ब्रह्मदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


जाह्नवीधूर्जटिजटाकुन्दमाला पुनातु वः ।
राजहंसश्रियं धत्ते यद्वारि वलये शशी ॥१॥
ततो विरहसंतप्तं प्रियां मदनमञ्चुकाम् ।
विलपन्तं सुहृत्प्राह गोमुखो नरवाहनम् ॥२॥
धैर्यसागर कोऽयं ते नम्नथानलविप्लवः ।
एश ह्यसंवृतः सत्यं महतामपि दुःखदः ॥३॥
ब्रह्मदत्त इति ख्यातो वाराणस्यामभून्नृपः ।
कीर्तिरासागरं यस्य गता गङ्गेव भूभृतः ॥४॥
तस्य सोमप्रभा नाम भार्या सोमप्रभाभवत् ।
मन्त्री च धीमतां धुर्यः शिवभूतिरिति श्रुतः ॥५॥
स कदाचिन्नृपश्चन्द्रकान्तिधौते नभस्तले ।
सौधोत्सङ्गगतोऽपश्यन्निशीथे ह्म्समालिकाम् ॥६॥
तन्मध्ये काञ्चनमयं प्रवालचरणोज्ज्वलम् ।
ददर्श हंसमिथुनं शुक्ला रुचिरलोचनम् ॥७॥
पृष्टौ राज्ञा प्रोचतुस्तौ पूर्ववृत्तमथात्मनः ।
पुष्पशेखर इत्यासीद्दुर्विनीतो गणः पुर ॥८॥
जयया कन्यया सार्धं संस्थितो दुर्विनीतया ।
दृष्ट्वा गणौ जहसतुर्मृगेश्वर[गुहे]श्वरौ ॥९॥
अकाण्डे प्रणयं तेषां विलोक्य त्र्यम्बकप्रिया ।
कोपाग्निधूमलतिकाम बभार भृकुटीं मुखे ॥१०॥
सावदद्दुर्विनीतोऽयं कन्ययैव सहानया ।
मर्त्यतां यातु निर्लज्जो विलासी पुष्पशेखरः ॥११॥
हासशीलावपि पुरावेतौ चापलसूचकौ ।
बहुशः कुत्सितां जातिं प्राप्य बोधः श्रुपास्यत(?) ॥१२॥
इति शप्तेषु पार्वत्या तेष्वेकः प्रमथोऽब्रवीत् ।
कृपया धूर्जटी नाम देवि दासेषु मा क्रुध ॥१३॥
तच्छ्रुत्वा गिरिजा प्राह पत त्वमपि भूतले ।
ईश्वरा गाढनिर्बन्धं यान्ति धार्श्ट्यनिवारिताः ॥१४॥
सुतास्रेहात्ततः प्राप्य जया गौरीं व्यजिज्ञपत्त ।
देवीसेवाजुषां तेषां शापस्यान्तो विधीयताम् ॥१५॥
इत्यर्थिता सा तपसा तया प्रोवाच पार्वती ।
एकत्र संगता जातिं स्मृत्वैष्यन्ति निजं पदम् ॥१६॥
इत्युक्ते शंकरस्तूर्णं सतीसंदर्शनोत्सुकः ।
व्योम्ना मनोरथेनेव समभ्यायात्ककुद्मता ॥१७॥
सिप्राप हर्षपीयूशवर्षिणीं हिमवत्सुताम् ।
अश्रृणोदन्धकाक्षं तं निकामं तु परम्परा ॥१८॥
ततस्तं विदधे क्रद्धो भगवानस्थिपञ्जरम् ।
मुस्ताङ्गः सोऽपि तपसा भृङ्गिरित्यभवद्गणः ॥१९॥
अत्रान्तरे यौ गिरिजाशप्तौ पिङ्गगुहेश्वरौ ।
द्विजस्य पुत्रतां यातौ यज्ञस्थलनिवासिनः ॥२०॥
ततस्तावतिदारिद्र्यान्मातामहगृहे स्थितौ ।
मातुलेन पशुप्रायौ नियुक्तौ पशुरक्षणे ॥२१॥
अथैकं भक्षितं दृष्ट्वा ताभ्यामृक्षविदारितम् ।
छागलं मातुलः शापं ददौ रक्षस्तनुप्रदम् ॥२२॥
ततस्तौ राक्षसौ घोरौ कदाचिद्धन्तुमुद्यतौ ।
पतितात्तस्य शापाच्च वने यातौ पिशाचताम् ॥२३॥
कालेन दुर्दिने होमधेनुरक्षाकुमारकम् ।
भोक्तुं मुनेरुद्यतौ च शापाच्चाण्डालतां गतौ ॥२४॥
कर्णनासाविरहितौ शबरैश्चौर्यकोपतः ।
कृतौ गत्वा शिवगृहं धेनुं हन्तुं समुद्यतौ ॥२५॥
अन्धीकृतौ भगवता दृष्टौ पौरजनैस्ततः ।
निराहारौ वायसतां किंचित्कर्मक्षयाद्गतौ ॥२६॥
भासतां च ततः प्राप्तौ क्रमेण च मयूरताम् ।
शिवार्चनरतौ काले जातिं स्मृत्वा च हंसताम् ॥२७॥
प्राप्तौ ततोऽपि वैचित्र्यं हेमरत्नमयाकृती ।
तावावां पार्वतीशप्तौ मृगेश्वरगुहेश्वरौ ॥२८॥
स पुष्पशेखरस्त्वं च त्वत्प्रियेयं जयात्मजा ।
महामत्यश्च ते राजन्धूर्जटोऽःयं गणाग्रणीः ॥२९॥
तदेहि तूर्णं गच्छामः सिद्धिक्षेत्रं महागिरिम् ।
प्राङ्मुक्तकेतुना यत्र मुक्ता लक्ष्मीस्ततः श्रिया ॥३०॥
इति हंसवचः श्रुत्वा ब्रह्मदत्तः प्रियासस्वः ।
मन्त्रिणा सह ताभ्यां च व्योम्ना जातिस्मरस्तु सः ॥३१॥
आद्यस्थानं समासाद्य ते विज्ञानमयाः क्षणात् ।
शांभवं पदमभ्येत्य संगता भेजिरे निजाम् ॥३२॥
इति ब्रह्मदत्ताख्यायिका ॥१॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP