कर्पूरमञ्जरीविवाहः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कर्पूरद्वीपमासाद्य नरवाहः सगोमुखः ।
वज्रन्विवेश वृद्धायाः क्षमामेकां निवेशनम् ॥४८९॥
कर्पूरमञ्जरीवृत्तं तेन पृष्टा च सावदत् ।
राजह्म्सी बभूवैषा कन्यका पूर्वजन्मनि ॥४९०॥
राजहंसेन सहिता नीडे चन्दनशाखिनः ।
शावकानब्धिकल्लोलहतान्दृष्ट्वा शुशोच सा ॥४९१॥
ततो जले तनुं त्यक्त्वा जाता जातिस्मरा सती ।
स्मृत्वा ह्म्सं तमस्नेहं विवाहविमुखी स्थिता ॥४९२॥
इति वत्सेश्वरसुतः श्रुत्वा गोमुखसंमतः ।
मिथ्याप्रलापमुखरो राजधानीं समभ्ययात् ॥४९३॥
हा हंसीत्यसकृत्तत्र विक्रोशन्तं विलोक्य तम् ।
पप्रच्छुर्गोमुखं राजकन्यकान्तःपुरस्त्रियः ॥४९४॥
सोऽब्रवीद्राजहंसोऽयमभूज्जलनिधेस्तटे ।
पोतशोकात्प्रिया चास्य तत्याज सलिले तनुम् ॥४९५॥
तद्वियोगादयमपि प्राक्षिपद्वपुरम्बुधौ ।
जातिस्मरोऽद्य तामेव स्मरन्हंसीं प्रसर्पति ॥४९६॥
इति तद्वचनं दास्यो राजपुत्र्यै न्यवेदयन् ।
सा चाभूद्भर्तृविद्वेषं त्यक्तुं परिणयोत्सुका ॥४९७॥
ततो ययाचे तां कन्यां नृपमभ्येत्य गोमुखः ।
नामाभिजनमावेद्य नरवाहस्य विश्रुतम् ॥४९८॥
दृष्ट्वा स्मराकृतिजुषां लक्षणैश्चक्रवर्तिनाम् ।
ददौ नरपतिः पुत्रीं स तस्मै विपुलोत्सवः ॥४९९॥
ततो विवाहवसुधां प्राप्तां कर्पूरमञ्जरीम् ।
मञ्जरीं यौवनतरोर्ददर्श नरवाहनः ॥५००॥
उत्सवं पुष्पधनुषो विभ्रमस्योद्भवावनिम् ।
संगीतशालां लीलाया निधानं रूपसंपदः ॥५०१॥
परिणीय मनोजन्मत्रैलोक्यजयमालिकाम् ।
रराज वत्सेशसुतः प्राप्य गौरीमिवेश्वरः ॥५०२॥
इति कर्पूरमञ्जरीविवाहः ॥१३॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP