TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विषमशीलनामा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


विषमशीलनामा
ते कन्यके ततः प्राप्य विश्वकर्मसुरालयम् ।
प्रविश्यापश्यदत्यन्तकान्तामुत्कीर्णपुत्रिकाम् ॥२००॥
तां दृष्ट्वा नयनानन्दसुधां भेजे सविस्मयः ।
देवो विषमशीलोऽपि मदनानलवक्रिते ॥२०१॥
तेन पृष्टः स वेतालः केयमित्यतिकौतुकात् ।
उवाच शिल्पिना देव कृतेयं सालभञ्जिका ॥२०२॥
कलिङ्गराजतनययामालोक्य सदृशाकृतिम् ।
सेयं कलिङ्गसेनाख्या रूपकारेण निर्मिता ॥२०३॥
श्रुत्वेति वेतालवचस्तत्प्राप्तिन्यस्तमानसः ।
अभूत्कलिङ्गयात्रायां प्रस्थानाभिमुखो नृपः ॥२०४॥
अत्रान्तरे समभ्येत्य वणिक्पुत्रो व्यजिज्ञपत् ।
तं देव मम नागेन हर्म्यस्था दयिता हृता ॥२०५॥
तां विलासवतीं नाम नीतामालोक्य वल्लभाम् ।
कुञ्जरेन्द्रेण तेनाहं निखिलं व्याकुलोऽभवम् ॥२०६॥
ततो मां दुःखसंतप्तं कश्चिदभ्यागतो द्विजः ।
आश्वासयन्प्राह सखे मा विवृं.........वृथा कृथाः ॥२०७॥
भवन्त्यस्मिन्भवाम्भोधौ भ्राम्यतां कर्ममारुतैः ।
संयोगाश्च वियोगाश्च स्थायिनो न हि देहिनाम् ॥२०८॥
अभवत्ताम्रलिप्तायां देसटस्य द्विजन्मनः ।
तनयः केसटो नाम कन्दर्प इव मूर्तिमान् ॥२०९॥
कदाचित्तीर्थयात्रायां यातः पथि ददर्श सः ।
यन्न्यात्र(?) प्रस्थितान्विप्रान्विशेशोचितभूषितान् ॥२१०॥
तन्मध्यादवदद्वृद्धः केसटं सुन्दराकृतिम् ।
भद्र वृद्धस्य कार्येऽस्मिन्सहायो मे सखे भव ॥२११॥
अस्ति मे तनयो वक्रनासिको विकटाननः ।
लम्बोदरो दीर्घग्रीवो दन्तुरः खलतिः कृशः ॥२१२॥
तदर्थं धनलुब्धेन मया विप्रो महाधनः ।
सुतां रूपवतीं नाम याचितो धनशालिनीम् ॥२१३॥
विवाहः प्रस्तुतोऽद्यैव निशि तत्र ममात्मजम् ।
दृष्ट्वा कुरूपसाकां ना(?)न जाने किं करिष्यति ॥२१४॥
अतस्त्वं मन्मथाकारः साहाय्यं कर्तुमर्हसि ।
मत्पुत्रार्थं परिणये प्राप्नुयाद्येन कन्यकाम् ॥२१५॥
तच्च्रुत्वा बाढमित्याह केसटः स्वच्छचेतसाम् ।
कथं परोपकारेषु निषेधे वाक्प्रवर्तते ॥२१६॥
ततः सोष्णीषकुसुमापीडकल्पितशेखरः ।
कुसुमायुधसच्छायो नीतस्तेन द्विजालयम् ॥२१७॥
विवाहवसुधां प्राप्य स ददर्श द्विजात्मजाम् ।
रूपयौवनलावण्यैः पुनरुक्तविभूषणाम् ॥२१८॥
सखीनां सह कन्याभ्यां कटाक्षकिरणैर्दृशः ।
फुल्लेन्दीवरमालाङ्गं विदधानामिवोत्सवे ॥२१९॥
तां दृष्ट्वा केसटस्याभून्मनसि स्मयशालिनः ।
अहो मे दर्शनादस्या धन्यता नेत्रयोरभूत् ॥२२०॥
ततः केसटमालोक्य श्रृङ्गारमिव रूपिणम् ।
आजानुबाहुदीर्घाक्षं परिष्वक्तमिव त्विषा ॥२२१॥
कर्णोपान्तमुपेत्यास्य तत्सख्यावूचतुः शनैः ।
एकानुरागवत्याख्या परा श्रृङ्गारवत्यपि ॥२२२॥
धन्य रूपवती यस्यास्त्वं कान्तप्रवरो वरः ।
आवयोरपि कर्तव्यस्त्वया पाणिग्रहोत्वसः ॥२२३॥
इति स्वैरे समाकर्ण्य निःश्वस्याचिन्तयन्मुहुः ।
भवतीभिर्ममान्यस्मिन्मन्ये जन्मनि संगमः ॥२२४॥
ध्यात्वा त्वेवं समासन्ने लग्ने निशि नदीतटे ।
स्पष्टमम्भोविनिर्यातं सोऽपश्यत्पिशिताशनम् ॥२२५॥
तं तु क्षामं तथालोक्य किं करोतीति कौतुकात् ।
अभक्षिता रूपवती तमेवानुययौ शनैः ॥२२६॥
सापि प्राप्य नदीतीरे राक्षसं तमभाषत ।
तद्वाक्यविस्मितं रक्षः प्राह रूपवतीं ततः ॥२२७॥
संत्रासातङ्कदुःखानां हस्ते न्यस्तेव वेधसा ।
मामत्सि राक्षसपते कान्तोऽयं मुच्यतां विभो ॥२२८॥
एतद्वियोगद्यत्सत्यं जीवितं निधनं मम ।
तच्छ्रुत्वा राक्षसः प्राह स्त्री न वध्या ममाबले ॥२२९॥
सावदद्भर्तृहीनायाः का मे वृत्तिर्निशाचर ।
सोऽब्रवीत्सस्मितं सुभ्रु सदा वर्तस्व भिक्षया ॥२३०॥
सापि को मे ददातीति प्रोवाच रजनीचरम् ।
सोऽब्रवीच्छतधा यातु तत्तुभ्यं न ददाति यः ॥२३१॥
ततो रूपवती प्राह भर्तृभिक्षा त्वमेव मे ।
देहीति तन्निषेधात्तु तद्रक्षः शतधा ययौ ॥२३२॥
मोचयित्वेति भर्तारं गत्वा तत्सहिता गृहम् ।
निशां निनाय तद्वक्त्रविन्यस्तानिमिषेक्षणा ॥२३३॥
प्रातर्जन्यावली यात्रारम्भे वृद्धद्विजन्मनः ।
अवाप्य परिणीतां तां नावा गन्तुं समुद्ययौ ॥२३४॥
मत्पुत्रोऽस्याः कुरूपोऽसौ केसटं वीक्ष्य न प्रियः ।
भविष्यतीति स ध्यात्वा छलान्नद्यां तमक्षिपत् ॥२३५॥
भ्राम्यमाणस्तरङ्गाद्यैः सोऽ‍प्यं प्राप्य दिनैस्त्रिभिः ।
तीरं वियोगसलिले ममज्जापारदुस्तरे ॥२३६॥
तां शशाङवतीं ध्यात्वा ययो यत्त्रासशोषितः ।
निधिना दृष्टनष्टेन विप्रलब्ध इवाभवत् ॥२३७॥
ततोऽस्तशिखरं याते पद्मिनीजीवितेश्वरे ।
संदेहं दिक्षु यातासु शोकैरिव तमश्चयैः ॥२३८॥
भ्राजिष्णुरत्नाभरणं सोऽपश्यत्पतितं दिवः ।
पुरुषं यौवनोदारं विश्राममिव नेत्रयोः ॥२३९॥
तं केसटोऽथ पप्रच्छ कोऽसीति प्रणयोदितम् ।
निवेद्य निजवृत्तान्तं कान्ताविरहपीदितः ॥२४०॥
संपृष्टः प्राह निःश्वस्य धैर्यमालम्ब्य विक्रियाम् ।
त्यजैतां श्रृणु मे तुल्यां क.............. ॥२४१॥
.................................... ।
.................................... ॥२४२॥
.................................... ।
.................................... ॥२४३॥
.................................... ।
.................................... ॥२४४॥
.................................... ।
.................................... ॥२४५॥
.................................... ।
.................................... ॥२४६॥
.................................... ।
.................................... ॥२४७॥
.................................... ।
.................................... ॥२४८॥
.................................... ।
.................................... ॥२४९॥
.................................... ।
.................................... ॥२५०॥
.................................... ।
.................................... ॥२५१॥
.................................... ।
.................................... ॥२५२॥
.................................... ।
.....................स सततं नासौ त्वयि निरादरः ॥२५३॥
कलिङ्गसेना श्रुत्वेति दृष्ट्वा कार्पटिकोदितम् ।
सौभाग्यगर्वशैथिल्यं तत्याज मृगलोचना ॥२५४॥
ततः श्रीविक्रमादित्यः पालयन्निखिलां महीम् ।
.........कर्पूरधवलाश्चकार यशसा दिशः ॥२५५॥
अत्रान्तरे शत्रुजितः कश्चिदेत्य नृपात्मजः ।
चक्रे विषमशीलस्य सेवां द्वादशवार्षिकीम् ॥२५६॥
चिरस्थितं राजपुत्रं सोऽथ कार्पटिकव्रतम् ।
तं खण्डकपटाभिख्ये व्यधादेत्य पुरे नृपम् ॥२५७॥
सर्वर्तुफलपुष्पाढ्यं मणिकाञ्चनमन्दिरम् ।
स सर्वकामदं प्राप्य तत्पुरं विस्मितोऽभवत् ॥२५८॥
ततः प्रतिनिवृत्ताय पुनश्चास्मै ददौ स्वयम् ।
चतुरम्भोधिपर्यन्तं चतुर्भागं भुवो विभुः ॥२५९॥
अत्रान्तरे समभ्येत्य पुनः कश्चिव्द्यजिज्ञपत् ।
देवं श्रीविक्रमादित्यं रोमाञ्चोद्भूतविग्रहम् ॥२६०॥
कृष्णशक्तिरिति ख्यातो वाहं....द्विजपुत्रकः ।
आगतः श्वशुरावासाद्भार्यामादाय तत्स्थिताम् ॥२६१॥
तुरङ्गीमधिरुह्यायमस्या याने सुहृद्वृते ।
अभक्षयन्नरं साशु मद्भार्या गूढशाकिनी ॥२६२॥
तां रक्ताक्तमहावक्रां दृष्ट्वाहं भयविह्वलः ।
देव त्वां शरणं प्राप्तः प्रमाणमधुना प्रभुः ॥२६३॥
तच्छ्रुत्वा सस्मिते राज्ञि ध्वस्तायां च तदाज्ञया ।
शाकिन्यां तत्कथामध्ये प्राह मन्त्री नरेश्वरम् ॥२६४॥
आलयः सर्वपापानां देव क्रूरतराः स्त्रियः ।
अग्निगर्भाभिधस्यासीत्प्रिया भार्या द्विजन्मनः ॥२६५॥
सा चौररागिणी शूले चौरमुल्लम्बिनं पुरा ।
स्नेहदुःखस्मरावेशादालिलिङ्ग चुचुम्ब च ॥२६६॥
तदा प्रविष्टो वेतालस्तस्याश्चिच्छेद नासिकाम् ।
छिन्ननासा च सा गत्वा पत्युर्वस्त्रान्तमग्रहीत् ॥२६७॥
अनेन निगृहेताहमपापेत्यार्तराविणी ।
पित्रा मात्रा च सा सार्धं गत्वा राज्ञे न्यवेदयत् ॥२६८॥
राज्ञादिष्टेऽथ तद्भर्तुर्निग्रहे रभसं स्थितः ।
तद्वृत्तं दिव्यपुरुषः कथयित्वा ररक्ष तम् ।
इति पापाः स्त्रियो देव भवन्ति कलुषाशयाः ॥२६९॥
इत्युक्ते तेन भूपालं मूलदेवोऽप्यभाषत ।
पापा नैकान्ततो देव सन्ति साध्व्योऽपि योषितः ॥२७०॥
मत्प्रसिद्धिं समाकर्ण्य धूर्तैर्लभ्यास्मि नो बलात् ।
इत्युद्वाहविधौ बद्धनियमां शङ्कितां सदा ॥२७१॥
पुरा धूर्तः प्रसिद्धोऽहं युक्त्या धूर्तैरनिर्जिताम् ।
अवापं विप्रतनयां विवाहे छन्नवेषभृत् ॥२७२॥
ततस्तां विहितोद्वाहामवदं प्राज्ञमानिनीम् ।
हा वञ्चितासि गच्छामि स्वतिते(?) विजितं मया ॥२७३॥
इति ब्रुवाणं मां प्राह प्रस्थितं सा स्मितव्रता ।
गच्छ मत्सूनुना बद्धो न चिरात्त्वं भविष्यसि ॥२७४॥
इति प्रतिज्ञां श्रुत्वाहं तस्या यातो निजां पुरीम् ।
यति काले कदाचित्सा छन्ना तामाययौ पुरीम् ॥२७५॥
तस्यौ च तत्र गणिकामिषेणालक्षिता क्षितौ ।
कामुकान्साथ संप्राप्तान्धियैव विमुखान्व्यधात् ॥२७६॥
पूर्वे यामे स्नानविधिं द्वितीये भोजनक्रम म् ।
तृतीये मण्डनारम्भं चतुर्थे तु कथान्तरम् ॥२७७॥
निजैः परिजनैः कृत्वा कामिनामिति वञ्चनाम् ।
शीलसंरक्षणपरा तस्थौ मत्संगमाशया ॥२७८॥
नवां वाराङ्गनां प्राप्तां श्रुत्वाहं तामशङ्कितः ।
प्रविष्टः कामुको भूत्व अतद्गृहं स्मरमोहितः ॥२७९॥
सा मां प्रौढं परिज्ञाय संगमं विदधे मया ।
मत्तश्च गर्भं संप्राप्य प्रच्छन्ना स्वपुरं ययौ ॥२८०॥
सासूताथ सुतं काले संप्रवृद्धिं कलानिधिम् ।
मातुर्गृहात्समभ्येत्य मां द्यूतैः सोऽजयत्कृती ॥२८१॥
स हारितानेकधनं बध्वा मां मातुरन्तिकम् ।
निनाय सा च मां प्राह सा निजानां स्वसंगम म् ॥२८२॥
तीर्णा मया प्रतिज्ञासौ प्रमाणमधुना भवान् ।
इति ब्रुवाणां तां कान्तामभजं सत्यवादिनीम् ॥२८३॥
इत्येवं सत्यशालिन्यो देव सन्ति पतिव्रताः ।
मोलदेवो निगद्येति प्रणम्य प्रययौ नृपम् ॥२८४॥
अथ श्रीविक्रमादित्यो हेलया निर्जिताखिलः ।
म्लेच्छान्काम्बोजयवनान्नीचान्हूणान्सबर्बरान् ॥२८५॥
तुशारान्पारसीकांश्च त्यक्ताचारान्विश्रृङ्खलान् ।
हत्वा भ्रूभङ्गमात्रेण भुवो भारमवारयत् ॥२८६॥
इत्येवं सत्यसंपन्नाः प्राप्नुवन्ति समीहितम् ।
नरवाहन कान्तां तामवाप्स्यसि धृतिं श्रियः ॥२८७॥
इति निशम्य कथां स मुनेर्वचः प्रियतमाविरहानलतापितः ।
वनमहीषु चचार निजां पुरीमनुसरञ्शनकैर्नरवाहनः ॥२८८॥

इति क्षेमेन्द्रविरचितायां बृहत्कथायां विषमशीलनामा दशमो लम्बकः समाप्तः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T21:06:11.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

feature

  • न. लक्षण 
  • न. (characteristic) लक्षण 
  • न. (a prominent trait) वैशिष्ट्य 
  • घटकगुण 
More meanings
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site