TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

इन्दीवरसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इन्दीवरसेनाख्यायिका
इति सत्त्ववचोवृत्तं कथितं मरुभूतिना ।
वसन्तकः समभ्येत्य नरवाहनमभ्यधात् ॥४०८॥
मृगयारसिको गन्तुं देवो वत्सनरेश्वरः ।
प्रस्तुतस्त्वं च सोत्कण्ठो वनिनं द्रष्टुमिच्छसि ॥४०९॥
इत्याकर्ण्य प्रियतमामामन्त्र्य विरहाकुलाम् ।
वनं गजरथानीकैः सह पित्रा ययौ क्षणात् ॥४१०॥
( निघ्नन्कुञ्जरशार्दूलवराहहरिणान्वने ।
विजहार तुरङ्गेण कान्तां रत्नप्रभां स्मरन् ॥४११॥
ततःस च जवोत्कृष्टतुरङ्गो ) निश्चलासनः ।
ललास गुलिकाकेलितालटङ्कारसुन्दरः ॥४१२॥
तस्य कङ्कणझाङ्कारकरस्फाटिकनिर्मिता ।
गुलिका मूर्च्छिता यस्याः पपात विशदत्विषः ॥४१३॥
साब्रवीद्व्रतसौभाग्यदर्पस्ते राजपुत्रकः ।
कर्पूरमञ्जरीं कान्तां प्राप्य कीं न करिष्यसि ॥४१४॥
नरवाहो निशम्येति प्रसाद्य मुनियोषितम् ।
कर्पूरमञ्जरी क्कासाविति पप्रच्छ कौतुकात् ॥४१५॥
सवदज्जलधेः पारे कर्पूरद्वीपवासिनः ।
राज्ञः कर्पूरचन्द्रस्य सुता कर्पूरमञ्जरी ॥४१६॥
यस्याः कुवलयच्छायैर्लोचनांशुभिरङ्कितम् ।
शङ्के शशाङ्क लावण्यशेषेण विदधे विधिः ॥४१७॥
गच्छ तां प्राप्स्यसि क्षिप्रमुत्युक्त्वा सा तिरोदधे ।
प्रतस्थे गोमुखसखो नरवाहोऽपि तां दिशम् ॥४१८॥
चिरात्प्रतिनिवृत्तोऽथ वनाद्वत्सनरेश्वरः ।
( अपश्यन्दयितं पुत्रमभूच्छोकानलाकुलः ॥४१९॥
रत्नप्रभा ततोऽभ्येत्य वत्सराजं व्यजिज्ञपत् ।
ज्ञातं मयार्यपुत्रस्य वृत्तं प्रज्ञप्तिविद्यया ॥४२०॥
तापसीवचसा ज्ञात्वा कान्तां कर्पूरमञ्जरीम् ।
स यातो वारिधेर्द्वीपं तत्समागमलालसः ॥४२१॥
आर्यपुत्रस्य रक्षायै मयातिविषमेऽध्वनि ।
विद्या मायावती नाम प्रेषिता क्लेशमञ्जरी ॥४२२॥
इति स्नुषावचः श्रुत्वा हृष्टो वत्सनरेश्वरः ) ।
अमृतेनेव संसिक्तः सहसा धृतिमाप्तवान् ॥४२३॥
नरवाहनदत्तोऽपि तुरङ्गेण सगोमुखः ।
व्रजन्ब्रह्मप्रभां विद्यां विवेद श्रेयसे स्थिताम् ॥४२४॥
तत्प्रभावेण दिव्यानि फलानि प्राप्य निर्वृतः ।
सरश्च क्षुत्परिश्रान्तितॄष्णाः स सहसात्यजत् ॥४२५॥
ततो दिनैः कतिपयैरवाप्य गहनं महत् ।
दिवाकरकरक्लान्तं तमभाषत गोमुखः ॥४२६॥
अभूदिरावती नाम त्रिदिवस्पर्धिनी पुरी ।
त्यागसेनाभिधो राजा तस्यां शक्रप्रभोऽभवत् ॥४२७॥
बभूवतुः प्रिये तस्य भार्ये रूपगुणाधिके ।
काव्यालंकारनाम्नी च देवी चाधिकसंगमा ॥४२८॥
स पुत्रार्थी फलयुगं तपसा पार्वतीवरात् ।
प्राप्य प्रत्ययमभ्यायात्प्रियामधिकसंगमाम् ॥४२९॥
सा प्राप्य विधिना हृष्टा फलमेकं वरार्पिता ।
द्वितीयमपि चौर्येण भुक्त्वासूत सुतद्वयत् ॥४३०॥
तमिन्दीवरसेनाख्यमनिच्छासेनमप्यसौ ।
विलोक्य काव्यालंकारा बभूव भृशदुःखिता ॥४३१॥
ततः प्रवृत्तौ तौ जेतुं पृथिवीं पितुराज्ञया ।
सामात्यैर्विपुलानीकैर्जग्मतुः कुलशालिनौअ ॥४३२॥
विचिन्त्य काव्यालंकारा करलेखैर्दिदेश तान् ।
अमात्यान्नृपतेर्नाम्ना वध्यौ राजसुताविति ॥४३३॥
विचारयन्सुलेखार्थं करुणार्द्रेषु मन्त्रिषु ।
