TransLiteral Foundation

लोहजङ्घाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


लोहजङ्घाख्यायिका
द्वितीयो गुच्छः ।

कुलोचितपदं याते पार्थवंश्ये महीपतौ ।
प्रियासहायस्तत्सूनुश्चक्रे शास्त्रोदितां क्रियाम् ॥१॥
क्रमागतं समासाद्य राज्यं वत्सेश्वरस्य च ।
किरीटिरचिताश्चर्ये जनं चक्रे श्लथादरम् ॥२॥
यौगन्धरायणन्यस्तराज्यचिन्तापरोऽनयत् ।
कालं वीणाविनोदेन स मृगव्यामसेवत ॥३॥
अत्रान्तरे श्लथारम्भं तं ज्ञात्वोज्जयिनीपतिः ।
चक्रे चण्डमहासेनस्तज्जयाय ततं मनः ॥४॥
कन्या वासवदत्तेयं तद्योग्यैव सुता मम ।
निसर्गशत्रुर्नार्थो मे मानी स च न याचते ॥५॥
बहुदुर्गो महाकोशो रक्तामात्यो विशालधीः ।
उपायैर्नैव शक्योऽसौ म्रुगयाच्छद्मना विना ॥६॥
इत्येवं नृपतिर्ध्यात्वा चिरं वत्सेश्वरस्थले ।
तुष्टाव दुर्गामुद्यानं गत्वा पुष्पकरण्डकम् ॥७॥
इच्छासिद्धिवरं प्राप्य भगवत्यास्ततो नृपः ।
विविच्य धीमान्सुचिरं बुधदेवेन मन्त्रिणा ॥८॥
बध्नाति कुञ्जरान्नित्यं वीणानादहतान्वने ।
ग्राह्यः स क्रूरनागेन विधायेति धियं पुरः ॥९॥
दिदेश दूत्रं कृतकप्रनयोपायनैः सह ।
वत्सेश्वराय संदेशमप्यधाच्च दृढाशयः ॥१०॥
स्वप्रकाशश्रिया स्फारमिन्दोरिव कलानिधेः ।
मानसोल्लासिनियते प्रभूता कीर्तिकौमुदी ॥११॥
पुत्री मे कुलसर्वस्वमियं गान्धर्ववेदिनः ।
वीणायां श्रुतितत्त्वज्ञशिष्यतां तव वाञ्छति ॥१२॥
तदेह्युज्जयिनीं देव प्रणयाद्दुहितुर्मम ।
सन्तोऽर्थनासु महतां निषेधं न हि शिक्षिताः ॥१३॥
इत्युक्त्वा प्रेषितो दूतः कौशाम्बीं त्वरितो ययौ ।
तत्रोदयनमासाद्य यथादिष्टं न्यवेदयत् ॥१४॥
वीणाम वासवदत्तासौ ज्ञास्यत्यभ्येत्य मत्पुरीम् ।
शिष्यो गुरुगृहं याति न हि शिष्यगृहं गुरुः ॥१५॥
इति प्रतीपसंदेशं प्राप्य दूते गते नृपः ।
यौगन्धरायणो मन्त्री चुकोपावन्तिभूभुजे ॥१६॥
स प्राह भृकुटीधूमव्यक्तकोपाललाकुलः ।
यौगन्धरायणो वीरः संरम्भाकम्पिकुण्डलः ॥१७॥
पश्य राजपशोर्दर्पं संमोहाध्मातचेतसः ।
अस्मदाह्वानसंदेशे निष्कम्पस्य प्रगल्भता ॥१८॥
वध्वाहं सानुबन्धं तं मिथ्याप्रणयवादिनम् ।
यास्यामि कोपजलधेः पारं सेना विधीयताम् ॥१९॥
श्रुत्वेत्याह महामन्त्री राजन्सदृशमुच्यते ।
अवज्ञामन्थरा वाचो न सहन्ते मनस्विनः ॥२०॥
स्वाच्छन्द्यं सुखसक्तेन रतिपेशलतेजसा ।
देव त्वया स्वयं नीतः प्रतापो दिक्षु शीतताम् ॥२१॥
भवन्तं मृगयासक्तं विज्ञायाङ्कुरितानयम् ।
मन्येऽहं प्रतिसामन्तैः किंचिदुच्चैः कृतं शिरः ॥२२॥
प्रणयेनैव ललना विनयेनैव कीर्तयः ।
नरनाथ विनश्यन्ति कुनयेन नृपश्रियः ॥२३॥
महेन्द्रवर्मणो नप्ता जयसेनसुतो नृप ।
चण्डिवरान्महासेनः स चण्डाह्रनृपोऽभवत् ॥२४॥
राजा चण्डीमहासेनः स विजेतुं न शक्यते ।
यस्मै ददौ स्वयं देवी कृपाणं विन्ध्यवासिनी ॥२५॥
नडागिरिगिरीन्द्राभो गजेन्द्रस्तस्य विद्यते ।
मन्ये यस्य मदामोदैर्वैमुख्यं यान्ति दिग्द्विपाः ॥२६॥
मृगयानिर्गतो हत्वा स दैत्यं क्रोडरूपिणम् ।
अङ्गारकाख्यं पाताले ततः प्राप तदात्मजाम् ॥२७॥
तामङ्गारवतीं प्राप्य रूपलावण्यशालिनीम् ।
गोपालपालकौ पुत्रौ तस्यां प्राप सुतां तथा ॥२८॥
पुत्री वासवदत्ताख्या स्वप्ने वासवसूचिता ।
श्रूयते तनयो भावी यस्या विद्याधरेश्वरः ॥२९॥
यौगन्धरायणस्येति श्रुत्वा राजसुतां नृपः ।
प्रदध्यौ मनसा हृष्टः स्मरो हि ज्ञानलोचनः ॥३०॥
अत्रान्तरे प्रतिवचो दूतादाकर्ण्य निःस्पृहम् ।
ध्यायंश्चण्डमहासेनः किमपि व्याकुलोऽभवत् ॥३१॥
व्याधैरम्भःकृतपदं कृत्वा मन्त्रं महागजम् ।
विन्ध्याटव्यां ससर्जाशु सशैलमिव जङ्गम म् ॥३२॥
तं विलासालसगतं विलोलश्रवणाननम् ।
व्याधैः सुरगजाकारं विवेदोदयनो नृपः ॥३३॥
दृष्ट्वा तं तुरगप्रायं सैन्यं कृत्वाटवीमुखे ।
गजेन्द्रबन्धकुशलो विवेशैको महद्वनम् ॥३४॥
तत्रापश्यन्महानागमहंकारमिवोन्नतम् ।
संसारमिव निःसारमैश्वर्यमिव चञ्चलम् ॥३५॥
अशीलमिव दुःखान्तं कुमन्त्रमिव निष्फलम् ।
स्त्रीचित्तमिव दुर्लक्श्यमज्ञानमिव मोहदम् ॥३६॥
अधर्ममिव मायाढ्यं मनोरथमिवायतम् ।
वेश्यारागमिवासत्त्यमनङ्गमिव हारिणम् ॥३७॥
दुर्बुद्धिमिव दुःसाध्यं निरङ्कुशमिवेश्वरम् ।
परद्रोहमिवाभद्रमदानं लोभसंनिभम् ॥३८॥
कूटकुञ्जरमालोक्य वीणामधुरगीतिभिः ।
स जिघृक्षुर्मुधा तस्थौ सेवाभिरिव दुर्जनम् ॥३९॥
क्क यन्त्रकृत्रिमो हस्ती वीणया क्क च तद्गहः ।
प्रायेण व्यसनासक्तिर्मोहाय महतामपि ॥४०॥
तस्मिन्घोषवतीव्यग्रे योधाः कुञ्जरनिर्गताः ।
अभ्याययुः सुसंरब्धाः सहसा तं जिघृक्षवः ॥४१॥
स तानशङ्कितो दृष्ट्वा धैर्यनिष्कम्पमानसः ।
मण्डलोत्तालचरणो जघान सुभटान्रणे ॥४२॥
हतशेषैः सहाभ्येत्य महाकालवरोर्जितः ।
एको वीरवरः पश्चाज्जग्राह छद्मना नृपम् ॥४३॥
तच्छ्रुत्वा स्वयमेत्याह पुनरुज्जयिनीपतिः ।
वत्सेश्वरं समासाद्य स विवेश निजां पुरिम् ॥४४॥
पौरैरभ्यर्थितोऽभ्येत्य स क्रूरविजयी नृपः ।
लज्जया मार्दवं प्राप विरराम च तद्वधात् ॥४५॥
ततः प्रणम्य वत्सेशं सह पौरैर्व्यजिज्ञपत् ।
मान्योऽसि मम राजेन्द्र न हि मे किल्बिषं त्वयि ॥४६॥
इत्युक्त्वा तनयामस्मै न्यवेदयदमन्दधीः ।
वीणागेयकलाज्ञाने शिष्येयं भवतामिति ॥४७॥
तां ददर्श ततो राजा नीलनीरजलोचनाम् ।
श्रृङ्गारमारुताधूतस्मराब्धेर्लहरीमिव ॥४८॥
भ्रूलतावीचिरचनां हारडिण्डीरपाण्डुराम् ।
छद्मग्रहां च मानाग्निनिर्वापननदीमिव ॥४९॥
दधतीं त्रिवलीकान्तिवर्णालीलोमवल्लरीम् ।
हारहंससमुत्सृष्टां सेवाललतिकामिव ॥५०॥
शोणाधरां ससिन्दूरकुचकुम्भाभिरागिणीम् ।
सितांशुचामरोदारां कन्दर्पकरिणीमिव ॥५१॥
विलोक्य राजतनयां स कम्पतरलोऽभवत् ।
कान्तिकल्लोलिनीकूले शशाङ्क इव बिम्बितः ॥५२॥
राजपुत्री तमालोक्य लज्जानतमुखी बभौ ।
मेखलारत्नकिरणैर्धृतेवोर्ध्वविकाशिभिः ॥५३॥
स्वेदवारिपरामृष्टकपोलगुरुपत्त्रिका ।
चकम्पे करुणार्द्रेण साहतेव मनोभुवा ॥५४॥
प्रेमप्रणयशालिन्या सेव्यामानस्तया नृपः ।
राज्यस्थितिं विसस्मार सुधयेवामरीकृतः ॥५५॥
श्रुत्युत्कर्षापकर्षेण स्वरैः स्थाननिपातिभिः ।
मूर्च्छनाव्यञ्जनोदारतालच्छिन्नायतिक्रमैः ॥५६॥
निर्विशेषं प्रियतमा ततस्तरललोचना ।
प्रावीण्यं प्राप वीणायामवन्तीनृपतेः सुता ॥५७॥
अत्रान्तरे तथाभूतं कृत्वा वत्सनरेश्वरम् ।
संमन्त्र्य सेनापतिना सह पौरैश्च दुःखितः ॥५८॥
यौगन्धरायणो धीमान्निर्ययौ योगकोविदः ।  
विपद्वल्लीकुठारो हि सत्सहायसमागमः ॥५९॥
व्रजन्विन्ध्याटवीं प्राप्य त्वरितस्तरुमालिनीम् ।
प्लवत्कपिकुलालोलवासहिन्तालपल्लवाम् ॥६०॥
शल्लकीकवलोद्गारिकरकुञ्जरसंकुलाम् ।
जृम्भमाणमहासिंहदंष्ट्रांशुवलयोज्ज्वलाम् ॥६१॥
तामतीत्याचलोपान्ते पल्लीपतिमुदारधीः ।
पुलिन्दकाभिधं प्राप वसन्तकसखः पथि ॥६२॥
सुहृदं वत्सराजस्य तं सर्वशबरेश्वरम् ।
सहायः कार्यशेषे त्वमित्यामन्त्र्य ययौ रहः ॥६३॥
दिनैर्दशभिरासाद्य योगेनोज्जयिनीं ततः ।
महाभयं महाकालस्मशानमवसन्निशि ॥६४॥
कपालशकलाकीर्णं चटत्कारचितानलम् ।
वेतालोत्तालकङ्कालकेशिकोलाहलाकुलम् ॥६५॥
तत्र योगेश्वराख्येन मित्रतां ब्रह्मरक्षसा ।
प्राप्य रूपपरावृत्तिं योगं लेभे महामतिः ॥६६॥
क्षणाद्बभूव खल्वाटः पञ्चचूडो महाहनुः ।
लम्बोदरस्तनुग्रीवः ककुदी जरसार्दितः ॥६७॥
वसन्तः सोऽपि तेनैव नीतः क्षिप्रं विरूपताम् ।
बभूव विकटाकारो हस्त्यायतनमात्मनः ॥६८॥
यौगन्धरायणः प्राप्य राजमार्गं स्खलद्गतिः ।
गायन्हसन्पठन्धावन्नृत्यञ्जनमहासयन् ॥६९॥
सवालकरतालाङ्ककेलीकलकलाकुलः ।
कन्यकान्तःपुरोपान्ते नितान्तोन्मत्तकोऽभवत् ॥७०॥
कौतुकात्तत्र नारीभिर्नीतो गान्धर्वशालिकाम् ।
कन्यागुरुं ददर्शाथ नृपं पुनरिवार्जुनम् ॥७१॥
सुसंयतं समालोक्य रुरोद विगतज्वरम् ।
रहो युक्तं समाभाष्य योगेनान्तर्हितोऽभवत् ॥७२॥
वत्सेश्वरोऽपि संप्राप्य योगं यौगन्धरायणात् ।
ददर्श मन्त्रसंकेतविपरीतं वसन्तकम् ॥७३॥
तेन मन्त्रिविदग्धेन रञ्जिता राजकन्यका ।
जहर्ष श्रीयुताः सत्यं विपरीतेषु सादराः ॥७४॥
धुर्यः कथाविदामस्मि ब्रुवाणमिति तां कथाम् ।
पप्रच्छ राजतनयापृष्टोऽथाह वसन्तकः ॥७५॥
मथुरेत्यस्ति नगरी यदग्रे न गरीयसी ।
सापि शक्रपुरीरम्या रुक्मिणीव हरिप्रिया ॥७६॥
पौरकीर्तिसुधाधौतरत्नभ्राजिष्णुमन्दिरे ।
श्वेतद्वीपधिया यत्र साक्षात्संनिहितो हरिः ॥७७॥
बभूव रूपिणी नाम तत्र वारविलासिनी ।
वशीकरणचूर्णेन निर्मितेव मनोभुवा ॥७८॥
सुरालयगतापश्यत्सा कदाचिन्मनोरम म् ।
द्विजं साङ्गमिवानङ्गं साकारमिव यौवनम् ॥७९॥
दृष्टकामुकलोकापि तं विलोक्य जहर्ष सा ।
करोति कं न वशगं साभिलाषं प्रियो जनः ॥८०॥
ततस्तं लोहजङ्घाख्यं भूत्वा प्रसभमर्थिनम् ।
निजं निनाय सा गेहं रत्नांशुकपिशोदरम् ॥८१॥
तेन वालकुरङ्गाक्षी रममाणा घनस्तनी ।
ललामरुचिरं तत्र निषिद्धाशेषकामुका ॥८२॥
ततो मकरदंष्ट्राख्या जननी हरिणीदृशः ।
अनेककामुकच्छिन्ननासा श्रवणभीषणा ॥८३॥
सदा कलहनिर्लूननिःशेषकचसंचया ।
अतीतकामुकव्रातकेशाघातव्रणान्तिका ॥८४॥
भयदा कालरात्रीव वज्रधारेव कुट्टिनी ।
घोरा चिताग्निमालेव कङ्कालीव नराशिनी ॥८५॥
विलोक्य निर्धनं पुत्र्या वल्लभं शुचिरस्थितम् ।
कपालमांसरसिका राक्षसी साऽब्रवीत्सुताम् ॥८६॥
अहो विभूतिरहितं पुत्रि गेहं न राजते ।
शुष्कवीथीव वेश्या हि पूर्यन्ते लोकयात्रया ॥८७॥
पत्युर्दारिद्र्यसाहाय्यं सतीनामेव शोभते ।
अस्माकं तु धनव्रातैः सदा नवनवोत्सवः ॥८८॥
अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः ।
वेशयोषाश्च रागिण्यो हास्यायतनमङ्गने ॥८९॥
इदं हि यौवनं बाले तरङ्गजवगत्वरम् ।
अस्मिन्प्रयाते वृद्धानां को ददाति कपर्दिकाम् ॥९०॥
दृष्टिच्छटेव तीक्ष्णा तां कुटिला भ्रूलतेव या ।
स्तनस्थलीव कठिना वेश्या सर्वस्वहारिणी ॥९१॥
