TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मदिरावती

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


एकादशो लम्बकः
अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी ।
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥१॥
अनेकसौरभोद्गारव्याकुलीकृतषट्पदैः ।
प्रक्षुभ्यत्कोकिलकुले रसत्समदसारसे ॥२॥
वलत्समीरणोद्भूतघनकिञ्जल्कपिञ्जरे ।
संजाताधिकसंतापस्तत्र वत्सेश्वरात्मजः ।
निजदेशपरित्यागे बभूवं कुरिसादरः ॥३॥
स गत्वा विरहक्षामः पदैः श्लथविश्रृङ्खलैः ।
कलह्म्सकुलालोलं प्राप भागिरथीतटम् ॥४॥
तरुणौ तत्र विश्रम्भसम्भोगाविव रूपिणौ ।
अग्राम्यवस्त्राभरणौ ददर्श द्विजपुत्रकौ ॥५॥
रतिहीनमिवानङ्गं विलोक्य नरवाहनम् ।
ॐ नमो मन्मथायेति ब्रुवाणौ तौ प्रणेमतुः ॥६॥
निजवृत्तान्तमावेद्य पृष्टौ राजसुतेन तौ ।
चक्रतुः स्वकथाख्याने लज्जिताविव मानसम् ॥७॥
तयोरेकोऽब्रवीद्देव श्रूयतां नौ विचेष्टितम् ।
वल्लभे प्रेरयत्येषा ब्रह्मदर्शननिर्वृत्तिः ॥८॥
अस्ति शोभावती नाम कलिङ्गविषये पुरी ।
तस्यां यशस्करो नाम बभूव ब्राह्मणोऽग्रणीः ॥९॥
तस्य मेखलिकाख्यानां ब्राह्मण्यां तनयः प्रियः ।
जातः सद्भावनामाहं कुलार्थं विहितव्रतः ॥१०॥
ततः कदाचिद्दुर्भिक्षे त्यक्त्वा स्वनगरं वयम् ।
संप्राप्ता कृच्छ्रवीवाख्यं पुरं सुरपुरोपम म् ॥११॥
ततः कृतास्पदे तत्र सदा निद्यार्जने रतः ।
अहं गुरुकुले मित्रमवापं क्षत्रियं दिनैः ॥१२॥
सोमदत्ताभिधानस्य राजन्यस्य तमात्मजम् ।
मित्रं विजयसेनाख्यं प्राप्याहं निर्वृतोऽभवम् ॥१३॥
ततः कदाचिदुद्याने तस्वसा मदिरावती ।
दृष्टा मया मनोजन्मसाम्राज्यविजयोत्सवः ॥१४॥
दधाना बाहुयुगलं बिसकन्दसुकोमलम् ।
वापीव मञ्जुसिञ्जानमेखलाहंसमालिका ॥१५॥
बिभ्राणाभिनवोद्भिन्नकुचावव्यक्तचूचुकौ ।
तारहारनदीजाताविव पङ्कजकोरकौ ॥१६॥
तां विलोक्याहमानन्दसुधानिःस्यन्दवाहिनीम् ।
कदम्बकुसुमाकारः संजातपुलकोऽभवम् ॥१७॥
सापि मामवलोक्यैव साचीकृतविलोचना ।
स्फुटां गतिं परित्यज्य भेजे विभ्रमवक्रताम् ॥१८॥
नवस्मरशराघातकल्पितास्य निजं गृहम्
गत्वा बभूव शनकैर्ध्यानोच्छ्वासपरायणः ॥१९॥
ततो विजयसेनेन नीतोऽहं निजमन्दिरम् ।
तामपश्यं स्मरभुवं मय्येवार्पितलोचनाम् ॥२०॥
तया प्रणयशालिन्या गुम्फितां कुसुमस्रजम् ।
कण्ठे न्यवेशयं हर्षात्तामिवामीलितेक्षणः ॥२१॥
रहस्तस्यास्ततो धात्री मामुवाचामृतोपम म् ।
त्वमेव मदिरावत्या जीवितं किमतः परम् ॥२२॥
