TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रूपशिखाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


रूपशिखाख्यायिका
इति प्रत्यक्षभङ्गे च कथिते मरुभूतिना ।
कथानुगं हरिशिखो राजपुत्रमभाषत ॥२७०॥
अभूद्वीरभुजो नाम वर्धमानपुरे नृपः ।
जायाशतादभूत्तस्य प्रिया गुणवराभिधा ॥२७१॥
स पुत्रार्थी भिशग्वाक्यात्स्वयमादाय लुब्धकैः ।
वनच्छागं महाकायं सूदेन विदधे रसम् ॥२७२॥
औषधीचूर्णसंयुक्तं वैद्योऽपि श्रुतवर्धनः ।
सर्वाभ्यो राजकान्ताभ्यो ददौ गुणवरां विना ॥२७३॥
सा हि सर्वार्थिने पत्युर्व्यग्राभूत्पुत्रकाङ्क्षिणी ।
राजदारान्सुगुप्तांसु वैद्यो जानाति तां कथाम् ॥२७४॥
ततो दुःखाकुलो राजा दयितां वीक्ष्य वञ्चिताम् ।
चुकोप कुपितं दृष्ट्वा तं च प्राह भिशग्वरः ॥२७५॥
छागश्रृङ्गद्वयं शेषं क्कथितं सूपकारिणा ।
तद्रसेन सुतं देवी चूर्णयोगादवाप्स्यति ॥२७६॥
इत्युक्त्वा श्रृङ्गपूषेण ददौ तस्यै स भेषजम् ।
तेन गर्भवती साभूद्दोहदापान्डुरच्छविः ॥२७७॥
अथ सर्वेषु जातेषु पुत्रेषु प्राप सा सुतम् ।
कान्तं श्रृङ्गभुजं नाम गुणविक्रमशालिनम् ॥२७८॥
ततो गुणवरां दृष्ट्वा सौत्त्रामधिकप्रियाम् ।
राज्ञः सर्ववधूवक्त्रं चिन्ताव्याकुलतां ययौ ॥२७९॥
संमन्त्र्य नृपं प्राहुस्ताः पृथग्भावाः कथान्तरे ।
सक्ता गुणवती राजन्नन्तःपुरपतेरिति ॥२८०॥
सर्वासामेकवाक्येन गाढं शङ्काकुलो नृपः ।
तीर्थयात्रापदेशेन निरासान्तःपुराधिपम् ॥२८१॥
सर्वतीर्थमयं पुण्यं याते काश्मीरमण्डलम् ।
तस्मिन्देवीमपि क्रोधाद्भूगृहान्तर्न्यवेशयत् ॥२८२॥
सत्यासत्यविभागेन मन्दशोकां महीपतिः ।
तामाह मासानष्टौ त्वं सहस्वान्धगृहव्यथाम् ॥२८३॥
राज्ये ममायुशि च ते प्रतिकूलं समुत्थितम् ।
दैवज्ञेनाथं कथितं त्वत्क्लेशेन प्रणश्यति ॥२८४॥
इति राजवचः श्रुत्वा सा तथेत्याह दुःखिता ।
भर्तुरभ्युदयैकाग्रसंकल्पा हि कुलाङ्गनाः ॥२८५॥
अत्रान्तरे महाकायो बहुरूपी निशाचरः ।
आयादग्निशिखो नाम तं देशं लोककण्टकः ॥२८६॥
दैवज्ञवचनाज्ज्ञात्वा खेलन्तो राजसूनवः ।
चिक्षिपुस्तं समुद्दिश्य बाणांस्ते चाफला ययुः ॥२८७॥
ततः श्रॄङ्गभुजो वीरः श्रृङ्गमादाय काञ्चनम् ।
रक्शो जघान तद्वीक्ष्य परे लज्जानतिं ययुः ॥२८८॥
ईर्ष्याकलुषितस्तत्र मात्रा पूर्वं च बोधितः ।
निर्वासभुजनामा तं सभ्रूभङ्गमभाषत ॥२८९॥
अयं तातस्य दयितो भ्रातः कनकसायकः ।