निश्कामाः कामचारिण्यो भोगिन्यो न कुलादराः ।
नित्योपहारहारिण्यो जृम्भन्ते वारयोषितः ॥९२॥
विचित्रमायाबहुला बन्धुकी मोहिनी नृणी ।
अस्मद्विधा हि सरले संसृतावपि संसृतिः ॥९३॥
धनेनाल्पोपचारेण हरन्ति द्रविणं बहु ।
विदग्धपण्यललनाः कर्णोदकमिवाम्भसा ॥९४॥
स्मितं नृत्तं प्ररुदितं रागो रूढिरुदारता ।
स्वप्नदृष्टमिवाशेषमसत्यं वारयोषिताम् ॥९५॥
कामुके नूतनासङ्गगाढालिङ्गनकातरे ।
गणिका गेहगणनां करोति ध्यानमास्थिता ॥९६॥
धनाय यत्नेन परा भव पुत्रि महीभुजाम् ।
वेश्यानां चार्थहीनानां तृणेनापि न विक्रयः ॥९७॥
पतन्ति खङ्गधरासु विशन्ति मकराङ्कुरम् ।
किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो नराः ॥९८॥
पुत्रि धन्या वयं यासा संभोगेन धनार्जनम् ।
करं शिरो वा विक्रीय धनं मुग्धे न लभ्यते ॥९९॥
त्यजैनं निर्धनं विप्रं मा रूपवशगा भव ।
न हि दारुमयो हस्ती करोति समरक्रियाम् ॥१००॥
इति मातुर्वचः श्रुत्वा रूपिणी कोपकम्पिता ।
मैवं वादीः पुनरिति प्रोवाच दृढरागिणी ॥१०१॥
गूढं मकरदंष्ट्राथ राजपुत्रं स्वमन्दिरे ।
निदाय निर्धनं श्रद्धा निरास सपदि द्विजम् ॥१०२॥
स निरस्तोऽर्धचन्द्रेण ताडितो लगुडैर्भृशम् ।
क्षिप्तश्च कर्दमे प्रायादटवीं रवितापितः ॥१०३॥
सगावसानसंतापदुःखदैन्यभ्रमाकुलः ।
छायार्थी शुष्ककरिणः प्रविवेश कलेवरम् ॥१०४॥
अरण्ये जम्बुकत्यक्ते कीटनिष्कुषितान्तरे ।
स निद्रामाययौ तस्मिन्रन्ध्रवातगतागतैः ॥१०५॥
अत्रान्तरे समुत्तस्थौ मेघस्तापिच्छसच्छविः ।
यद्वृष्टिपूरैः ककुभो बभूवुर्जलसंकुलाः ॥१०६॥
महौघेन हृतः सोऽथसरिद्वारिगतो गजः ।
समुद्रमाससादाशु तरङ्गालिङ्गितो मुहुः ॥१०७॥
तार्क्ष्यवंशस्ततः पक्षी तमादायामिषाशया ।
भेतस्तत्याज लङ्कायां दृष्ट्वां तं निर्गतं नरम् ॥१०८॥
निःसृतोऽथ गजाद्विप्रः शनैः प्राप विभीषणम् ।
अवाप्यातिथिसत्कारं तत्र राघवगौरवात् ॥१०९॥
पृष्टो विभीषणेनाथ प्राहाहं मथुराश्रयः ।
विसृष्टो विश्णुना साक्षाद्रत्नार्थं भवदन्तिकम् ॥११०॥
बिभीषणोऽपि तच्छ्रुत्वा विश्णोर्देयमुपायनम् ।
शङ्खचक्रगदारत्नमित्युक्त्वास्मै ददौ विभुः ॥१११॥
तदाज्ञयैव सौवर्णवाहनं प्राप्य पक्षिणम् ।
रत्नानि च महार्हाणि प्रययौ मथुरां क्षणात् ॥११२॥
तत्र दिव्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।
शङ्खचक्राङ्कितो रात्रौ रूपिण्या संगतः पुनः ॥११३॥
रूपिणी विश्णुना साक्षात्कामित्ताहमिति स्फुटम् ।
उवाच लक्ष्मीसौभाग्यमदातरलमानसा ॥११४॥
नो वक्ति द्विज संतापे देवताहमिति स्थिता ।
कथचिज्जननीं वक्ति सा पटान्तरिताकृतिः ॥११५॥
एवं प्रतिनिशं तस्यां संगते देवविग्रहे ।
यत्नान्मकरदंष्ट्रा तां यत्रैकान्ते व्यलोकयत् ॥११६॥
ततः प्रणम्य तनयां रूपिणीं सा व्यजिज्ञपत् ।
सशरीरा दिवंगन्तुं................ तेनाहमर्थये ॥११७॥
इति मातुर्गिरा प्राह सा प्रियं विष्णुविग्रहम् ।
माता मे त्वत्प्रसादेन स्वर्गं गन्तुं समीहते ॥११८॥
तच्छ्रुत्वा केशवाकारस्तथेत्युक्त्वा दिदेश ताम् ।
लिप्तार्धा पञ्चचूला च प्रातः कार्येत्यनारदात् ॥११९॥
तदादेशादथ कृता कुट्टिनी पञ्चचूलिका ।
सिन्दूरलिप्तैककुचा मसीन्यस्तत्रिपुण्ड्रिका ॥१२०॥
एकादश्यां संनिधिर्मे माथुरेऽस्मिन्सुरालये ।
उक्त्वेति नग्ना सहसा निनाय खगवाहनम् ॥१२१॥
ततस्तां तोरणस्तम्भे निधायैकादशीव्रते ।
उवाच निशि देवाग्रे संगतान्ब्राह्मणांल्लघु ॥१२२॥
मारी पतिष्यति क्षिप्रमद्य वो भीषणाकृतिः ।
रक्षा विधीयतां काचिदित्युक्त्वा ऽलक्ष्यतां ययौ ॥१२३॥
आकाशभाषितं श्रुत्वा ते द्विजास्त्रासविह्वलाः ।
शान्तिस्वस्तिकमन्त्राङ्कस्तोत्रैश्चक्रुर्महारवम् ॥१२४॥
कुट्टिन्यपि चिरन्यस्ता तत्र शीतानिलार्दिता ।
हा हा पतामीति भयाद्विरराव खरस्वरम् ॥१२५॥
तच्छ्रुत्वा ब्राह्मणा भीता मा पतेत्यार्तवादिनः ।
मारि मारि नमस्तुभ्यं त्वं त्राममिति चुक्रुशुः ॥१२६॥
साब्रवीन्निपताम्येषा कम्पमाना पुनः पुनः ।
मा मा पतेति चात्यन्तभीताः प्राहुर्द्विजातयः ॥१२७॥
पतामि मा पतेत्येवं तस्यास्तेषां च सा निशा ।
प्रययौ क्रन्दतामेव शतसंवत्सरोपमा ॥१२८॥
सवृद्धवालनगरे संप्राप्ते कौतुकाकुले ।
प्रातर्दूरात्परिज्ञाता द्विजेनैकेन कुट्टिनी ॥१२९॥
लोहजङ्घेन चरितं हास्यमेतदिति द्विजाः ।
विज्ञाय कुट्टिनीं वैरे प्रसिद्धं ददृशुश्च तम् ॥१३०॥
स्वरूपं लोहजङ्घोऽपि विज्ञाय बहुरत्नदः ।
रूपिणीं भूषयित्वा च धृतिं स प्राप पुष्कलाम् ॥१३१॥
इति लोहजङ्घाख्यायिका ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-05T20:32:09.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cyclic polyhydroxy alcohol

  • चक्रीय पॉलिहायड्रॉक्सि अल्कोहोल 
  • (also called cyclitol) 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.