अहल्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अवन्तिराजतनयो देवताभ्यां ध्रुवं व्रते ।
त्वया सपद्मावत्या च धन्यो वत्सनरेश्वरः ॥१५३॥
स्वकृतैरेव सुकृतैरीदृशी प्राप्यते स्थितिः ।
शापदुःखभयक्लेशान्सहन्ते तु विपर्यये ॥१५४॥
पुरा मार्जाररूपेण प्रियां शक्रेण धर्षिताम् ।
अहल्यां गौतमो ज्ञात्वा प्रोवाच्च ज्ञानलोचनः ॥१५५॥
आश्रमे कः प्रविष्टोऽत्र श्रुत्वेति प्राह तद्वधूः ।
मार्जार इत्यपभ्रशगिरा तत्परिरागिणी ॥१५६॥
इत्युक्त्वा कुपितस्याशु तस्य शापेन वृत्रहा ।
अभूद्योनिसहस्राङ्गः शिला च मुनिकामिनी ॥१५७॥
तिलोत्तमां सहस्राक्षो दृष्ट्वाहल्या च राघवम् ।
अवाप्स्यतः शापशान्तिमित्याह मुनिपुंगवः ॥१५८॥
इत्यापदो भवन्त्येव महतामपि दुष्कृतैः ।
वसन्तकस्येति वचः श्रुत्वा देव्यौ न््दतुः ॥१५९॥
इत्यहल्याख्यायिका ॥११॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP