विहितसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अवन्तिराजतनया श्रुत्वेति नृपतेर्वचः ।
विरहे निधनं नास्मि यातेत्यासीद्विलज्जिता ॥१२४॥
वैलक्ष्याविनतां देवीं दृष्ट्वा यौगन्धरायणः ।
धीमानुवाच राजानं युक्तिज्ञः श्रूयतामिति ॥१२५॥
राजा विहितसेनाख्यः कपिलायामभूत्पुरा ।
तस्य तेजोवती नाम बभूवाभिनवा वधूः ॥१२६॥
स कदाचिज्ज्वराक्रान्तो वारितोऽपि भिषग्वरैः ।
न मुमोच प्रियां पार्श्वात्तन्मुखन्यस्तलोचनः ॥१२७॥
ततः संमन्त्र्य दुःखार्ता भिषग्भिः सह मन्त्रिणः ।
चक्रुर्मिथ्या मृतां देवीं गूढमारोग्यकाङ्क्षिणः ॥१२८॥
तया विरहितो राजा दुःखितः स्वास्थ्यमाययौ ।
मुक्तामयश्च तां प्राप स्मितमुक्तामयच्छविः ॥१२९॥
सहन्ते दुःखमित्येवं साध्व्यो भर्तृहिते रताः ।
पत्युरभ्युदयं कृत्वा जीवितालम्बनं हृदि ॥१३०॥
इति विहितसेनाख्यायिका ॥९॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP