TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रीदत्ताख्यायिका
प्रथमो गुच्छः ।

गुणाढ्येनेति लिखितां शातवाहनभूपतिः ।
बृहत्कथामकथयद्विदुषां सुहृदां पुरः ॥१॥
महेश्वरात्पुष्पदन्तः काणभूतिरिमां ततः ।
तस्माद्गुणाढ्यस्तस्माच्च श्रुतवाञ्शातवाहनः ॥२॥
कान्ताकटाक्षवपुषे नमः कुसुमधन्वने ।
जायते येन सच्छायो विरसोऽपि भवद्रुमः ॥३॥
भुजङ्गभङ्गिसुभगा कन्दर्पजयशालिनी ।
कौशाम्बी शांभवीव श्रीरस्ति स्वस्तिमती पुरी ॥४॥
नीलरत्नमहासौधरश्मिवल्लिवितानके ।
यत्र रात्रिषु कुर्वन्ति तारकाः कुसुमभ्रम म् ॥५॥
अर्जुनाभिजने जातो जनमेजयसंभवः ।
शतानीकोऽभवत्तत्र राजा राजेन्द्रशेखरः ॥६॥
बभार चन्द्रनार्द्रेण यो गङ्गानिर्झरोज्ज्वलम् ।
भुजेन भूमिवलयं मुक्ताहारं च वक्षसा ॥७॥
संपूर्णचन्द्ररुचिरा मुक्तानिकरहारिणी ।
स्वकीर्तिरिव यस्य श्रीः कीर्तिः श्रीरिव सा बभौ ॥८॥
अद्वितीयगुणोदारं यस्य सुच्छायमुन्नतम् ।
छत्रं यश इव स्वच्छं यशश्छत्रमिवामलम् ॥९॥
सारसालंकृतिर्यस्य रणे कुवलयाश्रयः ।
बभौ स्फारामलजलः कृपाणः कमलाकरः ॥१०॥
यो वसन्त इव क्ष्माभृन्मौली न्यास्तशिलीमुखः ।
कलिकालंकृतं सर्वमशोकं रुचिरं व्यघात् ॥११॥
बभूव तस्य राज्याब्धेः कर्णधारो महामतिः ।
मन्त्री युगंधरो नाम शक्रस्येव बृहस्पतिः ॥१२॥
सेनानीः सुरतीपश्च विप्रः शास्त्रार्थवित्तथा ।
स्वैरेच्छानर्मसचिवस्तथाभूद्वल्लभो विभोः ॥१३॥
तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा ।
बभूव विभ्रममही जैत्रमस्त्रं मनोभुवः ॥१४॥
स मृगव्यप्रसङ्गेन कदाचिन्निर्गतो वनम् ।
ददर्श तेजसां राशिं मुनिं शाण्डिल्यमाश्रमे ॥१५॥
नामाभिजनमवेद्य तं प्रणम्य महीपतिः ।
अवाप तस्मादुचितं पुत्रलाभवरं च सः ॥१६॥
स राज्ञो वरदः श्रीमान्कौशाम्बीमेत्य सादरम् ।
पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ॥१७॥
ततो मुनिप्रसादेन राजा दशरथोपमः ।
इष्ट्वा राममिव प्राप सहस्रानीकमात्मजम् ॥१८॥
संपूर्णकान्तवपुषि प्रौढिं याते कलापतौ ।
तस्मिन्स्मितमधुधाम्नि प्रोल्ललास नृपाम्बुधिः ॥१९॥
स यौवराज्ये तनयं विधाय विधिना नृपः ।
पीयूषबिम्बित इव प्रालेयकरणोऽभवत् ॥२०॥
अत्रान्तरे सुरपतिं दृष्ट्वा युद्धाय सानुगः ।
आगतस्तब्धशिरसा यमदंष्ट्रो महासुरः ॥२१॥
वर्तमाने दिवि महासंगरे सुररक्षसाम् ।
आनिनाय शतानीकं साहाय्ये तं पुरंदरः ॥२२॥
नीतो मातलिनाभ्येत्य सादरं स धनुर्धरः ।
विधाय प्रेक्षकान्देवाञ्जघान दितिजान्रणे ॥२३॥
हतदैत्याधिपः सोऽथ निहतः संमुखे दिवि ।
जहासेवाभ्रविभ्रान्तखङ्गलग्नेभमौक्तिकैः ॥२४॥
ततः शक्रस्य वचसा शरीरं तस्य मातलिः ।
नीत्वा महीतलं चक्रे तनयेन यथोचितम् ॥२५॥
महिष्या सह भूपाले संप्राप्ते कीर्तिशेषताम् ।
भेजे राज्यं शतानीकतनयो मन्त्रिणां गिरा ॥२६॥
याति काले महेन्द्रेण स नन्दनमहोत्सवे ।
निभन्त्रितस्तत्कथितां भाविनीमश्रृणोत्कथाम् ॥२७॥
स्वर्योषिद्ब्रह्मणः शापादयोध्यायामलम्बुषा ।
जाता मृगावती कन्या भूपतेः कृतवर्मणः ॥२८॥
विधूमो नाम च वसुः स्वर्लोकललनां पुरा ।
तामेव ब्रह्मभुवने दृष्ट्वानिलहृतांशुकाम् ॥२९॥
स्मारार्तां मदनाक्रान्तः शापान्मर्त्यत्वमागतः ।
सैव ते ललना राजन्भाविनी नो वरादिति ॥३०॥
श्रुत्वा तदुत्सुकमनाः समामन्त्र्य शचीपतिम् ।
कौशाम्बींं प्रस्थितो हृष्टः स तिलोत्तमया पथि ॥३१॥
स्मरस्मेरं किमपि तां भाषमाणामनन्यधीः ।
ध्यायञ्शतक्रतुवचो ना लुलोके महीपतिः ॥३२॥
सा शशाप नृपं सुभ्रूरनादरतिरस्कृता ।
सौभाग्यमत्ता मानिन्यो न सहन्ते ऽवधीरणम् ॥३३॥
चतुर्दशसमा भूयाद्विप्रयोगो हृदिस्थया ।
तव राजन्निति तया शप्तः प्रायान्निजां पुरीम् ॥३४॥
ततः कालेन तनयां क्ष्मापतेः कृतवर्मणः ।
तामाससाद दयितां सर्वस्वं पुष्पधन्वनः ॥३५॥
मृगावतिं समासाद्य विलासतरुवल्लरीम् ।
विभ्रमाम्भोधिलहरीं न््द मदनद्युतिः ॥३६॥
सा तस्माद्गर्भमाधाय भवानीवेन्दुशेखरात् ।
पाण्डिम्ना शशिलेखेव पीयूषक्षालिता बभौ ॥३७॥
अत्रान्तरे मन्त्रिवरः सेनानेश्च महीपतेः ।
द्विजो नर्मवयस्यश्च पुत्रान्प्राप कुलोचितान् ॥३८॥
सुतो युगंधरस्यासीच्छ्रीमान्यौगन्धरायणः ।
रुमण्वान्सुप्रतीपस्य द्विजस्य च वसन्तकः ॥३९॥
सुन्दरी दौहृदव्यक्तेरथ पौरंदरीव दिक् ।
रराज राजमहिषी रजनीकरगर्भिणी ॥४०॥
पत्यौ समीहितकृतिस्वेच्छया मतिरुद्ययौ ।
तस्या रक्तसरःस्नाने तच्चामन्यत भूपतिः ॥४१॥
कौसुम्भसलिलस्थाने विहिते सरसि क्षणात् ।
सरोमृगदशाधीमान्को हि दैवे पराङ्मुखे ॥४२॥
ततस्तामामिषधिया सुपर्णकुलसंभवः ।
जहार विकटः पक्षी मुग्धां दधविधेर्वशात् ॥४३॥
नीत्वा विहायसा दूरं स तामचलसंनिभः ।
तत्याज मोहविवशामुदयाचलकन्दरे ॥४४॥
लब्धसंज्ञा शनैः कम्पविलोलतनुवल्लरी ।
कीर्णोत्पला इव दिशश्चकार चकितेक्षणैः ॥४५॥
तस्याः शोकानिलोत्कम्पिकुचपर्यन्तपातिनी ।
असूत्रहारतां प्राप क्षणमश्रुकलावली ॥४६॥
हा राजन्मन्दपुण्याहं क्क नु द्रक्ष्यामि ते मुखम् ।
इत्युक्त्वा गजसिंहानां पुरोऽभूद्वधकाङ्क्षिणी ॥४७॥
सा स्वयं केसरिगजैस्त्यक्ता न निधनं ययौ ।
विपद्विसंकटे काले मरणं लभ्यते कुतः ॥४८॥
तस्याः करुणमाकर्ण्य क्रन्दितं सास्रुलोचनाः ।
मृगा विच्छिन्नरोमन्थनिःस्पन्दगतयोऽभवन् ॥४९॥
ततो यदृच्छया यातस्तां विलोक्य तथा स्थिताम् ।
निनाय करुणासिन्धुर्मुनिपुत्रस्तपोवनम् ॥५०॥
सुतेवाश्वासिता तत्र कृपया जमदग्निना ।
असूत तनयं काले सेनान्यमिव पार्वती ॥५१॥
तस्याकाशभवा वाणी चकारोदयनाभिधाम् ।
निजवंशशशाङ्कस्य भविष्यच्चक्रवर्तिनः ॥५२॥
आश्रमे स मुनीन्द्रेण कृतचूडादिकस्ततः ।
ववृधे बालकशशी सह मातुर्मनोरथैः ॥५३॥
विद्याकलाकलितधीर्युवा नयन््दनः ।
सोऽपश्यन्मृगयासक्तो व्याधबद्धं भुजङ्गम म् ॥५४॥
दीनमालोक्य भुजगं शबराय धनार्थिने ।
अमोलयत्स्वजननीदत्तं दत्त्वा स्वकङ्कणम् ॥५५॥
स सर्पो मोचितस्तेन नागो भूत्वा कृताञ्जलिः ।
सख्यं विधाय पातालं निनाय तमुदारधीः ॥५६॥
स किन्नराभिधो नागो धृतराष्ट्रसुतः प्रियम् ।
पाताले प्रेमविनतस्तं वयस्यमपूजयत् ॥५७॥
भगिनीं ललिताभिख्यां ददावुदयनाय सः ।
यस्या मुखशशिद्यौतैर्जाता पातालकौमुदी ॥५८॥
तद्गर्भाधानपर्यन्तशापा सापि भुजङ्गमी ।
ययौ विद्याधरपदं स्वयमामन्त्र्य वल्लभम् ॥५९॥
ताम्बूलीस्रजमम्लानां वीणां घोषवतीमपि ।
अव्याप राजतनयः फणीन्द्रात्स्वाश्रयं ययौ ॥६०॥
मुनीन्द्राश्वास्यमानां स जननीं शोककर्शिताम् ।
समेत्यानन्दमुदितां चक्रे नय इव श्रियम् ॥६१॥
अत्रान्तरे स शबरः कौशाम्ब्यां वणिजं ययौ ।
सहस्रानीकनामाङ्ग्कमणिकङ्कणविक्रयी ॥६२॥
आदाय रत्नकटकं स विभीतो महीभुजे ।
निवेद्य शबरोपेतः प्रणम्य स ययौ वणिक् ॥६३॥
मृगावतीवियोगाग्निदह्यमानतनुर्नृपः ।
तद्बाहुवल्लरीसङ्गसुधार्द्रं प्राप्य कङ्कणम् ॥६४॥
नीलकण्ठ इवोत्कण्ठो नूतनाम्बुदनिन्दितः ।
श्रुत्वा वलयसंप्राप्तिकथा कृत्वा पुरोगम म् ॥६५॥
शबरं तां दिशं हृष्टः प्रतस्थे सह मन्त्रिभिः ।
यत्रेन्दुभास्करमुखो लभते सहसोदयम् ॥६६॥
स व्रजन्गजसिन्दूरसंध्यायितदिगन्तरः ।
कंचिन्मार्गं समुल्लङ्घ्य तस्थौ विश्रान्तसैनिकः ॥६७॥
तस्मिन्विनिद्रे दयितासंगमध्यानतत्परे ।
कथां संगमकाभिख्यः कथकोऽकथयन्निशि ॥६८॥
भविष्यत्यचिरादेव तव देव्या समागमः ।
विस्तीर्णे दुःखजलधौ भद्रमेवाप्यते यथा ॥६९॥
अभूतां मालवे विप्रौ कालनेम्यभयाभिधौ ।
गुणाभिजनशीलाढ्यौ निर्विण्णौ कृतचेतनौ ॥७०॥
विश्णुवक्षस्थलनभश्चन्द्ररेखामथ श्रियम् ।
यत्र होमव्रतपरः कालनेमिरतोषयत् ॥७१॥
विभूतिं प्राप्य तनयं श्रीदत्ताख्यमवाप सः ।
पृथिवीनाथ तां यस्य जन्मनि श्रीरभाषत ॥७२॥
प्राप्तो विक्रमशक्तेः स राजसूनोर्वयस्यताम् ।
रूपविद्यागुणोपेतो ललास द्विजपुत्रकः ॥७३॥
वयस्या बहवोऽप्यासन्बाहुशालिपुरोगमाः ।
तैर्युतं राजतनयो न सेहे तं बलाधिकम् ॥७४॥
तस्मिन्गूढवधोद्युक्त श्रीदत्तो दूरदेशगः ।
अपश्यदङ्गनां गङ्गातरङ्गौघहृतां पुरः ॥७५॥
वव्रजाक्रन्दिनीं त्रातुं तामम्भसि विगाह्य सः ।
शीर्घानुसारी बलवान्मग्नामनुममज्ज च ॥७६॥
जलान्तरे ततोऽपश्यद्रक्तपुष्पकृतार्चनम् ।
शंकरं तत्पुरः पूजाव्यग्रां तामेव चाङ्गनाम् ॥७७॥
कृतपूजां मणिगॄहं निजं प्राप्तां सखीवृताम् ।
तामपृच्छत्स यत्नेन निषण्णां शोककारणम् ॥७८॥
साब्रवीद्विष्णुना दग्धः पितास्माकं विरोचनः ।
सिंहेन तत्प्रयुक्तेन संनिरुद्धं पुरं च नः ॥७९॥
श्रुत्वेति ललनावाचं स जघान महाहरिम् ।
खङ्गरत्नं ददौ तस्मै शापमुक्तोऽथ केसरी ॥८०॥
असुरेन्द्रसुता चाग्र्यं वितताराङ्गुलीयकम् ।
विषापहारं तत्प्राप्य स प्रायात्प्रार्चितस्तया ॥८१॥
स्नातुं मग्नः पुनर्गङ्गाकूलादेवोन्ममज्ज सः ।
वयस्यात्तत्र शुश्राव नृपेण पितरं हतम् ॥८२॥
भावी नृपः सुतोऽस्येति श्रुत्वा विक्रमशक्तिना ।
श्रुत्वेयुज्जयिनीं गन्तुं प्रस्थितो भृशदुःखितः ॥८३॥
वयस्येन सहाटव्यां ददर्शाक्रन्दिनीं स्त्रियम् ।
मा भैशीरिति तामुक्त्वा तयैव सहितो निशि ॥८४॥
प्रविश्य शून्यनगरीं तामपश्यन्निशाचरीम् ।
तयैव भक्षितं दृष्ट्वा वयस्य कोपकम्पितः ॥८५॥
धीरो जग्राह केशे तां कङ्कालोत्तलितायुधाम् ।
सा गृहीता दृढं तेन प्राप्य शापान्तमभ्यगात् ॥८६॥
कौशिकेनास्मि शप्ता प्राक् तपसो विघ्नकारिणी ।
त्वत्करस्पर्शपर्यन्तः शापोऽयं विगतो म् ।
इत्युक्त्वा निष्ठुरं नाम तद्वयस्यमजीवयत् ॥८७॥
ततो व्रजन्पथि पुनः श्रीदत्तोऽन्यान्वयस्यकान् ।
प्राप्य स्वैरं गृहे तस्थौ सुह्रुदो बाहुशालिनः ॥८८॥
ततः कदाचिन्मत्तालिमालिताशोकचम्पके ।
वसन्ते सखिभिः सार्धमुद्याने विजहार सः ॥८९॥
तत्रापश्यन्नृपसुतां चामरालोलितालकाम् ।
विभूतिमिव रूपस्य विभ्रमस्येव संपदम् ॥९०॥
लक्ष्मीमिव शशाङ्कस्य कुसुमेषोरिव स्त्रियम् ।
समृद्धिमिव दर्पस्य श्रृङ्गारस्येव देवताम् ।
निर्वर्णयन्स तां कान्तां रागान्मूढ इवाभवत् ॥९१॥
स्फूर्जद्विशालविशयह्निकरालदंष्ट्रा -
नाशीविशान्वशमुपेत्य नयन्ति धीराः ।
सिंहाश्च केसरसटाविकटाट्टहासा -
न्कन्दर्पदर्पदलने न तु कश्चिदीशः ॥९२॥
सा मृगाङ्कवती दृष्ट्वा भूपतेबिम्बकेः सुता ।
श्रीदत्तं मन्मथोदारं ययौ पञ्चेशुलक्ष्यताम् ॥९३॥
मनोभवनवारम्भविभ्रमव्यग्रमानसाम् ।
भुजङ्गः कदलीकेलिलोलां तामदशत्करे ॥९४॥
जातः स्मरविकारेण सुहृदा प्रेरितस्ततः ।
निजाङ्गुलीयं दत्त्वैव श्रीदत्तस्तामजीवयत् ॥९५॥
आशीविषविषोन्मुक्ता ततः सा लब्धजीविता ।
मनोभवभुजङ्गेन मुमोह मुहुरर्दिता ॥९६॥
ततो विदितवृत्तान्ता सखी भावनिकाभिधा ।
स्मरार्तयैनं श्रीदत्तं तस्याः संतापमभ्यधात् ॥९७॥
सुहृद्भिरयमामन्त्र्य विरहक्षामविग्रहः ।
वह्निदाहापदेशेन स जहार नृपात्मजाम् ॥९८॥
वयस्यैस्तां पुरो नीत्वा स्वयं गत्वान्यवासरे ।
ददर्श शरनिर्भिन्नां दीनां भावनिकां पथि ॥९९॥
किमेतदिति पृष्टाथ निखिलान्सचिवांस्तव ।
शरैर्विदार्याभिमुखान्क्षत्रियैर्मे हृता सखी ॥१००॥
श्रुत्वेत्यशनिसंकाशं सुहृदो वीक्ष्य विक्षतान् ।
जवेन स तुरङ्गस्थः क्षत्रियान्कुपितोऽन्वयात् ॥१०१॥
भुजगेन सखङ्गेन कीर्तिनिर्मोकशालिना ।
व्यसून्विधाय सहसा राजन्यान्प्राप तां प्रियाम् ॥१०२॥
रणात्तुरंगमादाय विपुलाघातपीडितम् ।
प्रययौ हर्षसंपूर्णं समारुह्य प्रियासखः ॥१०३॥
विकटामटवीं प्राप्य तुरगे पञ्चतां गते ।
अध्वश्रमार्ता दयितं कान्ता जलमयाचत ॥१०४॥
तृष्णार्तां तां तरुतले निधाय स जलाशयान् ।
खङ्गद्वितीयोऽरण्येऽथ बभ्रामोभ्द्रान्तमानसः ॥१०५॥
अत्रान्तरे सहस्रांशौ पद्मिनीविरहादिव ।
प्रविष्टे जलधौ सान्द्रतमांस्यनुजजृम्भिरे ॥१०६॥
तमालतालव्यालोलमत्तालिकुलमांसलैः ।
स विसस्मार तद्वर्त्म तमोभिर्दुर्नयैरिव ॥१०७॥
हा प्रिये क्क नु लप्स्यामि शोचन्निति ससंभ्रम म् ।
नाससाद वनस्यान्तं व्यसनस्येव दुर्मतिः ॥१०८॥
ततः प्रभाते दयितावियोगविधुराशयः ।
न्यग्रोधमधिरुह्याशु विलोक्य विललाप सः ॥१०९॥
वृक्षमूलधृतं खङ्गं तस्य तोयजिघृक्षया ।
जहार शबराधीशो दुःखं दुःखे हि वर्धते ॥११०॥
स तमाह प्रिया नूनं तव पल्लीनिवासिभिः ।
मद्भृत्यैरेत्य या नीता तामन्विष्य स्वयं व्रज ॥१११॥
ततः प्रतिनिवृत्तस्य खङ्गं दास्यामि ते सखे ।
श्रुत्वेति सह तद्भृत्यैर्ययौ पल्लीं स्खलद्गतिः ॥११२॥
तत्र भ्रान्तश्चिरं श्रान्तः क्षणं निद्रावशं गतः ।
भल्लैर्दुर्गोपहाराय निबद्धो बाहुश्रृङ्खलैः ॥११३॥
ततो नेत्रोत्पलच्चाया जितकर्णशिखण्डिका ।
शबरेन्द्रसुता वीक्ष्य तं स्मरव्याकुलाभवत् ॥११४॥
स बिम्बाधरशोणांशुव्यक्तगुञ्जाफलस्रजम् ।
पुलिन्दसुन्दरीं भेजे तां कान्तासंगमाशया ॥११५॥
ततः सा दोहदव्यक्तगर्भजृम्भालसा शनैः ।
अमोचयत्तं दयिता पुनर्दर्शनसंविदा ॥११६॥
तया श्रीदण्डसुतया सुन्दर्या मुक्तबन्धनः ।
मत्खङ्गो जनकाद्ग्राह्यस्तामित्युक्त्वा विनिर्ययौ ॥११७॥
स मृगाङ्कवतीमेव विचिन्वन्कानने चिरम् ।
