्तविषस्याप दुग्धाब्धेरुपमां शनैः ॥६८॥
गोपालचरितं ज्ञातुं विसृष्टा पुनरागता ।
विद्या विद्याधरेन्द्राय ततः सर्वं न्यवेदयत् ॥६९॥
देव वत्सेश्वरादिष्टं दत्वा राज्यमुदारधीः ।
पालकाय स्वयं भ्रात्रे गोपालस्तपसे गतः ॥७०॥
प्रणयात्प्रार्थ्यमानोऽपि स पौरैर्रनुयायिभिः ।
जटावल्कलभृत्प्राह न्यस्तसंसारवासनः ॥७१॥
स्मेरचामरहासिन्यो वल्लभाः कस्य न श्रियः ।
किंतु ताः पवनालोलकदलीदलचञ्चलाः ॥७२॥
सुखिनो जातनिर्बन्धकर्मबन्धो हि वासना ।
विशरारुः समाहारः सर्वाग्रहपरिग्रहः ॥७३॥
तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।
सहजोऽन्तस्थितस्तस्य चिरादामूलमुद्धृतिः ॥७४॥
आशालतावलयितं बद्धमूलमविद्यया ।
को हि पातयितुं शक्तः सुखेन भवपादपम् ॥७५॥
धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो ।
अवसन्ना विनश्यन्ति क्षुद्रा क्षौद्ररसेष्विव ॥७६॥
अस्मिञ्शरीरकुसुमे भृङ्गवज्जीविते स्थिते ।
चपलेषु न भावेषु ताटस्था ममतोचिताः ॥७७॥
परिच्छिन्नाशिनः किं भे कोटिभिर्भूरिसंचयैः ।
न पश्यामि गतः किंचित्कोऽयं सर्वग्रहो मम ॥७८॥
अपर्याप्तसमस्तेच्छाः सक्ता दारैर्धनैः सुतैः ।
कालव्यालसमाक्रान्ता नीयन्ते हन्त जन्तवः ॥७९॥
तरङ्गतरलैरर्थैर्भोगैर्भ्रूभङ्गभङ्गुरैः ।
मुहूर्तशेषैस्तारुण्यैरविलब्धो रराम कः ॥८०॥
आत्मयज्ञात्मपुण्यानामात्मतीर्थोपसेविनाम् ।
त्यक्तापमानस्पर्शानां नैव शोचन्ति बान्धवाः ॥८१॥
जरन्मृगः श्रृङ्गमिव त्वचं वृद्धः इवोरगः ।
पक्षीवेन्मथितं शालं बन्धमुज्झति तत्त्ववित् ॥८२॥
भावाः स्वभावविशरारव एव ताव -
त्संश्लेषलेखदृढरागि मनश्च तेषु ।
तत्सर्वथा बहुवियोगविषाकुलानां
शान्त्यै मणिस्तनुभृता विततौ विवेकः ॥८३॥
इत्युक्त्वा पौरपुरतो बान्धवांस्तपसे गतः ।
कश्यपस्याश्रमं श्रीमानसिताचलकन्दरम् ॥८४॥
इति विद्यानिगदितं निशम्य नरवाहनः ।
जगाम मातुलं द्रष्टुं सुहृद्भिः सह सानुगः ॥८५॥
दयिताध्यासितपदं विमानं कमलासनम् ।
आरुह्य व्योममार्गेण सोऽविशत्कश्यपाश्रम म् ॥८६॥
प्रणम्य कश्यपं तत्र गोपालसचिवं ययौ ।
तं विलोक्य जटापुञ्जव्यञ्जितोरुतपःप्रभम् ॥८७॥
प्रसन्नतरुसच्छाये निर्वैरहरिकुञ्जरे ।
प्रणम्य साश्रुनयनः प्रोवाच नरवाहनः ॥८८॥
मातुल स्नेहजलधिं जनकं जननीं च ताम् ।
क्क पुनर्बत पश्येयमित्युक्त्वा कश्मलं ययौ ॥८९॥
तं शोकविवशं वीक्ष्य विद्याभृच्चक्रवर्तिनम् ।
गोपालः प्राह मा मैवं कृथास्त्वं धैर्यभूधरः ॥९०॥
राजन्दलितकर्पूरपरागविशदं यशः ।
जगत्सु गीयते यस्य न शोच्यः स पिता तव ॥९१॥
सा च चारित्रसाविती सौभाग्यगिरिपुत्रिका ।
याता वासवदत्ता ते धन्या कीर्तिसरस्वती ॥९२॥
मातुलस्येति वचसा मन्दशोकः सहानुगः ।
तत्रैव तस्थौ विद्याभिः कल्पितोदारमन्दिरः ॥९३॥
इति गोपालसंन्यासकथा ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-02T22:31:06.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

neovossia horrida

  • निओव्होसिया होरिडा (धानचा बंटा रोग) 
  • (bunt of rice) 
RANDOM WORD

Did you know?

सुतकातील नियमांबद्दल मार्गदर्शन करावे.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.