इत्यहं तद्गिरा हृष्टः प्राप्तो मन्मथतामिव ।
अकार्षं विपुलामाशां प्रियापरिणयोत्सवे ॥२३॥
ततः कदाचिदश्रौषं तां पित्रा प्रतिपादिताम् ।
क्षत्रियायतिरूपाय वचसा गुणशालिनीम् ॥२४॥
तच्छ्रुत्वाहं झटित्युग्रवज्राहत इव क्षितौ ।
पतितः प्रेमबन्धानामाशाभङ्गोऽतिदुःसहः ॥२५॥
ततस्तस्याः सखी प्राह मामेत्य लघुचारिणी ।
पित्रा कुबुद्धिनान्यस्मै कल्पिता मदिरावती ॥२६॥
भ्रमन्तमभिधत्ते च सा त्वत्प्रीतिपरायणा ।
त्वमेव मे प्राणनाथो मिथ्याभ्रान्तः पिता मम ॥२७॥
इति तद्वचसा सद्यः संप्राप्ता साचलत्स्नना(?) ।
समारूढ इवाकाशं सुधासिक्त इवाभवम् ॥२८॥
अथ कालेन संप्राप्ते तस्या लग्नदिनोत्सवे ।
श्रुतो मयानेकजन्यजनकोलाहलः पुरे ॥२९॥
अन्यत्र पथि यातस्य दर्शने बद्धकौतुकः ।
परिणेतुस्ततो गत्वा मया दर्पगताः स्त्रियः ॥३०॥
विवाहं मदिरावत्या दृष्ट्वाहं समुपस्थितम् ।
तत्संगमे जीवितेन तुल्यमासां यदात्यजम् ॥३१॥
ततोऽहं तरुमारुह्य पाशवेष्टितकन्धरः ।
ऊर्ध्वेक्षणं तमोघोरं प्रविष्टो नष्टचेतनः ॥३२॥
केनापि मुक्तपाशोऽथ फेनोद्गारिमुखः क्षितौ ।
पातितः सुचिरात्संज्ञां प्राप्यापश्यं द्विजं पुरः ॥३३॥
कृपयाश्वास्य मां तैस्तैरुपपत्तिकथाक्रमैः ।
उवाच मत्कथां श्रुत्वा स निष्कारणबान्धवः ॥३४॥
जहास निन्दितं विप्र साहसं कृतवानसि ।
शरीरत्यागपापिष्ठं कर्मैतन्मा कृथाः पुनः ॥३५॥
अवश्यमेव पुरुषः प्राप्नोत्यपि यथेप्सितम् ।
भवत्येवात्र संसारे दृष्टनष्टा मुहुर्मुहुः ।
संयोगाश्च वियोगाश्च तथा च श्रृणु तत्कथाम् ॥३६॥
अहं कुमारको नाम नेपालविषयाश्रयः ।
द्विजन्मा निखिलां पृथ्वीं भ्रान्तो विषयकौतुकात् ॥३७॥
ततः शङ्खमुखं नाम हिमवत्कच्छसंश्रयम् ।
अवापं विविधोद्यानं वसन्तस्येव मन्दिरम् ॥३८॥
शङ्खपालह्रदे तत्र यातयामे महोत्सवे ।
स्नानपूजारसव्यग्रसुन्दरीमन्दमण्डले ॥३९॥
अपश्यं कन्यकां कान्तां नवयौवनशालिनीम् ।
अशर्वामिव शर्वाणीमचन्द्रामिव रोहिणीम् ॥४०॥
विभ्रमाणां कुलगृहं क्षेत्रं कान्तेः पदं तरोः ।
त्रिजगज्जयिनः शक्तिं मूर्तामिव मनोभुवः ॥४१॥
तां चन्द्रवदनां दृष्ट्वा कुरङ्गनयनामहम् ।
रम्भोरूं रम्भया तुल्यां गत्वैव गजगामिनीम् ॥४२॥
पुराहं राजपुत्रस्य याता क्रीडामयूरताम् ।
तस्यां मदान््यस्तलोचनायां महागजः ॥४३॥
प्रतिद्वीपरूपान्याया(?)ज्जनकोलाहलाकुलः ।
भ्रमभ्द्रमरसंभारमदाम्भोराजिराजितः ॥४४॥
मन्दराद्रिरिवोच्च~झ्चत्कालकूटघटाकुलः ।
सरोविलोडनक्रीडाडम्बरे कवलीकृताः ॥४५॥
उद्गिरन्निव दन्ताम्शुच्छद्मना विषमण्डलीः ।
विलोलकर्णतालाग्रव्यालम्बिसितचामरः ॥४६॥
कालमेघ इवोत्सर्पद्बलाकावलयाङ्कितः ।
यस्य गम्भीरसंरम्भगुरुभिर्गलगर्जितैः ॥४७॥
तां त्रासस्वलितामेत्य दोर्भ्यामहमधारयम् ।
जग्राह निबिडं कण्ठे मां सा तद्भयविह्वला ।
स्पर्शहर्षामृतासिक्तकम्पितोच्चकुचस्थलीम् ॥४८॥
भूयात्ते करिणीं सज्जौ मदलेशविलासन ।
कृतोपकारं तं नागमित्यहं मनसाभ्यधाम् ॥४९॥
ततः पृथुलफूत्कारशीकराबद्धदुर्दिनः ।
आवर्तितः करोत्कारः क्षणात्प्राप्तो मदन्तिकम् ॥५०॥
तद्भयाद्विद्रुते दूरं जनसंघे सहस्रधा ।
नापश्यं पद्मवदनां क्कचित्तां तरलेक्षणाम् ॥५१॥
ततोऽहं तद्वियोगार्तो यातेऽस्तं नलिनीप्रिये ।
चक्राह्व इव यामिन्यां विलापमुखरोऽभवम् ॥५२॥
अथ चन्द्रकरस्मेरकुमुदामोदशालिभिः ।
विषवेगैरिवासिक्तो रजनीपवनैरहम् ॥५३॥
एवं प्रतिनिशं कान्तावियोगविधुराशयः ।
भ्रान्तोऽपि निखिलां पृथ्वीं तां न पश्यामि सुन्दरीम् ॥५४॥
बद्धस्पृहोऽपि निधने धारयाम्येव जीवितम् ।
प्रियलाभा भवन्त्येव सत्सु प्राणेषु देहिनाम् ॥५५॥
अद्य त्वमपि दुःखार्तो रक्षितो मरणान्मया ।
अनुभूतव्यथः सर्वो जानाति परवेदनाम् ॥५६॥
धीरो भव भवे दैवात्कदाचिन्मदिरावतीम् ।
अवाप्स्यसीति तद्वाक्यं श्रुत्वाहं धृतिमाश्रितः ॥५७॥
ततस्तेनैव सहितः पूज्यस्मरनिकेतनम् ।
यातः परिणये रन्तुं यत्रायान्ति पुराङ्गनाः ॥५८॥
तत्र गर्भगृहे गूढं स्थिते मयि तदाशया ।
विवाहे स्मरपूजायामाययौ मदिरावती ॥५९॥
उत्साहवाद्यनिर्घोषक्षुबिते जनसागरे ।
विराजमाना लावण्यपीयूषैः श्रीरिवोदिता ॥६०॥
निषिद्धान्यप्रवेशाय सा प्रविश्य स्मरालयम् ।
प्रणम्य प्राह सा वाक्यमुद्वाहोऽयं विधाय मे ॥६१॥
दृष्टः पुरा मया विप्रो यः स मे हृदयप्रभुः ।
स मे जन्मान्तरे भूयात्पतिः प्राणांस्त्यजाम्यहम् ।
इत्युक्त्व अविदधे पाशं कण्ठे हारविभूशिते ॥६२॥
ततोऽहं सुन्दरीं दृष्ट्वा तां रागान्मर्तुमुद्यताम् ।
प्रहृष्तो दयितामानी पाशं तस्या न्यवारयम् ॥६३॥
साथं मां प्रत्यभिज्ञाय विहितालिङ्गनोत्सवम् ।
सकम्पा कामपि ययौ क्षीबतां मदिरावती ॥६४॥
निर्जनामटवीं त्यक्त्वा पुरं प्राप्तोऽचलाभिधम् ।
ततो गृहपतेर्गेहे तत्रत्यस्य च कस्यचित् ॥६५॥
विधिना विहितोद्वाहः संभोगसुभगोऽभवम् ।
तया प्रणयशालिन्या रममाणो मृगीदृशा ॥६६॥
तत्राङ्गनामुखं प्राप्तं तमपश्यं सुहृद्वरम् ।
दैवाद्यदृच्छया यातः स पृष्टः प्रणयान्मया ॥६७॥
प्राहाप्यहं वधूवेषो यातः शिबिकया गृहम् ।
तत्रोद्वाहोत्सवे व्यग्रजनकल्लोलसंकुले ।
दीर्घावगुण्ठनां प्राह सखी मां पाटलाभिधा ॥६८॥
मदिरावति कोऽयं ते विषादविषविभ्रमः ।
अस्मिन्नप्युत्सवे येन विकृतेवोपलक्ष्यते ॥६९॥
जानेऽहं त्वां सदा बद्धप्रीतिं तस्मिन्द्विजात्मजे ।
धात्रा न लिखितः किं तु तव तेन समागमः ॥७०॥
प्राप्तां भज विधेराज्ञां को हि नामातिवर्तते ।
ममाप्येवंविधा चिन्ता सततं सखि वर्तते ।
श्रृणु यन्मे पुरा वृत्तं नागयात्रामहोत्सवे ॥७१॥
शङ्खपालह्रदे स्नातुं याता बहुजनागमे ।
अपश्यं कुञ्जरत्रस्ता पुरुषं मन्मथोपम म् ॥७२॥
तेन पद्मदलाक्षेण यूनाहं भयविह्वला ।
गाढमालिङ्गिता येन मामद्यापि स्मरज्वरः ॥७३॥
तं मदं मदनस्यापि यौवनस्यापि यौवनम् ।
तं विस्मरति मे मन्ये मनो जन्मान्तरेष्वपि ॥७४॥
ततोऽहं कुञ्जरभयात्तद्वियुक्तो निजं गृहम् ।
कण्ठे गृहीत्वा सोत्कण्ठं लब्धजीव इवाभवम् ॥७५॥
सापि मां मन्मथाविष्टा दृष्ट्वाभ्यस्तं मनोरथैः ।
प्लावितेवामृतस्यन्दैरभवत्स्मेरचन्द्रिका ॥७६॥
ततस्तयाहं गूढेन द्वारेणालक्षितो निशि ।
निर्गतो लघुसंचारो मधुमत्तजनाद्गृहात् ॥७७॥
दूरं गत्वा वनं प्राप्तः..............।
सौजन्याद्विहितातिथ्यः कृतोऽहं मृगयाज्ञया ॥७८॥
दैवाद्दिष्टमिमं मार्गं विचिन्त्य दयितासखः ।
इह त्वया संगतोऽहमानन्देनेव रूपिणा ॥७९॥
इति तद्वचनं श्रुत्वा दृष्टोऽहं जाह्नवीतटे ।
स्थितोऽद्य यावत्तावत्त्वं मया दृष्टो नृपात्मजः ॥८०॥
अयं मम सखा बन्धुः सहजः स्वर्गमेव च ।
राजसूनो मनःसिन्धुचन्द्रः प्राणा बहिश्चराः ॥८१॥
इति द्विजसुतेनोक्तं निशम्य नरवाहनः ।
शनैर्बबन्ध सानन्दो दयितासंगमे धृतिम् ॥८२॥
अथ स निजसुहृद्भिः संगतो गोमुखाद्यैः
प्रणयविनतमौलिस्तौ समानम्य विप्रौ ।
विरहविधुरधैर्यः संस्मरन्वल्लभायाः
प्रविशिथिलमयासीत्स्वां पुरीं राजपुत्रः ॥८३॥

इति क्षेमेन्द्रविरचितायां बृहत्कथायां मदिरावती नाम एकादशो लम्बकः समाप्तः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T21:08:29.9470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ढास

  • स्त्री. कोरडा खोकला ( जनावरे , माणसे यांना होणारा ). [ हि . ] 
  • पु. ( व . ) गाडीच्या चाकावर , धुर्‍यावर बसविलेला भाग . ढासी पहा . 
  • वि. रानवट ; माळरान ; नापीक ( जमीन ). [ फा . ] 
  • ना. कोरडा खोकला , कोरडी उबळ , ठसका . 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site