चचार विश्लथगतिर्यूथभ्रष्ट इव द्विपः ॥११८॥
अपि कष्टाशनामार्गे प्रिया दृष्टेति वादिनम् ।
तं व्रुद्धशबरोऽभ्येत्य जगदे जीवयन्निव ॥११९॥
शोचन्ती त्वामदुःखार्हा सा मया तव वल्लभा ।
दृष्ट्वा श्रीदत्त कृपया रक्षिता च सुता यथा ॥१२०॥
सा शशाङ्कमुखी मुग्धा तरुणी पल्लिवासिभिः ।
क्रान्त्वेति माथुरं ग्रामं नीता नागस्थलं मया ॥१२१॥
साधोर्द्विजन्मनो गेहे विश्वदत्तस्य मानिनी ।
न्यस्ता तत्र स्वयं गच्छेत्युक्त्वा तं शबरो ययौ ॥१२२॥
तच्छ्रुत्वा मारुतजवो विश्वदत्तं समेत्य सः ।
देहि प्रियामिति प्राह स च प्रीतस्तमभ्यधात् ॥१२३॥
अमात्यः शूरसेनस्य नृपतेरभयाभिधः ।
द्विजन्मा तस्य सा गेहे मया न्यस्ता तपस्विनी ॥१२४॥
श्रुत्वेति गन्तुकामोऽथ स्नातुं यातः स दीर्घिकाम् ।
चौरबद्धमहाहारं व्यत्ययात्प्राप कर्पटम् ॥१२५॥
तं तु दृष्ट्वैव राजार्हं मुक्ताहारं वहन्पथि ।
अवाप्तो राजपुरुषैर्भर्त्स्यमानो व्यकृष्यत ॥१२६॥
तं वधाय समाकृष्टं राजडिण्डिमघोषणैः ।
निर्गता ब्राह्मणी मध्ये ददर्श निजवल्लभम् ॥१२७॥
सा गत्वा दुःखसंत्रासदारितेवामुनाथ तम् ।
अमात्यतः प्रियतमं वधबन्धादमोचयत् ॥१२८॥
रक्षितः सोऽभयाख्येन मन्त्रिणा प्राप्य तां प्रियाम् ।
ज्ञात्वा तमेव च शनैः पितृव्यं प्राप निर्वृतिम् ॥१२९॥
यक्षाङ्गनाराधनतः प्राप्य तां महतीं प्रियाम् ।
स पितृव्यो ददौ तस्मै विवाहं च तयोर्व्यधात् ॥१३०॥
ततस्तैः संगतो मित्रैः शूरसेनसुतामपि ।
पितृव्यस्य धिया प्राप सह हस्त्यश्वसंपदम् ॥१३१॥
कदाचिदथ कालेन संनिरुद्धः स वर्त्मनि ।
दस्युभिर्दस्युसेनान्यमवधीद्विक्रमोर्जितः ॥१३२॥
शक्तिघाताकुलं पश्चान्निन्युस्तं शबरा बलात् ।
चण्डिकायतनं घोरं नररक्ताक्तवेदितम् ॥१३३॥  
श्रीदण्डतनयां तत्र ददर्शार्चितचण्डिकाम् ।
वीरसेनाभिधं पुत्रं तस्यां जातमवाप सः ॥१३४॥
खङ्गरत्नं प्रियां तां च श्रियं च शबरार्जिताम् ।
कल्पितां कीर्तिशेषेण श्रीदण्डेन पुरा स्वयम् ॥१३५॥
पुलिन्दवाक्यमासाद्य बिम्बकेः श्रियमाप्य च ।
हत्वा विक्रमशक्तिं च पापं पितृवधक्रुधा ॥१३६॥
अवाप्य दयितास्तिस्रः पृथ्वीराज्यमवाप्तवान् ।
श्रीदत्तेनेति दुःखाब्धिमुत्तीर्याप्ताः सुखश्रियः ॥१३७॥
इति श्रीदत्ताख्यायिका ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-05T20:29:50.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

afterdated

  • पश्चातदिनांकित, नंतरची तारीख टाकलेला 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site