राजपुत्रीद्वयलाभः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अत्रान्तरे दिनारम्भे कन्यायुगमदृश्यत ।
रूपयौवनलावण्यविलासकुलमन्दिरम् ॥१९३॥
ततस्तदनुगाः पृष्टा मया कौतुकशालिना ।
ऊचुः कटाहद्वीपेशसुतेयं कमलेक्षणा ॥१९४॥
सप्तद्वीपपतेर्भार्या भाविनी भुवि विश्रुता ।
अस्याश्च मातुलसुता द्वितीयेयं मृगेक्षणा ॥१९५॥
गुरुभ्यां प्रहिते चैते विक्रमादित्यभूभुजे ।
अब्धौ भग्ने प्रवहणे निगीर्णे जलचारिणा ॥१९६॥
विधातुरानुकूल्याच्च मुक्ते धीवरदारितात् ।
मत्स्यादयं स देवः श्रीविक्रमादित्य एव किम् ॥१९७॥
इत्युक्तस्तत्परिजनैरहं तानवदत्तदा ।
अयमेव स भूपालः श्रीमान्कमललोचनः ।
यत्कृते यूयमायाता राजकन्यायुगानुगाः ॥१९८॥
इति मन्द्वचनं श्रुत्वा ते प्रणम्य महीभुजे ।
ददुर्विषमशीलाय हृष्टा राजसुताद्वयम् ॥१९९॥
इति राजपुत्रीद्वयलाभः ॥७॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP