TransLiteral Foundation

पद्मावती नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पद्मावती नाम
गोमुखेनेति कथितं निशम्य नरवाहनः ।
मुक्तकेतुकथाजातमपृच्छत्कौतुकाकुलः ॥३३॥
स पृष्टः सुहृदं मन्मथार्तं विनोदयन् ।
मुक्तकेतोः श्रृणु सुहृदं मन्मथार्तं विनोदयन् ।
मुक्तकेतोः श्रृणु कथां देव विद्याधरप्रभोः ॥३४॥
अभूद्विद्युत्प्रभो नाम दैत्यानामधिपो बली ।
विद्युद्ध्वजः सुतस्तस्य तीव्रेण तपसाभवत् ॥३५॥
सोऽपि धोरेण तपसा प्रजापतिवरात्कृती ।
विना पाशुपतं प्राप दिव्याण्यस्त्राण्युदारधीः ॥३६॥
स पित्रा सहितो गत्वा सेव्यमानो महासुरैः ।
स्वयं शतक्रतुस्तस्य वज्रनिर्दारितासुरः ।
चचार समरे वीरो मरुद्भिरभितो वृतः ॥३७॥
ततो विद्युद्ध्वजोत्सृष्टैर्ब्रह्मास्त्रप्रमुखैर्युधि ।
महास्त्रैरभवन्देवा दावव्याप्ता इवाद्रयः ॥३८॥
जम्भारिरथ संभ्रासं संस्मृत्य त्रिपुरान्तकम् ।
चक्रे पाशुपतास्त्रेण संहारं त्रिदशद्विषाम् ॥३९॥
विद्युद्ध्वजस्य जनको महद्भिर्दानवोत्तमैः ।
तेनास्रवह्निना दग्धः प्रययौ शाश्वतं पदम् ॥४०॥
लब्धलक्ष्येषु देवेषु विध्वस्ते दैत्यमण्डले ।
लज्जाविभुग्नवदनो वनं विद्युद्ध्वजो ययौ ॥४१॥
तत्र वर्षायुतं कृत्वा तपः संतापितामरम् ।
देवैरप्यभवद्युद्धे वरं प्राप स शूलिनः ॥४२॥
[ गत्वाथ त्रिदिव व्योम्ना संग्रामे वज्रिणं जयी ।
विद्राव्य सुरगन्धर्वकिन्नरानकरोद्वशे ॥४३॥
परित्यज्य प्रयातेषु स्वपुराण्यथ तद्भयात् ।
क्कापि देवनिकायेषु मत्तेषु दितिसूनुषु ॥४४॥
अमृष्यमाणस्तां मानम्लानिं विद्याधराधिपः । ]
वज्रकेतुस्तपस्तप्त्वा पुत्रं प्रापासुरान्तकम् ॥४५॥
स मुक्तकेतुनामाभूत्तस्येश्वरवरात्सुतः ।
देवा यस्य बलाधाने बभूवुः सततोद्यताः ॥४६॥
भाविनीं वल्लभां तस्य गन्धर्वाधिपतिः सुताम् ।
प्राप पद्मावतीं शर्वप्रासादात्पद्मशेखरः ॥४७॥
अत्रान्तरे दैत्यजिता मधुहन्तारमच्युतम् ।
श्वेतद्वीपं समभ्येत्य त्रिदशाः शरणं ययुः ॥४८॥
तेनादिष्टाः स्मरहरं प्रयातास्त्रिपुरान्तकम् ।
गीर्वाणाह शुश्रुवुस्तस्मान्मुक्तकेतुं परायणम् ॥४९॥
सिद्धक्षेत्रे ततश्चक्रे मुक्तकेतुर्महत्तपः ।
येनास्य सिद्धयः सर्वा बभूवुरभिसारिकाः ॥५०॥
दर्पाद्विद्युद्ध्वजेनाथ त्रैलोक्ये व्याकुलीकृते ।
शून्यारण्यतुले नीतं नन्दने छिन्नचन्दने ॥५१॥
बन्दिग्रहगृहीतासु सुरनारीशु दानवैः ।
उच्छ्वासैर्दीपयन्तीषु तत्प्रतापानलं मुहुः ॥५२॥
अर्थितः सुरराजेन मुक्तकेतुः शिवाज्ञया ।
प्रतस्थे त्रिदिवं तूर्णं महादैत्यरणोत्सुकः ॥५३॥
स व्रजन्नभसा तूर्णं विद्याधरनृपात्मजः ।
ददर्श पार्वतीपूजाव्रग्रां गन्धर्वपुत्रिकाम् ॥५४॥
कान्तामभिनवोद्याने स तां पद्मावतीं युवा ।
निर्वर्णयन्क्षणमभूत्कौतुकोत्कलिकाकुलः ॥५५॥
राजधानीमनङ्गस्य वज्रनाम्बुधुनीं रतेः ।
बिभ्रमाणां कुलगृहं लीलोद्यानं मदश्रियः ॥५६॥
स तामालोक्य शीतांशुसौन्दर्यस्येव देवताम् ।
बभार मानसं हर्षात्तुङ्गवीचितरङ्गितम् ॥५७॥
अत्रान्तरे समुत्थाय राक्षसीयुगलेन सा ।
पातालाद्भूमिकोपेन गृहीता कम्पिताकृतिः ॥५८॥
संत्रासविह्वलां बालां तां लोलनयनां ततः ।
ररक्ष गन्धर्वसुतां मुक्तकेतुर्निहत्य ताम् ॥५९॥
साथ तद्भयनिस्तीर्णा तं विलोक्य स्मरोपम म् ।
पुलकालंकृततनुः कम्पसंपद्युताभवत् ॥६०॥
ततो बन्दिग्राकर्ण्य तौ नामाभिजनौ मिथः ।
न््दतुः संगमाशां विधाय विपुलां हृदि ॥६१॥
अथ नाकिगणाहूतो दैत्येन्द्रसमरावनिम् ।
प्रययौ मानसं तस्यां विन्यस्य स्मरतापितः ॥६२॥
तत्र विद्युद्ध्वजमुखैरसुरैः संप्रहारिभिः ।
प्रावर्तत महद्युद्धं मुक्तकेतो सुरश्रिये ॥६३॥
देवदानवसंग्रामे तस्मिन्नतिभयंकरे ।
क्षुभ्यत्तप्ताब्धिकल्लोलमालिका विचचार भूः ॥६४॥
.................................... ।
.................................... ॥६५॥
.................................... ।
.................................... ॥६६॥
.................................... ।
.................................... ॥६७॥
.................................... ।
पततां तत्र नागानां हयानां स्फुटतामपि ।
निर्घोषैः कम्पिताशेषलोकैर्जगदपूर्यत ॥६८॥
वीरावीरशिरोभिस्तं प्रकराश्चक्रिरे पुरः ।
कमला............विकोशकमलाकरान् ॥६९॥
भिन्नेभमुक्तानिचयास्तेषामग्रे चकासिरे ।
शौर्यलक्ष्मीपरिणये लाजानामिव मुष्टयः ॥७०॥
केशसेवालजटिला रुधिरावर्तदुस्तरा ।
ससर्प रक्ततटिनी भूतवेतालमालिका ॥७१॥
अपूर्वः प्राप तां रक्तवाहिनीं वाहिनीपतिः ।
ननर्तेव चलत्तुङ्गतरङ्गभुजमण्डली ॥७२॥
अथ विद्युद्ध्वजः प्रौढदोर्दण्डाकृष्टकार्मुकः ।
मुक्तकेतुं स्फुरच्चापद्वारक्रेङ्कारमभ्ययात् ॥७३॥
तयोर्लघु विचित्रं तु तत्पुरो युद्धमुद्धतम् ।
निश्चलाः सुभटाः सर्वे ददृशुः प्रेक्षका इव ॥७४॥
ततः खङ्गेन तपसा प्रोन्ममाथ प्रमाथिनः ।
शिरो विद्युद्ध्वजस्याशु मुक्तकेतुरसंभ्रमः ॥७५॥
तथा च धैर्येण समं प्रौढकर्णोत्पलं शिरः ।
पपात दानवेन्द्रस्य रणश्रीकेलिकन्दुकः ॥७६॥
ततः शक्रमुखा देवाः संप्राप्तविजयोत्सवाः ।
विविशुश्चिरसंघृष्टनन्दनाममरावतीम् ॥७७॥
इति विद्युद्ध्वजवधः ॥२॥
=====================================
संपूजितोऽथ शक्रेण स्तूयमानो नभश्चरैः ।
पितुश्चन्द्रावलपुरं मुक्तकेतुर्ययौ बली ॥७८॥
तत्र पद्मावतीं ध्यायन्विरहानलदुःसहाम् ।
बभूव पाण्डुरच्छायः शशीव दिनभूधरः ॥७९॥
पद्मावती च हिमवत्तटोपान्तवनस्थलीम् ।
समेत्य तस्थौ विरहव्यथया सुविसंस्थुला ॥८०॥
सा समाश्वास्यमानेव वल्लीभिर्भृङ्गकूजितैः ।
मुहुर्मूर्च्छा न तत्याज मुक्तकेतुप्रलापिनी ॥८१॥
दीर्घं निःश्वस्य बाष्पाम्बुपूरप्लावितलोचना ।
पट्ते लिलेख दयितां तदाकारानुरागिणीम् ॥८२॥
ततो मनोहरा नाम सखी तां द्रष्टुमाययौ ।
विचित्योपवनोपान्तं शङ्कितां विजने स्थिताम् ॥८३॥
तया लिखितमालोक्य सा लतान्तरिता प्रियम् ।
मुक्तकेतुं परिज्ञाय स्वैरं साध्वित्यभाषत ॥८४॥
ततः सखी स्मितमुखी रहः प्राह मनोहरा ।
लज्जानताननाम्भोजां मीलितार्धविलोचनाम् ॥८५॥
अभिलाषोऽयमुचितो न ते लज्जाकरः सखि ।
मनो विधत्ते कमला नान्यत्र पुरुषोत्तमात् ॥८६॥
समाश्वसिहि गच्छामि व्योम्ना द्रष्टुं तव प्रियम् ।
मन्ये त्वद्विरहायासात्सोऽपि न स्वस्थविग्रहः ॥८७॥
इत्युक्त्वा सा विमानेन गत्वा चन्द्रावलं पुरम् ।
मुक्तकेतुं निजोद्याने ददर्श मदनातुरम् ॥८८॥
सुहृदा संयताख्येन तुषारकणवर्णिणा ।
आश्वास्यमानं प्रत्यग्ररम्भापल्लवशायिनम् ॥८९॥
मुहुः पद्मावतीमेव विलपन्तमुपेत्य तम् ।
सखी विरहवृत्तान्तं सा तस्मै तन्न्यवेदयत् ॥९०॥
सहसामृतवर्षेण प्लाव्यमान इवाथ सः ।
तया तदुपदिष्टेन प्रययौ हिमवत्तटीम् ॥९१॥
तत्रोपवनपर्यन्ते सिद्धर्षिगणसेविते ।
गौरीमिवेश्वरप्राप्त्यै बद्धध्यानां ददर्श ताम् ॥९२॥
प्राप्य पद्मावतीं कान्तां स तां मन्मथतापिताम् ।
स्मरहर्षरसाकृष्टस्तपोवनमुपाविशत् ॥९३॥
समुल्लङ्घ्याश्रमद्वारं प्रयातं वल्लभान्तिकम् ।
मुनिर्दृढव्रतो दृष्ट्वा भुवं गच्छेत्यथाशपत् ॥९४॥
दैवादमृतमासाद्य भग्नं मत्वेव भाजनम् ।
स शापदुःखात्प्रययौ शरणं तद्गुरुं मुनिम् ॥९५॥
स तं कुलपतिः प्राह वत्स मा दुःखितो भव ।
अवश्यंभाविनो भावा न भूत्वा यान्ति संक्षयम् ॥९६॥
पुरा देवासुररणे मोहनास्त्रे त्वयेरिते ।
अभूतां दानवपुरे वियुक्तौ किल दम्पती ॥९७॥
कान्तावियोगस्तच्छापादयं ते समुपस्थितः ।
अयं तु मुनिशापस्ते प्रयातः पुनरुक्तिताम् ॥९८॥
असावल्पापराधेऽपि पृथुकोपो दुराशयः ।
दृढव्रतस्ते मर्त्यस्य यातु वाहनपक्षिताम् ॥९९॥
इति श्रुत्वा मुनिवचो मुक्तकेतुरगाद्द्रुतम् ।
चन्द्रचूडसमादिष्टं गणं प्राप्यानुगं क्षणात् ॥१००॥
इति मुक्तकेतुशापः ॥३॥
===============================
ततो देवसभाभिख्ये पुरे सुरपुरोपमे ।
मेरुध्वजस्य नृपतेः स श्रीमान्प्राप्य पुत्रताम् ॥१०१॥
मुक्तध्वज इति ख्यातः सोऽभूद्विक्रमभूषणः ।
गणपध्वज इत्यासीद्गणस्तस्यैव चानुजः ॥१०२॥
मुक्तध्वजोऽथ कालेन तं खं प्राप्य वाहनम् ।
मुनीन्द्रयज्ञरक्षायै ययौ धन्वी पितुर्गृहात् ॥१०३॥
सानुगोऽसौ मुनिमखे धत्ते दानवमण्डलम् ।
जधान धननिर्घोशैरस्त्रैरस्त्रविदां वरः ॥१०४॥
दग्ध्वा पाशुपतास्त्रेण निखिलं दैत्यकाननम् ।
सानुजो राजतनयो जेतुं पातालमाविशत् ॥१०५॥
विलोक्य मालिनां तत्र जित्वा पातालवासिनम् ।
प्रददौ तत्सुतां कान्तां तस्मै मुक्तध्वजस्ततः ॥१०६॥
अथ प्रणम्य श्रीकण्ठं प्रहृष्टो हाटकेश्वरम् ।
पूर्वाभ्याससमादिष्टां प्रययौ हिमवत्तटीम् ॥१०७॥
तत्र जातिं निजां स्मृत्वा मुक्तकेतुतनुं ततः ।
प्रियां पद्मावतीं प्राप्य स्वप्ने शर्वेण सूचिताम् ॥१०८॥
सापि स्वप्ने समादिष्टं पार्वतीपतिना वरम् ।
पार्वती विरहक्षामा सिक्तेवासीत्सुधारसैः ॥१०९॥
गणे जाते तु कालेन शांकरं तत्पदं निजम् ।
मुक्तकेतुरभूत्कान्तासंभोगासक्तमानसः ॥११०॥
संभोगाविधवां राजंस्तामादाय सुलोचनाम् ।
ययौ व्योम्ना विमानेन स सुरैरभिनन्दितः ॥१११॥
चन्द्रावलपुरं गत्वा चन्द्रकेतुं प्रणम्य सः ।
जनकं विजये भेजे विद्याभृच्चक्रवर्तिताम् ॥११२॥
इति विद्याधरेन्द्रेण सा गन्धर्वनृपात्मजा ।
वियोगाब्धिं समुत्तीर्य प्राप्ता पद्मावती प्रिया ॥११३॥
अचिरात्त्वमपि प्राप्य प्रियां मदनमञ्चुकाम् ।
विधातुरानुकूल्येन देव निर्वृतिमाप्स्यसि ॥११४॥
इत्याकर्ण्य सुहृद्वचः प्रियतमासंप्राप्तिचिन्तापरः  
केयूरार्पितकङ्कणःशिखिसस्वैर्निःश्वासवातैर्मुहुः ।
म्लानिं हारलतां नयन्दिनशशिव्यापाण्डुगण्डस्थल -
स्तस्थौ बालमृणालपल्लवमये श्रीवत्सराजात्मजः ॥११५॥

इति क्षेमेन्द्रविरचितायां बृहत्कथायां पद्मावती नाम द्वादशो लम्बकः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T21:42:32.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

materials

  • स्त्री./अ.व. वस्तू 
  • स्त्री. सामग्री 
  • पु. माल 
  • स्त्री./अ.व. वस्तू 
More meanings
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site