शिवभारत - अध्याय सतरावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


N/Aकवीन्द्र उवाच ।
ततोऽफ्यजलमाहूय स्वीयसैन्यधुरन्धरम् ।
अल्लीशाहः स्वयं वाचमुवाच समयोचितम् ॥१॥
अल्लीशाह उवाच ।
हितावहस्त्वमस्माकमस्मिन् सैनिकसंचये ।
विरोद्धा द्विजदेवानां कालः कलिरिवापरः ॥२॥
प्रस्थितेन त्वया पूर्वं पृतनाव्यूहवर्तिना ।
रामराजान्वयभुवो राजानो युधि निर्जिताः ॥३॥
कृतप्रतीपसंतापे प्रतापे तव जाग्रति ।
बत श्रीरंगराजोऽपि रणरंगाद्विरज्यते ॥४॥
त्वया विक्रम्य वीरेणःक्षणात् कर्णपुराधिपः ।
सर्पो जांगुळिकेनेव स्फुरद्दर्पो वशीकृतः ॥५॥
त्वया मन्दरसारेण मथिता मधुरापुरी ।
निगृह्य नगरीं काञ्चीं आहृतं चापि कांचनम् ॥६॥
पदे पदे शुभवता भवता किंकरीकृतः ।
व्यस्मरद्वीरभद्रोऽपि छत्रचामरसम्पदः ॥७॥
बिभेति सिह्मलपतिर्मत्तो लंकापतिस्तथा ।
भजत्यंभोधिरपि मां तदिदं पौरुषं तव ॥८॥
प्रवलंत्यचलाह सप्त चलत्यफजल त्वयि ।
क्षुभ्यन्ति चाब्धयः सप्त द्वीपाः सीदन्ति सप्त च ॥९॥
बतेंद्रप्रस्थनाथोऽपि निशम्य तव पौरुषम् ।
रोषावेशवशीभूतो न निद्राति दिवानिशम् ॥१०॥
एतादृशि महावीरे दुर्जये त्वयि जाग्रति ।
मह्यं द्रुह्यत्यहोरात्रमहो शाहसुतः शिवः ॥११॥
हंत तेन महोत्साहवता वीरेण मानिना ।
स्वधर्माभिनिविष्टेन म्लेच्छधर्भो विहन्यते ॥१२॥
क्रमेणाक्रम्य विकटां कण्ठीरव इवाटवीम् ।
एष आत्मवशो नैव मन्यते मम शासनम् ॥१३॥
छलप्रचलचित्तस्य खलस्यास्य समाश्रयात् ।
मम चित्ते चिर धत्ते शैलः सह्योऽप्यसह्यताम् ॥१४॥
महमूदेन पित्रा मे यदि न स्यात् स वारितः ।
तर्हि स्यान्मज्जितोंभोधौतेन राजपुरीश्वरः ॥१५॥
स चन्द्रराजं निर्जित्य पुत्रामात्यसमन्वितम् ।
जयवल्लीं च नगरीमग्रहीन्निरवग्रहः ॥१६॥
दत्तोऽवरंगशाहाय मया यः सन्धिकाम्यया ।
नीवृनिजामशाहस्य सपर्वतवनाकरः ॥१७॥
स तेनात्मवशेनास्मानवमत्य प्रतापिना ।
परानप्यविनीतेन प्रसह्य स्ववशीकृतः ॥१८॥
अतर्कितागमोऽ‍भ्येत्य दस्युवृत्तिपरायणः ।
मत्पत्तनपुरग्रामानुद्वृत्तोऽयं विलुण्ठति ॥१९॥
अहोरात्रेण पक्षेण गम्यं पक्षद्वयेन च ।
अत्येति स किलाध्वानं क्षणेनैवाकुतोभयः ॥२०॥
अयं कौमारमारभ्य निकृतिप्रकृतिः स्वयम् ।
यवनानवजानाति जाग्रदुग्रपराक्रमः ॥२१॥
आक्रम्य ताम्रवक्त्राणां नगराण्युरुविक्रमः ।
नगरप्रभृतीन्येष चण्डचण्डमदण्डयत् ॥२२॥
स्थैर्यं निजामराष्ट्रस्य गृहीतस्यापि यत्नतः ।
अपि दिल्लीपतिर्नैव मनुतेऽस्माद्विशंकितः ॥२३॥
पितामहेन मे पूर्वं पिता तस्य विवर्धितः ।
शाहराजो दुर्विनीतं तं न शिक्षयितुं क्षमः ॥२४॥
अयं विगृह्य पित्रा मे निगृहीतं प्रतापिना ।
शाहराजं महाबाहुर्बलनैव व्यमोचयत् ॥२५॥
नो दूयते परभयादयमल्पवया अपि ।
अतिक्रामति चाप्यस्मान् विस्मापकपराक्रमः ॥२६॥
दिने दिने वर्धमानः प्रतापेन सह श्रिया ।
अयमाश्रीयते भूपैराकांक्षितसमृद्धिभिः ॥२७॥
शनैः शनैरेष बली पदं कुर्वन् पुरः पुरः ।
अस्मद्राज्यं समाच्छिद्य करिष्यति किमात्मसात् ॥२८॥
तज्जयाय पुरा वीरान् यान्यान्प्रास्थापयं मुहुः ।
न प्राप्ताः पुनरावृत्तिं ते तं प्रप्य प्रतापिनम् ॥२९॥
निर्वाणमरिवीराणां कुर्वाणमकुतोभयम् ।
त्वां विना तस्य जेतारं नान्यं पश्यामि कंचन ॥३०॥
तस्मात्वमेव गत्वा तं कृतदुर्गपरिग्रहम् ।
सविग्रहं ग्रहमिव निगृह्यानय दुर्गहम् ॥३१॥
कवीन्द्र उवाच
एवमुक्तोऽतिविश्रंभादल्लीशाहेन मानिना ।
प्रोवाचाफजलः प्रीत्या प्रस्तुतार्थमयं वचः ॥३२॥
अफजल उवाच
विश्रंभेणापि च प्रेम्णा यदाज्ञापयति प्रभुः ।
तस्य कर्ता स एव स्यात् गुणीभूतस्तु किंकरः ॥३३॥
द्विषद्वर्गक्षयकरी जागर्ति किल या मयि ।
कार्यमादिशता साद्य शक्तिरुत्तेजिता त्वया ॥३४॥
उग्राय विग्रहायास्मै त्वया प्रेषयता ह्यमुम् ।
अवैम्यनुग्रहेणैष संगृहीतोऽनुगः स्वयम् ॥३५॥
कर्तव्यं भृत्यवर्गाय स्वामी चेन्नसमादिशेत् ।
अस्ति नास्तीति कस्तर्हि तस्य ज्ञास्यति पौरुषम् ॥३६॥
अहमद्धा भृशं बद्ध्वा स्पर्धाकरमहर्निशम् ।
तमन्तकमिवोद्वृत्तमानयिष्ये तवान्तिकम् ॥३७॥
प्रविश्य देशं कार्णाटं निर्जिता शतशो नृपाः ।
स जयस्तमनिर्जित्य जीवतो मे निरर्थकः ॥३८॥
कवीन्द्र उवाच
इत्युक्तवन्तमत्यर्थं समर्थबलदर्पितम् ।
कर्तुं प्रतिश्रुतं कर्म सद्य एव समुद्यतम् ॥३९॥
येदिलोऽफजलं तत्र प्रस्थापयितुमादृतः ।
तदा संभावयामास बहुभिः पारितोषिकैः ॥४०॥
ततः सरत्नपर्याणपृष्ठानुष्ट्रांस्तुरंगमान् ।
तथैवाभरणोपेतान् भद्रजातीन्मतंगजान् ॥४१॥
तनुत्राणि शिरस्त्राणि शस्त्राणि विविधानि च ।
विचित्राणि च वस्त्राणि निजानि बिरुदानि च ॥४२॥
तिरस्कृतविमानानि याप्ययानान्यनेकधा ।
रौप्यान् रौक्मांश्च पर्यंकान् करंकांश्च पतद्ग्रहान् ॥४३॥
रत्नोत्तंसानथोमुक्तास्रजोहीरांगदानि च ।
कटकान्यूर्मिकश्चापि चित्ररत्नचयांकिताः ॥४४॥
तथा द्वीपान्तरोत्थानि जातिश्रेष्ठन्यनेकशः ।
अल्लीशाहादफजलः प्रापत्कोषांश्च कोटिशः ॥४५॥
वज्रधारामिव शितां रत्नकोषनिवेषिताम् ।
निजां पाणिस्थितां प्रादात्प्रभुस्तस्मै कृपाणिकाम् ॥४६॥
स्वामिनैवाथ विन्यस्तां प्रेम्णा सारसनान्तरे ।
सरत्नकोषाभरणां स बभार कटारिकाम् ॥४७॥
ततः पुनः पुनस्तस्मै प्रीत्या प्रास्थानकालिकीः ।
कृत्वा नतीरफजलः प्रचचालाचलोपमः ॥४८॥
प्रचलन्तममुं तावत् प्रणमन्तं मुहुर्मुहुः ।
पदे पदेऽनुजग्राह दिशन्नीशो दयादृशम् ॥४९॥
तं वीरमान्यं सेनान्यं स विधाय महामनाः ।
अन्यानमूंश्चमूनाथांस्तत्साहाय्ये समादिशत् ॥५०॥
अम्बरः शम्बरसमः प्रतापी याकुतः पुनः ।
महामानी मुखेखानः पठानो हसनोऽपि च ॥५१॥
रणदूलहसूनुश्च रणदूलहसंज्ञकः ।
तथैवांकुशखानोऽपि निरंकुशगजक्रमः ॥५२॥
बर्बरः खेलकर्णस्य प्राप्तो यः क्रीतपुत्रताम् ।
स हिलालो महाबाहुः प्रत्यर्थुद्रुमकुंजरः ॥५३॥
इत्येतेऽन्ये च यवनाः ससैन्याःससुहृद्गणाः ।
सद्यः स्वामिसमादिष्टाः तं सेनापतिमन्वयुः ॥५४॥
जितानेकप्रतिभटाः प्रसभं समरोद्भटाः ।
घोरकर्मकृतो घोरफटा अपि तमन्वयुः ॥५५॥
पांडरो नायकश्चैव खराटोऽपि च नायकः ।
कल्याणयादवश्चापि नैकसैनिकनायकः ॥५६॥
समुद्यद्युद्धसंरंभो मंबो भृशबलस्तथा ।
विश्वविश्रुतकर्माणो घांटिकाः कांटिका अपि ॥५७॥
इत्येतेऽन्ये च राजानः सामंताश्च सहस्रशः ।
चतुरंगचमूयुक्तास्तं सेनापतिमन्वयुः ॥५८॥
ततः कार्तान्तिकादिष्टे समये तस्य गच्छतः ।
अभव्यशंसीन्यभवन्दुर्निमित्तान्यनेकशः ॥५९॥
स पक्षपातं क्रोशन्तः प्रकामं वामगामिनः ।
वृथेति कथयामासुर्वायसास्तस्य साहसम् ॥६०॥
बत भेजे दिनार्धेऽपि भानुरस्पष्टभानुताम् ।
प्रजज्वालेवान्तरिक्षं बभूवुर्धूसरा दिशः ॥६१॥
सहसैव महत्युल्का निपपात दिवस्तटात् ।
घनं विनैव च व्योम्नि बभूवाशनिनिस्वनः ॥६२॥
ववाशिरे प्रतिभयं दिशमैन्द्रीं श्रिताः शिवाः ।
भंगमाप ध्वजो यानान्यप्रहृष्टानि चाभवन् ॥६३॥
अवाप सदृशद्रेणु वर्षीवातः प्रतीपताम् ।
बभ्रामाग्रे प्रणुन्नोऽपि वारणः पृतनाग्रणीः ॥६४॥
यद्यप्येतानि चान्यानि तन्निमित्तान्यवारयन् ।
तथापि सरतोत्वाहं नामुंचन्नमुचिर्यथा ॥६५॥
ततः स प्रस्थितस्तस्मात्पत्तनाद्विजयाह्वयात् ।
योजनार्धमिते देशे वसतिं स्वामकल्पयत् ॥६६॥
तत्रागताभिरभितो वाहिनीभिः समन्वितः ।
स निवेशोन्मुखः सैन्यव्यूहोंभोधिरिवावभौ ॥६७॥
महार्हवर्णैरुच्छ्रायच्छ्रादितव्योममण्डलैः ।
नवैरुत्तंभितस्तंभैर्मण्डितं पटमण्डपैः ॥६८॥
प्रोल्लसत्काण्डपटकप्राकारमयमण्डपम् ।
विचित्रासनविस्तारप्रस्तारितसभांतरम् ॥६९॥
पुंजीकृतेष्टभूयिष्टवस्तुसंभारभासुरम् ।
उच्चैरुत्तानितोल्लोचप्रच्छायांचितचत्वरम् ॥७०॥
अविदूरपुरोदेशद्वयीनद्धतुरंगमम् ।
समदद्विरदव्यूहबृंहितस्पृष्टदिक्ततम् ॥७१॥
जागरूकैरहोरात्रं गुटिकायन्त्रधारिभिः ।
कोदंडिभिस्तथान्यैश्च खङ्गखेटकपाणिभिः ॥७२॥
अपारैश्च तथा पारश्वधिकैः शक्तिहेतिकैः ।
अभिगुप्ताष्टदिग्भागमभितस्थितिशालिभिः ॥७३॥
तदनेकानकोदग्रवाद्यनिर्घोषभीषणम् ।
तत्तत्कार्यविधिव्यग्रजनकोलाहलाकुलम् ॥७४॥
यथास्थानस्थिताशेषजनलब्धसुखोदयम् ।
सैन्यं सैन्यपतिः सर्वं गुरुगर्वं व्यलाकत ॥७५॥
संग्रामे साभिमानः स भृशमफजलः स्वामिनो लब्धमानः ।
शौर्यश्रीशोभमानः सपदि भृशबलं भूपतिं जेतुकामः ।
दुर्दैवाकृष्टचित्तः पथि पथि परितो दुर्निमित्तानि पश्यन् ।
वैराटं राष्ट्रमन्तर्गतगुरुनिकृतिः क्षिप्रमभ्याससाद ॥७६॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्र प्रकाशितायांशतसाहस्यां संहितायां अफजलभ्यागमो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP