TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

टेण्टाकरालाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


टेण्टाकरालाख्यायिका
गौर्या द्यूतजिता नीता कर्णे केतकिपत्त्रताम् ।
शांभवी वः शशिकला भूयादानन्दसंपदे ॥१॥
ततः श्रिया वियोगाग्निसंतापिततनुर्वने ।
भ्राम्यन्कण्वमुनेः प्रायादाश्रमं नरवाहनः ॥२॥
मनःप्रसादजनने प्रशान्ताशेषविप्लवे ।
विवेक इव संतोषफले तस्मिंस्तपोवने ॥३॥
प्रणम्य तेजसां राशिं सहस्रांशुमिवापरम् ।  
कण्वं दिव्यदृशा तेन तस्य चोपासितः क्षणम् ॥४॥
तं मुनीन्द्रस्ततः प्राह द्रुहिणस्पर्धया पुनः ।
कुर्वन्विमानं हंसालीमिव दन्तांशुसंचयैः ॥५॥
राजसूनो श्रय धृतिं वल्लभां तामवाप्स्यसि ।
संयोगान्ता भवन्त्येव वियोगाः पुण्यकर्मणाम् ॥६॥
विधातुरानुकूल्येन प्राप्यन्ते हारिता अपि ।
वने धनसुहृद्बन्धुदयिताराजसंपदः ॥७॥
पुरा कैलासशिखरासीनः शीतांशुशेखर ।
समभ्येत्य जितैर्देवैः शतक्रतुपुरोगमैः ॥८॥
पुरारिनिहितैर्देवदृप्तैर्दितिजदस्युभिः ।
अवतीर्णैर्महाम्लेच्छैः स्वस्था देवास्तृणीकृताः ॥९॥
प्रमाणमत्र भगवानिति देवगिरा हरः ।
भूभारशान्त्यै प्रथमं माल्यवन्तं समादिशत् ॥१०॥
सोऽथ त्रिनयनादिष्टः पार्वतीवचसा क्षितौ ।
उज्जयिन्या नरपतेः श्रीमतः प्राप पुत्रताम् ॥११॥
राज्ञो महेन्द्रादित्यस्य स्वप्ने शर्वेण सूचितः ।
सोऽभवद्विक्रमादित्यस्तनयो यशसां निधिः ॥१२॥
नाम्ना विषमशीलोऽसौ द्वितीयेनापि विश्रुतः ।
सर्वशास्त्रास्त्रविद्यानां लेभे भाजनतां विभुः ॥१३॥
तस्मै महीपतिर्दत्त्वा श्रियं भूपतिविश्रुताम् ।
ययौ वाराणसीं धीमान्कृतकृत्यः स्त्रिया सह ॥१४॥
राजा विषमशीलोऽथ जनके प्रशमं श्रिते ।
शशास वसुधां धन्वी म्लेच्छोच्छादनदीक्षितः ॥१५॥
कुलक्रमागतस्तस्य बभूव विपुलाशयः ।
रुद्रायुधः प्रतीहारः सचिवश्च महामतिः ॥१६॥
स कदाचिद्गजघटामौलिलालितशासनः ।
समानीतः समभ्येत्य विज्ञप्तो मन्त्रिणा पुरः ॥१७॥
योऽसावनङ्गदेवाख्यो विसृष्टो दक्षिणापथम् ।
देवेन सोऽयमायातः स्वामिनं द्रष्टुमिच्छति ॥१८॥
इत्युक्त्वा नृपतेराज्ञां प्राप्य रूपमवेशयत् ।
स द्वितीयं ततो दूतं हर्षविस्फारिलोचनम् ॥१९॥
स प्रणम्य महीपालं हेमसिंहासनस्थितम् ।
सुमेरुचूडामणितां प्रयातमिव भास्करम् ॥२०॥
विजिज्ञपदीक्षमाणः कौतुकाद्वसुधाधिपम् ।
किमयं वक्ष्यतीत्यन्तरुत्कण्ठाङ्कुरिताशयः ॥२१॥
देव दक्षिणदिग्भूपैर्युष्मच्छासनमालिका ।
किरीटकोटौ विक्षिप्ता लक्ष्मीरक्षामहौषधिः ॥२२॥
क्रमेणाम्बुधिमुत्तीर्य यातोऽहं सिंहलेश्वरम् ।
वीरसेनं भवद्भक्तिशीलं कुलगृहं श्रियः ॥२३॥
स मां त्वच्छासनं मूर्ध्नि निधायोत्फुल्ललोचनः ।
प्राहास्ति मम सर्वस्वं कन्यारत्नमनुत्तम म् ॥२४॥
विक्रमादित्यदेवश्च रत्नानां भाजनं विभुः ।
समर्पितेयं वचसा मया तस्मै सुमध्यमा ॥२५॥
इत्युक्त्वा स सुतां राजा हरिणाक्षीमदर्शयत् ।
कान्तां विनयवत्याख्यामुपाख्यानं रतिश्रियः ॥२६॥
कन्या नवसुधाधूतलावण्यवसुधां ततः ।
तामहं त्वत्समुचितां दृष्ट्वा जातोऽतिविस्मितः ॥२७॥
तद्विवाहाहितोद्योगः सिंहलाधिपतिस्ततः ।
भवते प्राहिणोद्दूतं मयि न्यस्तं महामतिः ॥२८॥
दूतेन सहितः क्षिप्रमहमारुह्य वारिधौ ।
वाहनं तीरनिकटे प्रागपश्यं द्विधागतम् ॥२९॥
दोर्भ्यां दैवात्समुत्तीर्य सागरं च तटस्थितः ।
अपश्यं ललनां देव धनुषीं चित्तजन्मनः ॥३०॥
हेमरत्नविचित्राङ्गः सारङ्गस्तत्पुरो मया ।
दृष्टश्चिरादविज्ञातो मारीचहरिणः पुनः ॥३१॥
ताभ्यां कृतकरालम्बो नीतः कामप्यहं भुवम् ।
दूतेन सहितस्तेन दिव्योद्याने विभूषिता ॥३२॥
तत्र दिव्यसरस्तीरे हरार्चनरता मया ।
दृष्टा वरवधूः कामा कन्या तरुणमञ्जरी ॥३३॥
सागरासलिलोद्भूतं पूजयित्वा महेश्वरम् ।
दासीसहस्रानुगता सुन्दरी गन्तुमुद्ययौ ॥३४॥
तस्यां गतायां तद्दास्यः केयमित्यतिकौतुकात् ।
मया यौवनदर्पान्धाः पृष्टा नो किंचिदूचिरे ॥३५॥
अभीष्टदेवताद्रोहे मुहुस्ताः शापिता अपि ।
अवधीर्येव सावज्ञाद्विशालाः प्रययुः शनैः ॥३६॥
ततः श्रीविक्रमादित्यपादाब्जादथ शापिताः ।
झटित्येवाप्तकम्पास्ता निवृत्ता गतिविभ्रमात् ॥३७॥
अथ प्रह्वाः समभ्येत्य कीर्तितं त्वां प्रणम्य सा ।
हृष्टा वराङ्गना प्राह मां स्तनाग्रकृताञ्जलिः ॥३८॥
सत्यं श्रीविक्रमादित्यो जयति त्रिजगज्जयी ।
यत्प्रसादादहं मुक्ता तस्मादपि महाभयात् ॥३९॥
श्रुत्वेत्यहं तामपृच्छं कौतुकाविष्टमानसः ।
कथं मस्वामिना भद्रे रक्षितासीति सादरम् ॥४०॥
सावदच्छृणु सर्वाशा योषा त्रिदशशाखिनाम् ।
यथा विशमशीलेन रक्षितास्मीति सादरम् ॥४१॥
अस्ति वैश्रवणभ्राता माणिभद्र इति श्रुतः ।
तस्याहं वल्लभा भार्या यक्षी मदनमञ्जरी ॥४२॥
तेनाहं सह कान्तेन कदाचित्केलिलालिता ।
रममाणा महीं भ्रान्त्वा विविधोद्यानमालिनी ॥४३॥
अथोज्जयिन्यं पुःपुः(?) किलासोपवने वने ।
प्रियेणालिङ्गिता गाढं सुप्ताहं मदविह्वला ॥४४॥
अदूरवर्तिना स्वैरं तत्स्मशाननिवासिना ।
खण्डकापालिकाख्येन दृष्टा कङ्कणमालिता ॥४५॥
मां दृष्ट्वा मन्त्रसिद्धोऽपि स निश्चेष्ट इवाभवत् ।
वृद्धोऽप्यत्यन्तवृद्धेन मन्मथेन विनिर्जितः ॥४६॥
तथा विषविपाकेषु विषयेष्वथ चेतसः ।
अपथ्येष्वातुरस्येव नाभिलाषः प्रशाम्यति ॥४७॥
ततो मयि प्रयातायां भर्त्रा सह निजां पुरीम् ।
खण्डकापालिकश्चक्रे मदर्थं मन्त्रसाधनम् ॥४८॥
तस्याप्रतिहतैर्मन्त्रैरहं सत्रासकम्पिता ।
कृष्यमाणा भुजङ्गीव भर्तारं शरणं गता ॥४९॥
सोऽप्यशक्तः परित्रातुं मां विषण्णमुखाम्बुजाम् ।
न्यवेदयत्कुबेराय कापालिकविचेष्टितम् ।
न्यवेदयत्कुबेराय कापालिकविचेष्टितम् ॥५०॥
ततोऽब्रवीद्वेश्रवणो नाहं तद्वारणे क्षमः ।
किमसाध्यं स्फुरद्धाम्नां मन्त्राणां वीर्यशालिनाम् ॥५१॥
धनदेनापि संत्यक्तो मद्भर्ता शरणं ययौ ।
ब्रह्माणं सोऽपि तं प्राह दुर्जयोऽयं महाब्रवीत् ॥५२॥
किं तु श्रीविक्रमादित्यः समर्थस्तद्विनाशने ।
भयकाले भवद्भार्या तमाक्रन्दतु भूमिपम् ॥५३॥
इति प्रजापतिवचः श्रुत्वा प्राप्ते स्वमन्दिरम् ।
माणिभद्रे ततस्तेन कृष्टाहं व्रतिना निशि ॥५४॥
मन्त्रशक्तिसमाहूता श्मशानं प्राप्य भीषणम् ।
खण्डकापालिकं घोरमपश्यं कृतमण्डलम् ॥५५॥
प्रेतचक्रमहाकुण्डे क्षिपन्तं सर्षपाहुतीः ।
तं दृष्ट्वा ककुभः सर्वा ज्वालालोला व्यलोकयम् ॥५६॥
शफरी जालबद्धेव तत्राहं तद्भयाकुला ।
अभवं बान्धवत्यक्ता कम्पातङ्कतरङ्गिता ॥५७॥
देव श्रीविक्रमादित्य राजन्विषमशील माम् ।
त्रायस्वाशरणां बालामिति भारं ततोऽभ्यधाम् ॥५८॥
अस्मिन्नवसरे सोऽपि वीरचर्याविनिर्गतः ।
विलोककुण्डलः खङ्गी राजा राजीवलोचनः ॥५९॥
उत्साह इव साकारः प्रत्यक्ष इव विक्रमः ।
गम्भीरमधुरोदारदृशा निर्वापयन्निव ॥६०॥
मां समाश्वास्य दलयंस्तमो दन्तांशुसंचयैः ।
आदिदेशाशु पुरतो वेतालं तद्विनिग्रहे ॥६१॥
स तेनाग्निशिखाख्येन वेतालेनाशु घट्टितः ।
खण्डकापालिकः प्राणांस्तत्याज व्याजबाधकः ॥६२॥
राजधानीं गते राज्ञि भूतवेतालमण्डली ।
खण्डकापालिकं भोक्तुमाययौ हठनिर्भया ॥६३॥
ततो यमशिखो न आम वेतालो नेतुमुद्ययौ ।
तत्सर्वं तत्प्रकोपाच्च तारमग्निशिखोऽवदत् ॥६४॥
मा मा त्वमेक एवैनं नय दुर्नयभाजनम् ।
विक्रमादित्यपादाब्जैः शापितोऽसि मया सखे ॥६५॥
श्रुत्वेति स्थगितः सोऽथ प्रभावं पृथिवीपतेः ।
पप्रच्छाग्निशिखं तस्य कौतुकाकुलिताशयः ॥६६॥
सोऽवदड्डाकिनीकाख्यो निशीथे द्यूतकृत्पुरा ।
विक्रीणानो महामांसं श्मशानमिममागतः ॥६७॥
तन्मह्यमर्थानसो(?)थ ददौ निष्कम्पमानसः ।
रूपं बलं च सप्ताहं गृहीत्वा मम संविदा ॥६८॥
तत्कारणं मया पृष्टः सोऽवदत्कितवाग्रणीः ।
अस्म्यहं विजितो धूर्तैर्धूसराङ्गो दिगम्बरः ॥६९॥
देहीति वादिनां मध्ये वेद्यो द्यूतकृतामहम् ।
शिलीभूतः स्थितो मूको योगीवानिमिषेक्षणः ॥७०॥
उल्लुण्ठितश्मश्रुकेशस्तैर्लताभिः समाहतः ।
लवणेनाम्बुना सिक्तस्तैर्मित्रैः पूर्वसेवितैः ॥७१॥
बहूपवासनिःश्पन्दः क्षिप्तः कूपे बलादहम् ।
नरकायासदुःखानामिव संजातमन्दिरे ॥७२॥
तत्र दृष्टौ मया घोरविग्रहौ ब्रह्मराक्षसौ ।
तावूचतुर्मामालोक्य मद्वृत्तान्तं निशम्य च ॥७३॥
आवाभ्यां वणिजः पूर्वं स्वमन्त्रेण प्रिये सुते ।
तुल्यं गृहीते निर्भुग्नमन्त्रौषधिबलक्रमे ॥७४॥
ततो विषमशीलस्य दृशैव पृथिवीपतेः ।
पतिताबन्धकूपेऽस्मिन्नावां संत्यक्तकन्यकौ ॥७५॥
संवत्सरोऽवधिस्तेन निर्दिष्टो नौ गतश्च सः ।
सप्ताहशेषस्तस्मात्त्वमस्मद्भोजनमानय ।
दत्ते सप्ताहमावाभ्यां भोजने मोक्ष्यसे भयात् ॥७६॥
श्रुत्वेति प्रतिपन्नं मां क्षुद्विनाशो मुदान्वितम् ।
तस्मादुज्जहतुः कूपात्ततोऽहं त्वामुपस्थिथ ॥७७॥
त्वद्रूपत्वद्बलेनैव ताभ्यां भोजनमीप्सितम् ।
दत्त्वाभ्येत्य प्रदास्यामि बलं रूपं च ते निजम् ॥७८॥
इत्युक्त्वा मद्बलाकारो गत्वा राक्षसयोर्ददौ ।
स्वयूथ्यानेव कितवान्सप्ताहं तूर्णभोजनम् ॥७९॥
तद्दत्वा स समभ्येत्य प्रादाद्रूपं बलं च मे ।
पुनश्च याचिस्ताभ्यां भोजनं तर्जनक्रमैः ।
प्रतार्य मं कतुकिनं नीत्वा कूपे ततोऽक्षिपत् ॥८०॥
राक्षसाभ्यामहं तत्र गृहीतो भुजपञ्जरे ।
अकार्शं सुचिरं युद्धं कम्पिताखिलभूतलम् ॥८१॥
ततोऽहं तौ ददौ युद्धश्रमाद्विश्रान्तविग्रहः ।
कथयित्वा निजं वृत्तं स्थितो लज्जानतः क्षणम् ॥८२॥
अथाब्रवीत्स्मितमुखस्तत्रैको ब्रह्मराक्षसः ।
अहो नु द्यूतकारेण मायया वञ्चिता वयम् ॥८३॥
एवंविधा भवन्त्येव कितवाः साहसव्रताः ।
टेण्टाकरालवृत्तान्तमत्रैव कथयाम्यहम् ॥८४॥
अभूट्टेण्टाकरालाख्यो द्यूतकृद्वञ्चनावधिः ।
सदा महाकालगृहे रजन्यां स स्वयं किल ॥८५॥
तत्र दीपघृताभ्यक्तैरपूपैः कृतभोजनः ।
महाकालानुगान्प्राह प्रतिमादीपसंस्थितान् ॥८६॥
अस्यां दीर्घत्रियामायां द्यूतक्रीडा स्वमायया ।
इत्युक्त्वा पञ्च चिक्षेप पुनश्चित्रा वराटिकाः ॥८७॥
ताभिः स्वकल्पनावाग्भिर्जितो यक्ष इति क्षणात् ।
प्राह हेमसहस्रं च निर्बन्धात्तमयाचत ॥८८॥
निरुत्तरं समालोक्य कूपे त्वां प्रक्षिपाम्यहम् ।
इत्युक्त्वा भयसंत्रस्तः सुवर्णं तमदापयत् ॥८९॥
ततः क्रमेण तेनैव त्रासयन्सततं गिरः ।
प्रतिमागणवेतालानजयत्काञ्चनप्रदान् ॥९०॥
ततः कदाचिद्भगवान्महाकालस्तमब्रवीत् ।
पुत्र तुष्टोऽस्मि ते वीर व्रतेनानेन धीमताम् ॥९१॥
गच्छैतत्सरसस्तीर्थमत्र त्रिदशयोषितः ।
क्रीडन्ति स्नातुमायातास्ताभ्यः कन्यामवाप्नुहि ॥९२॥
इति शर्वाज्ञया गत्वा दृष्टास्तास्त्रिदशाङ्गनाः ।
जहार तासां वासांसि तास्तस्मै तां सुतां ददुः ॥९३॥
कन्यां कलावतीं नाम प्राप्य तां स्वर्गसुन्दरीम् ।
न््द मदनोदारः स शंकरवरोर्जितः ॥९४॥
पुरा पुरंदरास्थाने स अचक्रे मानुषस्थितिम् ।
तेनाभवच्छक्रशापात्सुन्दरी मर्त्यसङ्गिनी ॥९५॥
कदाचिदथ सा स्वर्गनृत्ते कौतुकिनं प्रियम् ।
तं निनाय सनिर्बन्धं कृत्वा कर्णोत्पलायिताम् ॥९६॥
स तत्र रम्भां नृत्यन्तीं ददर्शायतलोचनाम् ।
गन्धर्वगीतानुगतां कलाताललयोर्जिताम् ॥९७॥
ततो हास्यय नृत्यन्तं छागं सुरपतेः पुरः ।
अपश्यद्विपुलाकारमीश्वरा हि स्मितप्रियाः ॥९८॥
गन्धर्वं मुनिशापेन तं दृष्ट्वा छागविग्रहम् ।
अयं स मर्त्यश्चरतीत्यभवत्तस्य चेतसि ॥९९॥
बहुकौतुकमालोक्य स्वर्गाद्भोगभुवं गतम् ।
टेण्टाकरालो दयितां शक्तो मेने ततोऽधिकम् ॥१००॥
तस्तमेव रोमन्थदलकूर्चमनं पुनः ।
आपणाग्रे सुखासीनमुज्जयिन्यां ददर्श सः ॥१०१॥
टेण्टाकरालस्तं दृष्ट्वा प्राह दर्शय मां सखे ।
इत्युक्त्वा सावलेपं तं प्रत्याख्यानरुषा ततः ।
जघान लगुडेनाजं येन सोऽभूत्सशोणितः ॥१०३॥
अथ शक्रपुरं गत्वा सुर्न्द्राय न्यवेदयत् ।
द्यूतकारिनिकारं तं छागलः कोपकम्पितः ॥१०४॥
शापान्तमुक्त्वा मुक्तेऽथ छागे गन्धर्वतां गते ।
इन्द्रः कलावतीं प्राह धिक्त्वां दुर्नयकारिणीम् ॥१०५॥
आनीतो दुर्विनीतोऽसौ त्रिदिवं मानुषस्त्वया ।
तस्मादनल्पकं कालं योषा दारुमयी भव ॥१०६॥
नरासिंहाभिधानेन राज्ञा नागपुरे कृते ।
सुरालये तत्र भित्तौ पुत्रिका त्वं भविष्यसि ॥१०७॥
तस्मिन्कालेन निःशेषं गते देवगृहे क्षयम् ।
शापस्यान्तं समासाद्य पुनः स्वपदमेष्यसि ॥१०८॥
इति शप्ता नतमुखी दुःखिता शतमन्युना ।
टेण्टाकरालमभ्येत्य सा निजं शापमभ्यधात् ॥१०९॥
वृत्तान्तमावेद्य तस्यां वृत्तं स्वकर्मणा ।
श्रितां तां देवनिलयस्तम्भान्ते पुत्रिकाकृतिम् ॥११०॥
छागदुःखानलाक्रान्तं स निन्दन्निजसाहसम् ।
आदाय रत्ननिचयं ययौ नागपुरं जवात् ॥१११॥
कलशान्रत्रसंपूर्णान्भूमिगर्ते निधाय सः ।
तस्थौ दम्भव्रतैस्तत्र प्रसिद्धिं परमां गतः ॥११२॥
अशेषप्राणिभाषाज्ञा इति राज्ञा स पूजितः ।
अदर्शयद्रत्नपूर्णं तस्मै कलशपञ्चकम् ॥११३॥
तत्प्रत्ययात्स भूपालो मेने सर्वज्ञमेव तम् ।
महेश्वरमिवाभ्येत्य सततं प्रणनाम च ॥११४॥
कदाचिद्भूभुजा सार्धं देवायतनमेत्य सः ।
दर्शनात्साश्रुनयनां दृष्ट्वा तां दारुपुत्रिकाम् ॥११५॥
उवाच धूर्तो भूपालं शान्तं शान्तममङ्गलम् ।
इमं सुरगृहं तूर्णं कणशः क्रियतामिति ॥११६॥
तदाकर्ण्य महीपालः सामात्यस्तं ससंभ्रमः ।
पप्रच्छ भगवन्ब्रूहि किमनिष्टं त्वयेक्शितम् ॥११७॥
सोऽब्रवीद्देव नो वाच्यमेतच्छ्रुणु तथापि ते ।
आयुशा क्षितिरासन्न्ना स्थितेऽस्मिंस्ते सुरालये ॥११८॥
समुन्मूल्य क्षणेनैतद्विपुलं सुरमन्दिरम् ।
अपरं क्रियतां राजन्नित्युक्त्वा विरराम सः ॥११९॥
ततस्तद्वचनात्तूर्णं तमुत्पाट्य सुरालयम् ।
अन्यं महीपतिश्च्क्रे हेमरत्नाधिकद्युतिम् ॥१२०॥
अचिराच्छापमुक्ताथ स्वर्गं प्राप्य कलावती ।
विस्मिताय महेन्द्राय स्ववृत्तान्तं न्यवेदयत् ॥१२१॥
धिया टेण्टाकराले च शापात्तामाशु मोचिताम् ।
श्रुत्वा तुष्टस्तमानाय्य शक्रस्तस्मै ददौ श्रियम् ॥१२२॥
टेण्टाकरालचरितं प्रशंसामुखराननः ।
बृहस्पतिस्ततः प्राह विहस्य मरुतां पतिम् ॥१२३॥
एवंविधा भवन्त्येय द्यूतकाराः पदं धियः ।
कुट्टीनीकपटो नाम बभूव द्यूतकृत्पुरा ॥१२४॥
समस्तपापकोशस्य नरकक्षितिरक्षया ।
गतासोस्तस्य गणिका कालेन यमसद्मिनि ॥१२५॥
सुरार्चनाद्दिनं चैकं विदधाति च शक्रताम् ।
भेजे पृष्टोऽथ तां पूर्वं दिनमेकं सुरेन्द्रताम् ॥१२६॥
तत्र बुध्द्या विनिश्चित्य दाता शर्वार्चनव्रतः ।
स्नात्वा सर्वेषु तीर्थेशु चिरमासीत्सुरेश्वरः ॥१२७॥
इति धूर्ता भवन्त्येव द्यूतकारमहाशयाः ।
एतद्गुरोर्वचः श्रुत्वा विस्मितोऽभूत्पुरंदरः ॥१२८॥
इति टेण्टाकरालाख्यायिका ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-25T21:01:29.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झुळझुळ

  • क्रि.वि. १ झुरझुर - रां पहा . झर्‍याचा आवाज , पाण्याचें मंद वहाणें , मंद वायूचा आवाज , धुराचें वर जाणें इ० च्या आवाजाप्रमाणें . ( क्रि० वाहणें ). २ अंधुक ; अस्पष्ट ; ( दिसणारी आकृति ). झुळझुळणें - अक्रि . झुळझुळां , हळू हळू , मंदमंद वहाणें ( पाणी , वारा ). [ घ्व . झुळ . द्वि . ] 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site