क्षिप्तस्त्वया शरीराग्रमग्नो नीतश्च रक्षसा ॥२९०॥
एतन्न क्षमते तातः शरं हैमं प्रयच्छ तम् ।
नो चेत्त्वदुपरि भ्रातर्वयं मर्तुं समुद्यताः ॥२९१॥
इत्याकृष्टः स तैर्द्वेषात्सानुबन्धो निरुत्तरः ।
ययौ श्रृङ्गभुजो रक्षोरक्तधारां समुन्नयन् ॥२९२॥
ततो धूमपुरं नाम नगरं तस्य रक्षसः ।
प्रविश्य तत्सुतां कान्तां ददर्श हरिणिदृशम् ॥२९३॥
सापि तं वीक्ष्य सहसा यौवनस्येव यौवनम् ।
अभिलाषवती मेने मन्मथस्यापि मन्मथम् ॥२९४॥
परस्परकथां ज्ञात्वा तौ संजातमनोभवौ ।
मिथो जीवितसर्वस्वपदे विविशतुः क्षणात् ॥२९५॥
ततो रूपशिखाभिख्या पितरं सा व्यजिज्ञपत् ।
दृष्टो मया समुचितो वरस्तस्मै प्रयच्छ माम् ॥२९६॥
इति पुत्रीवचः श्रुत्वा तं च दॄष्ट्वा तथेति सः ।
सुतामग्निशिखः प्राह तद्वच्चनसमुद्यतः ॥२९७॥
राजपुत्रं समवदत्स्वैरं रूपशिखा ततः ।
भगिन्यो मम पञ्चाशत्सन्ति तुल्या विधाय ताः ॥२९८॥
त्वां ततो वक्ष्यति ज्ञात्वा गृहाण दयितामिति ।
मुक्तावल्यो गले सन्ति सर्वासामेव किं त्वहम् ॥२९९॥
कण्ठान्मूर्ध्नि विधास्यामि तत्क्षणान्मौक्तिकावलीम् ।
तया मां प्रत्यभिज्ञाय प्राप्स्यसि प्रौढकिल्बिषः ॥३००॥
न च त्वां वञ्चकस्तातः संशये पातयत्यसौ ।
तिलस्वारीशतं क्षेत्रे क्षिप्त्वा क्षिप्रमिति प्रभो ॥३०१॥
त्वं संक्षिपेति च पुनस्त्वां वक्ष्यति सुलोचनः ।
प्रेरयिष्यति घोरस्यभ्रातुर्धूमशिस्वस्य च ।
गृहं निमन्त्रणाय त्वां मृषा वैवाहकोत्सवे ॥३०२॥
इत्येतास्त्वद्विनाशाय मायास्तातेन कल्पिताः ।
मद्विद्यारक्षिताः सर्वास्तव धैर्यमहोदधे ॥३०३॥
इति प्रियावचः सह्रित्वा सरं श्रृङ्गभुजोऽभ्यधात् ।
यथोक्तं रूपशिखया तेन रक्षः स्वयं ययौ ॥३०४॥
ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
तत्र तस्थौ दिशल्लीलाविलासे मदनोत्सवम् ॥२०५॥
हेमकाण्डं ततः प्राप निजवल्लभयार्पितम् ।
भ्रातृभिर्यत्कृते दूरं द्वेषाद्युक्ता विवासितः ॥३०६॥
कदाचिदथ सोत्कण्ठः पितुर्मातुश्च दर्शने ।
ययौ श्रृङ्गभुजः कान्तां समादाय तुरङ्गमैः ॥३०७॥
अलक्षितं गतं ज्ञात्वा स सभार्यं निशाचरः ।
प्रक्षोभितनभोवातः पश्चत्कोपाकुलो ययौ ॥३०८॥
ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
समागतमतिक्रुधं दृष्ट्वा रूपशिखावदत् ॥३०९॥
अस्मानग्निशिखः कोपादयमायाति भीषणः ।
प्रेषितः पुष्करावर्तैः क्षतदूत इवावनिम् ॥३१०॥
तदेषा वञ्चयाम्येनं मायया मन्दचेतसम् ।
पापकर्ममहाम्भोधिनिमग्नमिव संसृतिः ॥३११॥
इत्युक्त्वा विद्यया साभूतशसा काष्ठहारिकः ।
जवाद्राक्षसमायान्तं पृच्छन्तं पृच्छन्तं साभ्यभाषत ॥३१२॥
पञ्चतां राक्षसेन्द्रोऽद्य दैवादग्निशितो गतः ।
तदर्थमिदमानीतं काष्ठं यत्नेन काननात् ॥३१३॥
इति तद्वचनं श्रुत्वा मौर्ख्यादग्निशिखस्ततः ।
अमन्यत मृतोऽस्मीति स्वभावजडमानसः ॥३१४॥
ततो निजगृहं गत्वा स पप्रच्छ स्वयोषितः ।
अपि सत्यं मृतोऽस्मीति श्रुत्वा नेत्यूचिरे च ताः ॥३१५॥
ततः पुनः याद्धन्तु जामातरं जवात् ।
तं दृष्ट्वा लेखहारोऽभूत्क्षिप्रं रूपशिखा पुनः ॥३१६॥
अपि दृष्टौ त्वया मार्गे दम्पती तुरगस्थितौ ।
इति पृच्छन्तमवदत्तमसौ लेखहारकः ॥३१७॥
दर्पादग्निशिखो युद्धे जीवशेषः कृतोऽरिभिः ।
वार्ता तभ्द्रातुरानीता मया लेखेन सत्वरम् ॥३१८॥
इति श्रुत्वा मूढमतिः स गत्वा स्वगृहं पुनः ।
पप्रच्छ हासविवशाः स्वस्य वृत्तान्तमङ्गनाः ॥३१९॥
इत्यसौ वञ्चितः पुत्र्या मूर्खः सुप्त इव द्विपः ।
हास्योपमानतां प्राप्तः प्रज्ञासु निरवग्रहः ॥३२०॥
अस्मिन्नवसरे प्राप निजं श्रृङ्गभुजः पुरम् ।
भ्रात्रे हेमशरं दत्त्वा द्रष्टुं जनकमभ्ययात् ॥३२१॥
राजा तु ज्ञातवृत्तान्तः पुत्रं दृष्ट्वा वधूसखम् ।
हृष्टो महोत्सवं चक्रे सिन्दूरारुणिताङ्गणम् ॥३२२॥
याति काले नरपतिः प्रविश्यान्तःपुरं वचः ।
शुश्राव मधुमत्ताया जायायाः स्वप्नविभ्रमे ॥३२३॥
युक्त्या गुणवती तावन्मिथ्या संदूषिता सती ।
चिन्तनीयस्तु तत्पुत्रः श्रुत्वेति प्रययौ नृपः ॥३२४॥
भूगृहात्तामथोद्धृत्य प्रसाद्य निजवल्लभाम् ।
संजातप्रत्ययो राजा यौवराज्ये सुतं व्यधात् ॥३२५॥
( अन्तःपुरेभ्यः कुपितं पुत्रेभ्यश्च न्यवारयत् ।
यत्नाद्गुणवरा देवी तत्पुत्रश्च नराधिपम् ॥३२६॥
अत्रान्तरे समभ्यायात्स विप्रोऽन्तःपुराधिपः ।
स्नात्वा पुण्येषु तीर्थेषु नानाव्रतकृशाकृतिः ॥३२७॥
संपूज्य तं महीपालः पश्यञ्श्रृङ्गभुजं सुतम् ।
विजिताशेषपातालं जहर्ष दयितासखः ) ॥३२८॥
इत्येवं शीलशालिन्यो देव भर्तृहिते रताः ।
कुलालंकरणं कान्ताः सन्ति रूपशिखा यथा ॥३२९॥
इति रूपशिखाख्यायिका ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T20:20:58.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stratified squamous epithelium

  • स्तरित पट्टकी उपकला 
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.