शङ्कितौ तौ प्रययतुर्नृपपुत्रौ महाटवीम् ॥४३४॥
विन्ध्याटव्यां परिश्रान्तौ तृष्णार्तौ पार्वतीस्मृते ।
बभूवतुः क्षणात्स्वस्थौ सिच्यमानाविवामृतैः ॥४३५॥
अवाप तत्र सहसा खङ्ग दुर्गावरात्कृती ।
येनेन्दीवरसेनोऽभूद्दुर्जयस्त्रिदशैरपि ॥४३६॥
अत्रान्तरे त्यागसेनो ज्ञात्वा पुत्रौ विवासितौ ।
काव्यालंकारया कूटं लेखैर्मन्त्रिसमर्पितैः ॥४३७॥
कारागृहे तां विन्यस्य निरस्यामात्यमण्डलम् ।
शोचन्प्रदध्यौ तनयावश्विनाविव रूपिणौ ॥४३८॥
अथेन्दीवरसेनोऽपि खङ्गी शैलपुराधिपम् ।
राक्षसं शैलद्रष्ट्राख्यं हत्वा मायाविनं रणे ॥४३९॥
अवाप खङ्गदंष्ट्राख्यां तनयां नवयौवनाम् ।
तथा मदनदंष्ट्राख्यां पुष्पेषोर्जैत्रमायुधम् ॥४४०॥
तत्र लीलावतीकेलिसरसो विलसन्मुहुः ।
निनाय सुबहून्मासान्सेव्यमानोऽनुजेन सः ॥४४१॥
ततः खङ्गप्रभवाप्तविद्यया धिष्ण्यगामिनम् ।
सोऽनुजं प्रेषयामास स्ववृत्ताख्यापने पितुः ॥४४२॥
( तस्मिन्गते खङ्गदंष्ट्रा स्नात्वा तूर्णं समागता ।
प्रियं मदनदंष्ट्रायाः कण्ठलम्बितमैक्षत ॥४४३॥
ईर्ष्यावत्यथ तं खङ्गं वह्नौ कोपाज्जुहाव सा ।
खङ्गे निष्प्रभतां याते राजपुत्रोऽभवव्द्यसुः ॥४४४॥
अत्रान्तरे निजकथां जनकाय निवेद्य सः ।
अनुजस्तं समभ्येत्य ददर्श शवमग्रजम् ॥४४५॥
शताभ्यां भ्रात्रुपत्नीभ्यां सह मर्तुं समुद्यतः ।
शुश्रावाकाशवचनं सुधाभ्रनिनदोपम म् ॥४४६॥
खङ्गे गौरीवरादस्मिन्पुनर्निर्मलतां गते ।
जीवत्येष निजां जातिं स्मृत्वा शापक्षयादिति ॥४४७॥
राजपुत्रस्तत्र खङ्गं दग्धं गौरीवरात्पुय्नः ।
क्षिप्रं निर्मलमाधाय भ्रातरं समजीवयत् ॥४४८॥
अथेन्दीवरसेनस्तं प्राप्तजीवोऽभ्यभाषत ।
तुशारशैलशिखरे मुक्तापुरनिवासिनः ॥४४९॥
सुतोऽस्मि मुक्तसेनस्य त्वं च विद्याधरप्रभो ।
पद्मसेनाभिधानोऽहं रूपसेनस्तथा भवान् ॥४५०॥
पद्मा चन्द्रावती चेमे प्राग्भार्ये मे बभूवतुः ।
अरस्परेर्ष्याकलहैरेताभ्यां तापितः पुरा ॥४५१॥
अवदं पितरं नित्यं वनं यामीति दुःखितः ।
स मद्वियोगनिर्विण्णॊ मां शशापाहितग्रहम् ॥४५२॥
येनाहं मर्त्यतां प्राप्तस्त्वं च मद्भक्तिसंश्रयात् ।
मर्त्यत्वं पृथिवीं जित्वा यदा पित्रे प्रदास्यसि ॥४५३॥
शापं तदा त्यक्ष्यसीति शान्तकोपोऽब्रवीत्स माम् ।
ततः परस्परं शापात्पत्न्यौ मे मत्कृते रुषा ।
अवाप्ते रक्षसो भावमित्युक्ता विरराम सः ॥४५४॥
ततो विद्याधरपुरं प्रापतुस्ते सुलोचने ।
ते च जातिस्मराः सर्वे त्यागसेनपुरं ययुः ॥४५५॥
प्रणम्य पितरं तत्र सभार्यः सानुजोऽथ सः ।
विजित्य पित्रे पृथिवीं ददौ खङ्गबलोत्कटः ॥४५६॥
अथ वैद्याधरीं जातिं निवेद्य जनकाय सः ।
व्योम्ना मुक्तापुरं गत्वा भेजे लक्ष्मीं सहानुज ॥४५७॥
इत्येवं पृथुसत्त्वानां महतां क्लेशविप्लुषः ।
भवन्ति धैर्ययोगेन क्षिप्रमेव प्रयान्ति च ॥४५८॥
इतिन्दीवरसेनाख्यायिका ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T20:24:39.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Ames moisture tester

  • ऍमिस आर्द्रता परीक्षित्र 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site