TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शीलवत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


शीलवत्याख्यायिका
अन्तःपुरं प्रविश्याथ मित्रादिष्टं नृपात्मजः ।
रत्नप्रभानुगो भेजे विलासरसनिर्वृतिम् ॥१०१॥
ततो व्यजिज्ञपद्दूरात्तमभ्येत्याशु कञ्चुकी ।
गोमुखप्रमुखाः सर्वे देव द्वारि स्थिता इति ॥१०२॥
ततो रत्नप्रभा प्राह तूर्णमेव प्रवेशय ।
आर्यपुत्रस्य सचिवास्ते हि विश्रम्भसाक्षिणः ॥१०३॥
इति तद्वचसा तेषु प्रविष्टेष्वविलम्बितम् ।
उवाच हासकरुणास्मेराङ्गो नरवाहनः ॥१०४॥
प्रिये निरर्गलक्रीदास्वच्चन्दालापविभ्रमे ।
विघ्नः कञ्चुकिवर्गोऽस्यं कामिनां केन निर्मितः ॥१०५॥
रत्नप्रभा निशम्येति प्रोवाच ललितस्मिआ ।
देव कञ्चुकिवर्गोऽयं राजलक्ष्मीविभूषणः ॥१०६॥
अन्तःपुराणि रक्ष्यन्ति न कुब्जजडवामनाः ।
निजशीलं सुसत्त्वानां रक्षा हरिणचक्षुषाम् ॥१०७॥
रत्नकूटाभिधद्वीपे राजा रत्नाधिपोऽभवत् ।
यस्याशीतिसहस्राणि कलत्रं तरलभ्रुवाम् ॥१०८॥
हरेरिवाभवत्तस्य गजः श्वेतो नभश्वरः ।
यमारुह्य जगभ्द्रान्त्वा लेभे भूपतिपुत्रिकाः ॥१०९॥
ततः कदाचिदाकाशे ताडितो व्याडिना रुषा ।
तुण्डेन पक्षिणा नागः सोऽपतद्भृशविह्वलः ॥११०॥
न शशाक महाकायः समुत्थातुं महीतलात् ।
स जनैश्चाल्यमानोऽपि व्यसनादिव नष्टधीः ॥१११॥
ततः पञ्चसु यातेषु वासरेषु सुदुःखितः ।
नृपः शोचन्निराहारः शिरच्छेत्तुं समुद्ययौ ॥११२॥
तत्सत्त्वचकिताः प्राहुर्देवा गगनचारिणः ।
राजन्साध्वीकरस्पर्शादुत्तिष्ठति तव द्विपः ॥११३॥
इत्याकाशवचः श्रुत्वा हृष्टो रत्नाधिपो नृपः ।
आनिनायामृतलतां स तां प्रथमवल्लभाम् ॥११४॥
तेत्पाणिना कृतस्पर्शो नोदतिष्ठत्स कुञ्जरः ।
कुर्वन्मदमषीपङ्कैरिव तां मलिनाननाम् ॥११५॥
ततः क्रमेण नृपतेः समस्तैस्तैर्वधूजनैः ।
स्पृश्यमानोऽपि वसुधां न तत्याज महागजः ॥११६॥
यथा यथा प्रयान्ति स्म विमुखा राजयोषितः ।
तथा तथा लज्जयेव नृपः पातालमाविशत् ॥११७॥
मन्त्रिपुत्रवधूवृन्दे तथैव विफले गते ।
आययौ हर्षगुप्ताख्यो वणिग्देशान्तरागतः ॥११८॥
तस्य शीलवती भार्या कटके कर्मचारिणी ।
मनोवाक्कायनिष्ठाभिः साध्वी पस्पर्श तं गजम् ॥११९॥
तया स्पृष्टः स सहसा समुत्तस्थौ गजाधिपः ।
सह लोकनिनादेन हिमवानिव जङ्गमः ॥१२०॥
ततः शीलवतीं राजा वणीजं चार्थसंचयैः ।
पूजयित्वा प्रियाः सर्वा मेने संकल्पदूषिताः ॥१२१॥
अथानुजां शीलवत्या राजदत्ताभिधां नृपः ।
परिणीय चकारास्यै मन्दिरं सागरान्तरा ॥१२२॥
असती हि विवाहे सा निर्दिष्टा गणकैर्यदा ।
तदा निष्पुरुषे द्वीपे धरा तस्याः स्थितं व्यधात् ॥१२३॥
सदा व्योम्ना गजेन्द्रेण तदन्तःपुरमेत्य सः ।
विजहार स्मरस्मेरो निवर्तितनृपक्रियः ॥१२४॥
पौरकार्योन्मुखं गन्तुं प्रस्तुतं सा प्रभुं पतिम् ।
न गन्तव्यमिति प्राह हेलया हरिणेक्षणा ॥१२५॥
स्थित्वा क्षणं तद्विलासरसिको नृपतिः पुनः ।
समेष्यामीति तामुक्त्वा जगामाकाशदन्तिना ॥१२६॥
ततः फलहकासक्तो भग्नप्रवहणो नरः ।
तरन्समुद्रलहरीः क्षिप्तस्तं देशमाययौ ॥१२७॥
स र्राजदत्तानिलयं प्रविवेश सविस्मयः ।
कौतुकाच्च तया पृष्टो बभाषे जातसंभ्रमः ॥१२८॥
अहं पवनसेनाख्यः सुभगे माथुरो वणिक् ।
रत्नहेमार्जने धात्रा कृतः सर्वत्र निष्फलः ॥१२९॥
ततो विच्छिन्नसर्वांशं मां वह्निपतनोद्यतम् ।
धनिनाम्बुधियात्रायां जीवदत्ताभिधो वणिक् ॥१३०॥
तत्र प्रवहणे भग्ने विस्फूर्जत्स्फारमारुतैः ।
अहं फलहकावाप्त्या दैवात्प्राप्तो महीमिमाम् ॥१३१॥
राजदत्ता निशम्येति भूरिपानमदाकुला ।
विश्रान्तमुपरिष्टान्तं कण्ठे सोत्कण्ठमग्रहीत् ॥१३२॥
धनं कुलं परिचयं नर्माभ्यासं पथिस्थितम् ।
अनिरीक्ष्य प्रवर्तन्ते रतौ मत्ता हि योषितः ॥१३३॥
अत्रान्तरे समभ्येत्य राजा रत्नाधिपः प्रियाम् ।
ददर्शागम्यदेशेऽपि तां केनापि समागताम् ॥१३४॥
तां दृष्ट्वा प्रौढकोणेऽपि मत्वा दैवं सुदुर्जयम् ।
न तं जघान निःसारसंसारपरिहारधीः ॥१३५॥
वणिक्पवनसेनोऽपि गत्वा फल(हकाश्रयः ।
अथ प्रवहणं प्राप वणीजः क्रोधवर्मणः ॥१३६॥
तेनोत्क्षिप्तः करुणया तस्यैवेर्ष्यावतो वधूम् ।
दैवात्स भगिनीं यातो निहतस्तेन दुर्मतिः ॥१३७॥
रत्नाधिपोऽथ नृपतिर्नारायणपरायणः ।
राज्यं ब्राह्मणसात्कृत्वा गजेन तपसे ययौ ॥१३८॥
ततो निपतितो व्योम्नः सहसा स महागजः ।
पृष्टो महीभुजा प्राह संप्राप्य निजमन्दिरम् ॥१३९॥
अहं श्वेतप्रभो नाम गन्धर्वो मलयालयः ।
त्वं च देवप्रभो नाम नरनाथ ममाग्रजः ॥१४०॥
ईर्ष्यवतस्तव पुरा दयितां रूपशालिनीम् ।
महेश्वराग्रे गायन्तीं मुनिः कश्चिव्द्यलोकयत् ॥१४१॥
तद्विलोकनसंक्रुद्धः स मुनिस्त्वां ततोऽशपत् ।
मर्त्यो भूत्वा प्रियतमां द्रष्टास्यन्यरतामिति ॥१४२॥
शप्तं त्वामहमालोक्य गजेनापीडयन्मुनिम् ।
तच्छापादस्मि संप्राप्तो भ्रातः कुञ्जरतामिमाम् ॥१४३॥
विष्णुप्रसादपर्यन्तः शापस्तेनायमावयोः ।
दिष्टः स च परिक्षीणः संकल्पात्कैटभद्विषः ॥१४४॥
इत्युक्त्वा भूभुजा सार्धं प्राप्तो गन्धर्वतां द्विजः ।
संगतः सिद्धगन्धर्वैः प्रययौ मलयाचलम् ॥१४५॥
शीलवत्यपि भूपालादाप्तैः कनकसंचयैः ।
देवतायतनं चक्रे ब्राह्मणेभ्यश्च संचयम् ॥१४६॥
इति शीलवत्याख्यायिका ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T20:18:46.7300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

microphotograph

  • न. Photog.सूक्ष्मप्रकाशचित्र 
  • सूक्ष्म छायाचित्र 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site