कलिङ्गसेनालाभवर्णनम्

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति केसटकन्दर्पौ प्रापतुर्वल्लभौ पुरा ।
वणिक्पुत्र त्वमप्येवं ध्रुवं जायामवाप्स्यसि ॥५६॥
मयापि स्ववधूः पूर्वं प्रयाता पञ्चतामपि ।
कपोलिकेन मायेन हिंसिता मन्त्रशक्तितः ॥५७॥
हत्वा काम्पिलकं दूरात्सजीवा सा पुराहृता ।
जीवतां संगमो नाम मन्येऽहं किल जायते ॥५८॥
इत्यभ्यागतविप्रेण सुचिरं परिसान्त्वितः ।
भ्रान्त्वा महीं महीपाल त्वामहं शरणं गतः ॥५९॥
राजा विषमशीलस्तन्निशम्य वणीजो वचः ।
गजेन दत्तां तां कान्तामदात्तस्मै सुतामिव ॥६०॥
तस्मिन्भार्यां समादाय याते वणीजि भूपतिः ।
कलिङ्गसेनासंप्राप्त्यै कलिङ्गेशं समभ्ययात् ॥६१॥
ततो विजित्य समरे कलिङ्गनृपतिः विभुः ।
राजा श्रीविक्रमादित्यः स्त्रीं........प्राप..........श्रियम् ॥६२॥
इति कलिङ्गसेनालाभवर्णनम् ॥३१॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP