TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अजराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अजराख्यायिका
श्रुत्वा हरिशिखेनेति कथितं नरवाहनः ।
रत्नप्रभासखः प्रायात्पितुरन्तःपुरं कृती ॥३३०॥
तत्र प्रणम्य वत्सेशं देव्यौ च स मधूत्सवम् ।
भेजे वयस्यसहितो दयितानन्दनिर्भरः ॥३३१॥
निजमन्तःपुरं गत्वा रत्नपर्यङ्कमास्थितः ।
रत्नप्रभाङ्कविन्यस्तपूर्वदेहो रराज सः ॥३३२॥
मरुभूतिमथ क्षीबं विलोक्य स्खलिताक्षरम् ।
गोमुखः प्राह राजेन्द्र गृहे किं न स संयतः ॥३३३॥
संक्रुद्धश्चासि मद्वाक्ये नीतिबाह्य इवेक्षसे ।
अथ वा दुर्ग्रहरताननुनेतुं क ईश्वरः ॥३३४॥
प्रतिष्ठानपुरे पूर्वं तपोदत्ताभिधो द्विजः ।
गङ्गाकूले तपस्तेपे विद्यार्थी शंसितव्रतः ॥३३५॥
तस्य धोरेन तपस असहस्राक्षो विषण्णधीः ।
विप्ररूपः समभ्यायात्तदाश्रमनदीतटम् ॥३३६॥
तत्र दोर्भ्यां समादाय सिकताः स मुहुर्मुहुः ।
बबन्ध सेतुं सावेगप्रवाहे बहिरन्तरे ॥३३७॥
तं दृष्ट्वा स तपःस्थोऽपि विस्मितः स्मितशुभ्रया ।
गिरा तमाह किमयं मिथ्या तव परिश्रमः ॥३३८॥
सैकतः सेतुबन्धोऽयं तव हासाय निष्फलम् ।
औदार्य्म निर्धनस्येव मूर्खस्येव नयक्रमः ॥३३९॥
इति तस्य वचः श्रुत्वा स तं प्राह द्विजाकृतिः ।
अहो परोपदेशेषु विद्वान्सर्वात्मना जनः ॥३४०॥
विस्मयस्ते द्विजश्रेष्ठ निष्फले मम कर्मणि ।
कथमश्रुतपाण्डित्यमब्रुवंस्त्वं समीहसे ॥३४१॥
इयं शशविषाणेच्छा व्योम्नि वा चित्रकल्पना ।
अनक्षरोऽपि विन्यासो यद्विद्याधयनं विना ॥३४२॥
निशम्यैतत्तपोदत्तः साधूक्तमिति चेतसा ।
निश्चित्य दुर्ग्रहात्तस्माद्विरराम महातपाः ॥३४३॥
इत्येवमुपदेशेन निवर्तन्ते विपर्ययात् ।
साधवो न तु मूर्खोऽ‍यं मरुभूतिः श्रृणोति मे ॥३४४॥
इति नर्मोपहासाय गोमुखेनोपवर्णिते ।
हसन्हरिशिखः प्राह मरुभूतिं व्यलोकयन् ॥३४५॥
विप्रो विभूतिसोमाख्यो वाराणस्यामभूत्पुरा ।
दरिद्रश्च कुलीनानां नित्यं हि श्रीः पराङ्मुखी ॥३४६॥
धनिनो रूपसंपन्नान्स दृष्ट्वा पर्यतप्यत ।
किमहं विहितो धात्रा शुष्ककुब्ज इव द्रुमः ॥३४७॥
इति संचिन्त्य स ययौ रूपद्रविणकाङ्क्षया ।
मानी तपोवने तीव्रतपःक्षपितविग्रहः ॥३४८॥
अनेकसंयमक्षामं तमेत्य त्रिदिवेश्वरः ।
उवाच जम्बुकाकारः पूतिविस्रवणाकुलः(?) ॥३४९॥
( अहो नैवास्ति संतोषः कस्यचिद्भिगवान्द्विजः ।
धनार्थी पुण्यमात्मानमिदं न बहु मन्यसे ) ॥३५०॥
अहो सुकृतिनं राजा यस्तवं मानुषयोनिजः ।
ब्राह्मणश्च तपस्वी चव स्पृहणियोऽसि सुव्रतः ॥३५१॥
अहो धन्योऽसि यन्नाखुर्न मण्डूको न कुक्कुटः ।
न पुष्कसो न चाण्डालो न कुष्ठी न जडोऽपि वा ॥३५२॥
इति तस्य वचः श्रुत्वा विचिन्त्य मनसा क्षणम् ।
सत्यमेतदिति ज्ञात्वा त्यक्तकामो ययौ गृहान् ॥३५३॥
इति बुद्धिमतां देव देवनस्खलिता मतिः ।
युक्तिमात्रोपदेशेन सहसैव प्रसीदति ॥३५४॥
एवं नर्मकथाभिस्ते कोपमन्तः परस्परम् ।
सचिवा नरवाहस्य हसन्तश्च मुदं ययुः ॥३५५॥
ततो रत्नप्रभा प्राह ( धन्यो बत मम प्रियः ।
सर्वे स्निग्धाश्च यस्यैते सुहृदश्चित्तदर्पणाः ॥३५६॥
इति रत्नप्रभावाक्यं श्रुत्वा प्राह ) तपन्तकः ।  
देवि धन्या वयं येषां भक्तिः श्रीनरवाहने  ॥३५७॥
त्वं च हेमप्रभकुले वैजयन्ती कुलोज्ज्वला ।
धन्या धराशशी यस्याः प्रणयी नरवाहनः ॥३५८॥
विलासशीलो भूपालः श्रीकण्ठविषये पुरा ।
बभूव चारुचरितः स्वच्छप्रकृतिमानश ॥३५९॥
तस्य पद्मप्रभा नाम पद्मिनीव रवेः प्रिया ।
बभूव कामवसतिर्लावण्यगुनशालिनी ॥३६०॥
स कदाचिन्निजं दृष्ट्वा जराधवलमाननम् ।
सतुशारमिवाम्भोजमभूच्चिन्ताग्नितापितः ॥३६१॥
श्रृङ्गारसुभगाभोगं शोभते तावदद्भुतम् ।
यावद्भृङ्गाङ्गनाजालश्यामलः केशसंचयः ॥३६२॥
मृत्युसिंहमहादंष्ट्राकालकोपस्मितच्छटाः ।
जरा हि नाम रूपस्य शमलस्येव चन्द्रिका ॥३६३॥
उष्ट्रस्येव विलासेन गीतेनेव स्वरस्य च ।
वृद्धस्य स्मरभोगेन हास्यं कस्य न जायते ॥३६४॥
इति ध्यात्वा महीपालो यौवनार्थी रसायनम् ।
वैद्यं तरुणचन्द्राख्यमपृच्छत्पुरतः स्थितम् ॥३६५॥
कालक्लृप्तां जरां मूर्खो ( बलात्संत्यक्तुमिच्छति ।
वैद्यः क्षणं विचिन्त्येति नराधिपमभाषत ॥३६६॥
देव भूमिगृहे गुप्ते मासानष्टौ स्थिताय ते ) ।
भैषज्यैर्यौवनं युक्त्या विधास्यामिस स्थिरो भव ॥३६७॥
इत्युक्ते भूगृहे भूपं प्रविष्टं यौवनेच्छया ।
हत्वा बलेन तरुणं सोऽन्यं नरमवेशयत् ॥३६८॥
बहिः स्थानान्तरस्थस्य ( प्रतीहारेण कीर्तितान् ।
अमात्यान्नामभिस्तस्य शनकैर्विदितान्व्यधात् ॥३६९॥
द्वारि संभाषणव्यग्र)मन्तःपुरकदम्बकम् ।
तेनोपदिष्टमज्ञासीच्छ्रुत्वान्ध इव नामधिः ॥३७०॥
ततो निर्गत्य तरुणो जनानां विस्मयप्रदः ।
सान्तःपुरपुरामात्यं सुकुमारं चरं महत् ॥३७१॥
भेजे राज्यमहोत्साहः स युवा पूजयन्द्विजान् ।
अजरोऽयमिति प्राप प्रसिद्धिं विबुधोपमः ॥३७२॥
ततो यदृच्छयावाप्तौ वयस्यौ निजसंपदाम् ।
विस्तीर्णविभवौ चक्रे पद्मदर्शविचिन्तकौ ॥३७३॥
कदाचिदथ तं प्राह स भिषग्विजने नृपम् ।
तव राज्यं मया दत्तं मामेवाद्य न मन्यसे ॥३७४॥
इति वैद्यवचः श्रुत्वा भूपतिः प्राह सस्मितम् ।
स्वकर्ममुद्रितो लोकः कः कस्मै किं प्रयच्छति ॥३७५॥
प्राग्जन्मविहितं नाम तत्तुअ नान्यदवाप्यते ।
प्राप्तमन्यैः सुदूरस्थं करस्थं हारितं परैः ॥३७६॥
अहं जातिस्मरो वैद्य मत्कथां ज्ञास्यसीति तम् ।
भूमिपालः समाभाष्य ययौ स्नातुं नदीतटम् ॥३७७॥
राजपुत्रैर्वृतस्तत्र स ददर्श जलान्तरे ।
पञ्च काञ्चनपद्मानि दृष्ट्वा वैद्यमुवाच च ॥३७८॥
भिषग्वर कुतो नाम हेमाब्जानामिहागमः ।
गच्छ केदारकं क्षिप्रं जानीहि चतुरो ह्यसि ॥३७९॥
ततो राजाज्ञया गत्वा नदीतीरेण सत्वरः ।
दूरे तीर्थतटासक्तं सोऽपश्यच्छैवमालयम् ॥३८०॥
तत्र स्नातः स्मरारातिं प्रणम्य शशिशेखरम् ।
विश्रान्तो वृक्षशाखाग्रे नरास्थीनि व्यलोकयत् ॥३८१॥
अत्रान्तरे जलधरैर्मुक्ते धाराकदम्बके ।
शाखास्थितास्थिपतितं नद्यां तदपतज्जलम् ॥३८२॥
तत्क्षणे तीर्थमासाद्य प्रयातं हेमपद्मतामाम ।
इति दॄष्ट्वा तदाश्चर्यं तीर्थे क्षिप्त्वास्थिसंचयम् ॥३८३॥
न्यवेदयद्यथादृष्टं गत्वा भूमिभुजे भिषक् ।
ततोऽब्रवीन्नृपो वैद्य विचिक्ते मित्रयोः पुरः ॥३८४॥
शरीरं शंभुनिलये त्यक्तं तस्मिन्मया पुरा ।
त्वं चैतौ च बभूवुर्मे सुहृदस्तीर्थसेवनात् ॥३८५॥
तान्यस्थीनि मदीयानि तीर्थे क्षिप्तान्यथो त्वया ।
अधुना कृतकॄत्योऽहमित्युक्त्वा निर्वृतिं ययौ ॥३८६॥
इत्येवं पूर्वंबन्धाद्भवन्ति प्रीतयो नृणाम् ।
प्राक्सेवितोऽयं धन्यानां ध्रुवं भो नरवाहन ॥३८७॥
इत्यजराख्यायिका ॥८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T20:22:09.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

equivalent dynamical system

  • समतुल्य गतिकीय पद्धति 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site