सहस्रानीककथानाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति संगमकतः कथकादद्भुतां कथाम् ।
निनाय राजा रजनीं राजपुत्रीं व्यचिन्तयत् ॥१३८॥
ततः कालेन ककुभं प्राप्य जम्भारिपालिताम् ।
जामदग्न्याश्रमं प्राप निर्वैरहरिकुञ्जरम् ॥१३९॥
मुनिना पूजितस्तत्र दयितां विरहार्दिताम् ।
लेभे हर्षविकासाक्षस्तनयं चातनुद्युतिः ॥१४०॥
अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः ।
जातः श्रीमाञ्छुभो जेता धनंजय इवापरः ॥१४१॥
उक्त्वेति मुनिना दत्तं गृहीत्वोदयनं नृपः ।
प्रियासहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वॄतः ॥१४२॥
ततः प्रविश्य कौशाम्बीं तनयाय ददौ नृपः ।
पुत्रान्युगंधरादीनां पौरराज्यश्रिया सह ॥१४३॥
यौगन्धरायणो मन्त्री रुमण्वान्वाहिनीपतिः ।
वसन्तको नर्मसुहृद्राजसूनोरभूत्ततः ॥१४४॥
ततो विहृत्य सुचिरं दयिताकेलितत्परः ।
सहस्रानीकनृपतिः कीर्त्येव जरया सृतः ॥१४५॥
पवनाकम्पिकदलीदललोलां भवस्थितिम् ।
धियैव कलयन्प्रायात्सहामात्यो महापथम् ॥१४६॥
रामा न कस्य रतये मदनाभिरामा
कस्यामृतं न धयौवनकेलिबन्धाः ।
सर्वात्मना विशयसंगम एष कस्तु
भृङ्गोत्तरङ्गकरिकर्णविशाललोलः ॥१४७॥

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथामुखलम्बके श्रुत्वेति संगमकतः कथकादद्भुतां कथाम् ।
निनाय राजा रजनीं राजपुत्रीं व्यचिन्तयत् ॥१३८॥
ततः कालेन ककुभं प्राप्य जम्भारिपालिताम् ।
जामदग्न्याश्रमं प्राप निर्वैरहरिकुञ्जरम् ॥१३९॥
मुनिना पूजितस्तत्र दयितां विरहार्दिताम् ।
लेभे हर्षविकासाक्षस्तनयं चातनुद्युतिः ॥१४०॥
अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः ।
जातः श्रीमाञ्छुभो जेता धनंजय इवापरः ॥१४१॥
उक्त्वेति मुनिना दत्तं गृहीत्वोदयनं नृपः ।
प्रियासहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वॄतः ॥१४२॥
ततः प्रविश्य कौशाम्बीं तनयाय ददौ नृपः ।
पुत्रान्युगंधरादीनां पौरराज्यश्रिया सह ॥१४३॥
यौगन्धरायणो मन्त्री रुमण्वान्वाहिनीपतिः ।
वसन्तको नर्मसुहृद्राजसूनोरभूत्ततः ॥१४४॥
ततो विहृत्य सुचिरं दयिताकेलितत्परः ।
सहस्रानीकनृपतिः कीर्त्येव जरया सृतः ॥१४५॥
पवनाकम्पिकदलीदललोलां भवस्थितिम् ।
धियैव कलयन्प्रायात्सहामात्यो महापथम् ॥१४६॥
रामा न कस्य रतये मदनाभिरामा
कस्यामृतं न धयौवनकेलिबन्धाः ।
सर्वात्मना विशयसंगम एष कस्तु
भृङ्गोत्तरङ्गकरिकर्णविशाललोलः ॥१४७॥

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथामुखलम्बके सहस्रानीककथानाम प्रथमो गुच्छः ।
 प्रथमो गुच्छः ।

N/A

References : N/A
Last Updated : October 05, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP