मदनमालाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखाश्चर्यकथया प्रहृष्टं नरवाहनम् ।
रत्नप्रभासखं दृष्ट्वा मरुभूतिरभाषत ॥२४५॥
अनेकतुरगोदारकुञ्जरानीकसंकुलः ।
विक्रमादित्यनामाभून्नृपः पाटलिपुत्रके ॥२४६॥
प्रतिष्ठानाधिनाथेन नरसिंहेन भूभुजा ।
जितः प्रतिज्ञा विदधे स वीरस्तत्पराजये ॥२४७॥
रुद्धप्रवेशं मे द्वारि सूच्यमानं पुरःसरैः ।
द्रक्ष्यन्ति सेवकाः सर्वे नरसिंह न संशयः ॥२४८॥
प्रतिज्ञायेति स ययौ तत्पुरं वेषयोषितः ।
गूढं कार्पटिको भूत्वा राजपुत्रशतैर्वृतः ॥२४९॥
गृहं मदनमालायाः प्राप्य राजामृतोपमः ।
रममाणस्तया तस्थौ ( तत्काञ्चनकृतव्ययः ॥२५०॥
अयं कोऽपि महासत्त्वः पृथिवीपालनोचितः ।
ध्रुवमित्यनिशं ध्यात्वां सा तस्थौ ) तत्प्रियव्रता ॥२५१॥
प्रददौ नित्यमर्थिभ्यः स सुवर्णशतायुतम् ।
विद्यासु गुरुणा नूनं नकारं न हि शिक्षितः ॥२५२॥
ततो मदनमालायास्तां भक्तिं गनयन्मुहुः ।
प्राह बुद्धिवरं नाम मन्त्रिणं वसुधाधिपः ॥२५३॥
अकृत्रिममहो प्रेम धनत्यागो निरर्गलः ।
निर्विकारमहो सत्त्वमस्यास्तरलचक्षुषः ॥२५४॥
शरीरविक्रयो यासां हेतुर्द्रविणसंचये ।
( मया तदर्थाः क्षपिताः पश्य प्रेम्णो विजृम्भितम् ॥२५५॥
प्रत्यहं दिव्यरत्नेन श्रमणेनास्मि सेवितः ।
प्रपञ्चबुद्धिमापूर्वं मन्त्रसाचिव्यसिद्धये ) ॥२५६॥
तथेति प्रतिपन्नोऽहं मुक्तः स्वप्नेऽसुरारिणा ।
यागे त्वामेष पशुतां श्रमणो नेतुमुद्यतः ॥२५७॥
हन्तुं पापो वक्ष्यति त्वां प्रणतिः क्रियतामिति ।
त्वं दर्शयेति वाच्योऽसौ त्वया तद्वधसिद्धये ॥२५८॥
तस्मिन्हते व्योमगतिर्भवितासीति शासनम् ।
स्वप्ने भगवतः प्राप्य तदकार्यं यथोदितम् ॥२५९॥
ततः प्रभृति मे जातः कुबेरो वरदः सखा ।
तद्धनैः पूरयाम्येनामद्य वारविलासिनीम् ॥२६०॥
इत्युक्त्वा धनदं ध्यात्वा सुवर्णपुरुषान्ददौ ।
पञ्च तस्मै सदा येषां छिन्नमङ्गं प्रजायते ॥२६१॥
तान्दत्वा व्योमगो गूढं स निजं नगरं ययौ ।
तद्वियोगाग्नितप्ता च सा तस्थौ निधनोद्यता ॥२६२॥
छित्त्वा तान्बहुशो दत्वा द्विजेभ्यः काञ्चनान्नरान् ।
षण्मासानवथिं चक्रे प्राणत्यागे प्रियं विना ॥२६३॥
( अत्रान्तरे तत्कनकपूर्णाञ्ज्ञात्वा द्विजन्मनः ) ।
भक्तिं मदनमालाया भूपतिः पुनराययौ ॥२६४॥
चिरं संगमसंतोषप्रत्युज्जीवितया तया ।
रममाणश्चिरं तस्थौ स राजा गुप्तमन्दिरे ॥२६५॥
नरसिंहोऽपि नृपतिस्तां पूर्वपरिसेविताम् ।
वाराङ्गनां समभ्यायात्ततः स्मृत्वा स्मरातुरः ॥२६६॥
द्वारपालेन विधॄतो नाम्ना तेनैव सूचित ।
( विक्रमादित्यदेवोऽत्र तिष्ठति ब्रुवतेत्यतिः ) ॥२६७॥
ततः प्रतिज्ञासाफल्यं मेने राजान्तरं स्थितः ।
मनोरथार्थमुत्तीर्य सौहार्दं तेन भूभुजा ॥२६८॥
विधाय विक्रमादित्यस्तां निनाय निजां पुरीम् ।
( इति देव मृगाक्षीणां सहजप्रेमशालिनी ।
कुलेऽपि पण्यनारीणां भक्तिरव्यभिचारिणी ) ॥२६९॥
इति मदनमालाख्यायिका ॥६॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP