TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

निश्चयदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


निश्चयदत्ताख्यायिका
इत्येवं निजशीलेन राजन्ते योषितः प्रभो ।
ईर्ष्यावतां केवलं तु स्त्रीरक्षा मनसो वगः ॥१४७॥
इति रत्नप्रभावाक्यं श्रुत्वा वत्सेश्वरात्मजः ।
साधूक्तमिति संहृष्टो विस्मयादभ्यभाषत ॥१४८॥
अथाह गोमुखस्तत्र कथाप्रस्तावकोविदः ।
अस्मिन्नेवान्तरे देव श्रूयतामिति कौतुकम् ॥१४९॥
अस्ति श्रीकण्ठदयिता सतीवोज्जयिनी पुरी ।
मालतीस्फीतशान्तांशुमालाकलितकौमुदी ॥१५०॥
अस्यां विभान्ति क्षीरोदधवलाः स्फटिकालयाः ।
महाकालाट्टहासानां निहिता इव राशयः ॥१५१॥
कुशस्थली कृतयुगे त्रेतायां पद्मवत्यपि ।
अम्बिका द्वापरे ख्याता कलावुज्जयिनी च या ॥१५२॥
इन्द्रवर्मा नृपस्तस्यामभूदिन्द्र इवापरः ।
असंख्ह्यमखसंहर्षादथ वाभ्यधिकस्ततः ॥१५३॥
वणिङ्निश्चयदत्ताख्यो द्यूतकारो महाव्ययः ।
बभूव तत्पुरे सक्तो माल्यताम्बूलसौरभे ॥१५४॥
महाश्मशानं गत्वासौ शिलास्तम्बे विलेपनम् ।
धृत्वा करतलागम्यमेकः पृष्ठं विलिम्पति ।
नित्यसंघर्षणात्स्तम्बः श्लक्ष्णतां स समाययौ ॥१५५॥
कदाचिच्चित्रकारेण विहिता तत्र पार्वती ।
रूपकारेण चोत्कीर्णा बभौ साक्षादिवागता ॥१५६॥
चतुःसमे तु लिम्पन्तं तत्र पृष्ठं समाकृति ।
भक्त्या गौरीप्रणामाप्ता कापि विद्याधराङ्गना ॥१५७॥
कान्तिनिश्चयदत्तं तं ददर्श स्मरशालिनी ।
पार्वतीभक्तिसंतोषान्मूर्तं फलमिवागतम् ॥१५८॥
अभिलाषवती साथ सुन्दरी तस्य विग्रहम् ।
करेण कङ्कणवता पस्पर्शालक्षिताकृतिः ॥१५९॥
स तत्स्पर्शामृतासिक्तः परेऽह्नि प्राप्य तत्करम् ।
जग्राह दर्शनाकाङ्क्षी ततः सा प्रकटाभवत् ॥१६०॥
पृष्ट्वा निश्चयदत्तेन साब्रवीत्क)मलानना ।
सौरभाकृष्टमधुपैः पुनरुक्तालकवली ॥१६१॥
अहं चिन्तापराख्यस्य हिमवद्वासिनः सुता ।
अनुरागपरा नाम कन्या विद्याधरी प्रभो ॥१६२॥
इति निश्चयदत्तस्तां ब्रुवाणां चारुहासिनीम् ।
विदग्धोपक्रमैस्तैस्तैः संगमाभिमुखीं व्यधात् ॥१६३॥
सावदन्नाथ गच्छामि त्वं चेन्मे गृहमेष्यसि ।
तज्जाया ते भविष्यामि सत्यवाचो हि खेचराः ॥१६४॥
इत्युक्त्वा सा ययौ दिक्षु किरन्ती कान्तिकौमुदीम् ।
तत्संगमाशया सोऽपि ययौ हेमवतीं दिशम् ॥१६५॥
उत्तरापथमासाद्य संगतोऽन्यैर्वणिक्सुतैः ।
पदं कुरुष्वचीनानां मन्डलैर्विमलैर्ययौ ॥१६६॥
विक्रीतस्ताडितः सोऽथ विषमं प्राप्य बन्धनम् ।
ययौ गौरीवरान्मुक्तः सह तैः सचिवैस्त्रिभिः ॥१६७॥
एकस्ततः प्रस्थितोऽसौ काश्मीरं प्राप्य मोक्षदम् ।
तैरन्वितस्तां व्रतिभिश्चतुर्भिः पथि संगतः ॥१६८॥
तैः खट्वाङ्गकपालाङ्कैः स गच्छन्नुत्तरां दिशम् ।
वनं विवेश विषमं घोरव्यालमृगाकुलम् ॥१६९॥
तमूचुर्भारिका यक्षी घोररूपेह दृश्यते ।
या श्रृङ्गोत्पादिनी नाम सर्वलोकस्य संहृतिः ॥१७०॥
भारिकेभ्यो निशम्येति सह तैर्व्रतगर्वितैः ।
डाकिनीभूतवेतालं विवेश निशि काननम् ॥१७१॥
ततः शुष्ककरीषाग्निं महादारुचयोच्छ्रितम् ।
विधाय जापिनस्तस्थुस्ते भस्मकृतमण्डलाः ॥१७२॥
ततः समाययौ दीप्तः केशी नीलाश्मसच्छविः ।
असिताद्रितटी दाववह्निव्याप्तेव जङ्गमा ॥१७३॥
कायच्छायेव तमसो मृत्योर्मुक्तेव वेणिका ।
केशकन्थेव कालस्य ततो यक्षीं व्यदृश्यत ॥१७४॥
पारीव लम्बितोद्दामस्थानवाहितसौष्ठवम् ।
नृत्यन्ती वादयन्तीव किन्नरं मण्डलान्तिके ॥१७५॥
कल्पान्तोभ्द्रान्तचण्डिशलडड्डमरुकस्वरा ।
मन्त्रमालां पपाठोच्चैर्घटयन्तीव दिक्छटान् ॥१७६॥
ततो व्रतिनमेकं सा स्फारनेत्रा व्यलोकयत् ।
दृष्टमात्रः स संजातश्रृङ्गो वह्नौ पपात च ॥१७७॥
तमर्धदग्धं भुक्त्वैव द्वितीयं सा व्यलोकयत् ।
क्रमेणान्येषु भक्तेषु वणिग्धूर्तो व्यचिन्तयत् ॥१७८॥
न भक्षितोऽनया यावदहमत्युग्रया मया ।
तावद्युक्तिमुपाश्रित्य करिष्यामि यथोचितम् ॥१७९॥
श्रुतश्चास्या मया मन्त्रः स विचिन्त्यैत्य संभ्रम म् ।
व्यग्रायां मांसभोगेऽस्यां तं जहाराशु किन्नरम् ॥१८०॥
पपाठ च ततो मन्त्रं तेनोद्यच्छृङ्गकन्दला ।
पतिता सावदद्वीर त्वामस्मि शरणं गता ॥१८१॥
ततो निश्चयदत्तस्तां ररक्ष शरणं गताम् ।
सापकारेऽपि वीराणां न हि भीते पराक्रमः ॥१८२॥
स निवेद्यात्मवृत्तान्तं कृत्वा तामेव वाहनम् ।
विद्यादह्रसुतां द्रष्टुं ययौ व्योम्ना हिमाचलम् ॥१८३॥
अथोद्ययौ सहस्त्रांषुर्जपाकुसुमपाटलः ।
( चक्रवाककुलोत्सृष्टं मूर्तं रागमिवोद्वहन् ॥१८४॥
ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः ।
नाहं शक्ता स्थिते मानौ गन्तुं लोकैकचक्षुषि )॥१८५॥
दिनं हि शर्वरीभूतं यक्षवेतालरक्षसाम् ।
रात्रौ पुनः समेष्ये त्वामित्युक्त्वा सा ययौ क्षणात् ॥१८६॥
स तस्यां संप्रपातापां चचारैको वनान्तरे ।
ततो ददर्श मग्नाङ्गं मर्कटं शुष्ककर्दमे ॥१८७॥
महौघविप्लवानीते रक्तलोचनसूचितम् ।
मामुद्धरेति क्रन्दन्तं समुद्धृत्य स कौतुकी ।
कोऽसीत्यपृच्छत्पृष्टस्तु कपिर्वक्तुं प्रचक्रमे ॥१८८॥
वाराणस्याममूद्विप्रश्चन्द्रस्वामीति विश्रुतः ।
सोमस्वामीति विख्यातस्तस्याहं तनयः प्रभो ॥१८९॥
श्रीगर्भनाम्नो वणिजो बन्धुदत्ताभिधा सुता ।
भार्या वराहदत्तस्य स्वरिणी मामसेवत ॥१९०॥
गूढं तत्प्रेमविश्रम्भसंभोगसुभगस्थितेः ।
सुमहानपि कालो मे सुखिनः क्षणवद्ययौ ॥१९१॥
ततः प्रति गृहान्नेतुं तां प्राप्ते निजभर्तरि ।
सा दुःखिता मद्वियोगात्प्रदध्यौ साश्रुलोचना ॥१९२॥
वयस्या योग्नी दृष्ट्वा तस्या विरहवेदनाम् ।
मां चक्रे मन्त्रसूत्रेण मर्कटं गमनक्षम म् ॥१९३॥
मन्त्रसूत्राङ्कितगलं सा समादाय मां कपिम् ।
हृष्टा भर्तुर्गॄहं यातुं प्रतस्थे मन्मुखोन्मुखी ॥१९४॥
पुरुषस्य ततः स्कन्धे स्थितं मां वनमर्कटाः ।
जहुस्तस्यां सकरुणं क्रोशन्त्यां पथि दुर्मदाः ॥१९५॥
नाना(वनसहस्रेषु भ्रान्त्वा प्राप्तो महीमिमाम् ।
भवता कृच्छ्रमग्नोऽहं धर्मेशेन समुद्धृतः ॥१९६॥
अ)नेन कण्ठसूत्रेण न विपन्नोऽस्मि संकटे ।
अतीतानागतज्ञश्च(जातस्तिर्यग्गतावपि ॥१९७॥
श्रुत्वेति जातसौहार्दे निजां त्स्मै न्यवेदयत् ।
कथां निश्च)यदत्तोऽथ तां श्रुत्वा प्राह मर्कटः ॥१९८॥
सखे विद्याधरीं मा गा दूरे हि तुहिनाचलः ।
त्वया सह कृतासक्तिर्न च वश्या शुचिस्मिता ॥१९९॥
लतानां च नदीनां च स्त्रीणां राज्ञां च जायते ।
सखे कालेषु कालेषु सत्यं नवनवो रसः ॥२००॥
( नाभिनन्दति चेत्सा त्वां प्राप्तां मकरलोचना ।
तदेयान्विपुलः क्लेशः कस्मिन्नु परिगण्यते ) ॥२०१॥
हसन्त्यन्यैर्वदन्त्यन्यैस्तिष्ठन्त्यन्यैश्च निर्जने ।
भुञ्जते रतिमन्यैश्च लक्ष्यन्ते न हि योषितः ॥२०२॥
निर्मोकवद्यास्त्यक्ष्यन्ति विलवत्प्रलपन्ति याः ।
को हि ताभिर्भुजङ्गीभिः कण्ठग्रहणमिच्छति ॥२०३॥
विश्रम्भसुभगो भोगः स्त्रीभिः कस्य न वल्लभः ।
किं त्वसौ विरसः पश्चान्मायाचटुलचेष्टितैः ॥२०४॥
भवशर्मा द्विजः पूर्वं सुमदां नाम योषितम् ।
जघान रागकलुषो मूर्ध्नि यष्ट्या भॄशाकुलः ॥२०५॥
तत्कोपान्मन्त्रसूत्रेण सा तं चक्रे महावृषम् ।
विश्राम्य तं ददर्शान्या सानुगा क्कापि योगिनी ॥२०६॥
वार्यमाणानुयायिन्या तस्य सा कण्ठसूत्रकम् ।
व्यदारयत्ततो दैवादाययौ सुमदा पुरः ॥२०७॥
सा दृष्ट्वा मुक्तसूत्रं तं क्रुद्धा तां प्राह योगिनी ।
मया बद्धस्त्वया मुक्तः प्रातस्ते भविता क्षयः ॥२०८॥
उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्विजम् ।
खङ्गं गृहीत्वा संनद्धो भव धैर्यसमः सखे ॥२०९॥
त्वत्कृते सा महावैरात्सुमदा प्रातरेष्यति ।
विधाय कृष्णतुरगीरूपं युद्धाय दुःसहम् ॥२१०॥
अहं तु श्वेततुरगी भविष्यामि तया सह ।
संप्रस्तुते प्रहारे च हन्तव्या सासिना त्वया ॥२११॥
इति श्रुत्वा तथेत्याह खङ्गमादाय स द्विजः ।
ततः प्रातर्महायुद्धे तयोर्दन्तैः खुरैरपि ।
प्रवृत्ते कृष्णवडवां निजघान स खङ्गवान् ॥२१२॥
मायामन्त्रादिचकितो हत्वा तामपरामपि ।
स्वशिष्यां खङ्गपट्टेन हत्वा स्वस्थोऽविशद्गृहम् ॥२१३॥
इति मित्रेण कथितं पुरा मे भवशर्मणा ।
ब्रह्मदत्तगृहे गूढकामिनीव्यसनस्थितेः ॥२१४॥
इत्थं स्त्रियः सुविषमा रक्ताकृष्टिपिशाचिकाः ।
स्त्रीनाम्नीम छेत्तुमिच्छामि ग्रीवामपि सखे निजाम् ॥२१५॥
इति निश्चयदत्तस्तं ब्रुवाणमवदत्कपिम् ।
अनुरक्तैव सा साध्वी मम विद्याधराङ्गना ॥२१६॥
खेचराणां गृहे तत्र कांचित्प्राप्स्यामि योग्नीम् ।
मन्त्रसूत्रकृताद्बन्धात्त्वां हि या मोचयिष्यति ॥२१७॥
एवं कथयतोरेव तयोः कमलिनीप्रियः ।
संध्यां त्यक्त्वा जगामाशु प्रशमं रक्तदीधितिः ॥२१८॥
संगतां रविणा क्षिप्रं शशिनालिङ्गिता ततः ।
मुहूर्तरागिणी संध्या बभार कुलटाव्रतम् ॥२१९॥
अत्रान्तरे समायातां स समारुह्य यक्षिणीम् ।
प्रतस्थे निश्चितं गन्तुं व्योम्ना विद्याधरीपुरीम् ॥२२०॥
तमाह मर्कटो दूराद्यत्नः कार्यस्त्वया सखे ।
अस्य मे मन्त्रसूत्रस्य दारणे प्रणयादिति ॥२२१॥
तथेत्युक्त्वा स संप्राप क्षणात्तुहिनभूधरम् ।
मासि मासि शशाङ्कानामाकल्पमिव संचयम् ॥२२२॥
अनुरागपरां भेजे न च संगमनिर्वृतः ।
गान्धर्वेण विवाहेन स तां तत्र मृगेक्षणाम् ॥२२३॥
तया स्मररसस्मेरभवसंभोगसुन्दरम् ।
अवाप प्रेमसर्वस्वमतीतां कथयन्कथाम् ॥२२४॥
प्रेयस्या दत्तविद्योऽथ सुहृदं मर्कटं ययौ ।
द्रष्टुं कदाचित्सोत्कण्ठः कण्ठसूत्रं व्यचिन्तयत् ॥२२५॥
तस्मिन्गते निर्जनस्थां तां तारुण्यतरङ्गिणीम् ।
कश्चिद्विद्यादह्रसुतो ददर्श स्तबकस्तनीम् ॥२२६॥
करिणीदन्तकान्तेषु तस्या मात्रेषु बिम्बितः ।
करिणीदन्तकान्तेशु तस्या गात्रेषु बिम्बितः ।
स सुधालहरीमग्नः शशाङ्कश्रियमाययौ ॥२२७॥
भज मामिति तेनोक्ता सा लिलेख ह्रिया नता ।
हेलया चरणाग्रेण कटाक्षशबलां भुवम् ॥२२८॥
मौनाद्दत्तावकाशां स तामालिङ्ग्य ससाध्वसम् ।
कण्ठे जग्राह सोत्कण्ठं नीवीविस्रंसनाकुलः ॥२२९॥
मा मा परवधूरस्मि त्वर्धोक्तिगलिताक्षरम् ।
स चुचुम्ब मुखं तस्या लज्जामीलितलोचनम् ॥२३०॥
क्षामाननाब्जपर्यस्तहारफेनप्रकम्पिनीम् ।
स दूषयित्वा प्रययौ तां मातङ्ग इवाब्जिनीम् ॥२३१॥
तस्मिन्प्रयाते सा तस्थवतृप्ता तत्समागमे ।
खेदार्दस्रस्तधम्मिल्लच्छिन्नहाराङ्कितस्तनी ॥२३२॥
अत्रान्तरे समामन्त्र्य कपिं कान्तानिकेतनम् ।
तूर्णं निश्चयदत्तोऽपि प्रेमाकृष्टः समभ्ययात् ॥२३३॥
तं दृष्ट्वा नोदतिष्ठत्सा पर्यङ्कार्धं न वात्यजत् ।
चाटुकारे कृतोद्वेगा नर्मोक्तिषु निरादरा ॥२३४॥
चुम्बने कूणितमुखी सकोपा नीविमोक्षणे ।
आलिङ्गने परावृत्ता प्राह मिथ्याशिरोरुजम् ॥२३५॥
स च गाढानुरक्तस्तन्नाज्ञासीत्तद्विचेष्टितम् ।
स्त्रीमतिः स्वप्नमायेव नाप्रबुद्धैर्विचार्यते ॥२३६॥
ततः प्रातः समुत्थाय स ययौ मर्कटान्तिकम् ।
सर्वज्ञः स च तं प्राह सा विनष्टा वधूरिति ॥२३७॥
असत्यशङ्किने तस्मै मन्त्रयोगेन मर्कटः ।
विद्याधरेणावभिन्नतनुं तां समदर्शयत् ॥२३८॥
स विद्याधरसंसक्तां प्रत्यक्षं वीक्ष्य वल्लभाम् ।
रागनिद्रां परित्यज्य वैराग्यालोकमाप्तवान् ॥२३९॥
तूर्णं निश्चयदत्तोऽथ तपसे कृतनिश्चयः ।
कपिना सह निर्द्वन्द्वं ययौ सिद्धतपोवनम् ॥२४०॥
दयिताविप्रलब्धानामैश्वर्यसुखदुःखिनाम् ।
नीचावमानदग्धानां नान्यत्त्राणं वनं विना ॥२४१॥
ततः पुष्पोच्चयावाप्ता तद्वनं सिद्धयोगिनी ।
कपेः स्वरूपसंप्राप्त्यै मन्त्रसूत्रमदारयत् ॥२४२॥
सोमस्वामी निजं रूपं संप्राप्य मुनिवत्ततः ।
सह निश्चयदत्तेन क्षीणपापो दिवं ययौ ॥२४३॥
इति शीलं विना देव रक्ष्यन्ते केन योषितः ।
गोमुखेनेति कथितं श्रुत्वा सर्वे मुदं ययुः ॥२४४॥
इति निश्चयदत्ताख्यायिका ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T20:19:37.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Argand diagram

  • आरगंड आकृति 
  • Elec.Eng. Math.(after Jean Robert Argand, Fr. mathematician) आरगॅन आकृति 
  • आर्गंड आकृति 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.