ब्राह्मणीसमागमकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अहं शंकरदेवस्य जाया देवि द्विजन्मनः ।
ब्राह्मणी पिङ्गला नाम दैवाद्वैधव्यामागता ॥३०॥
हृते कुलाग्रहारे मे सगोत्रैर्बलवत्तरैः ।
देवरे च विदेशस्थे चिरं शान्तिकराभिधे ॥३१॥
पुत्राविमौ समादाय यातास्मि शरणं नृपम् ।
भर्तारं तव संतप्तजनतासुरपादपम् ॥३२॥
श्रुत्वैव राजमहिषी तद्वृत्तान्तं कृपावती ।
पुरोहितं शान्तिकर तस्या विज्ञाय देवरम् ॥३३॥
संमानमधिकं चक्रे हेमरत्नाम्बरप्रदा ।
सापि तं देवरं प्राप्य भर्तृदुःखं शशंस तम् ॥३४॥
संपूजिता देवरेण राज्ञा देव्या च सादरम् ।
सा तस्थौ ब्राह्मणी तत्र बालसंवर्धनव्रता ॥३५॥
इति ब्राह्मणीसमागमकथा ॥२॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP