TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शिवभारत - अध्याय पंधरावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


शिवभारत - अध्याय पंधरावा
कवीन्द्र उवाच
परैः पुरन्दरतटे मुसेखानं निपातितम् ।
प्रभूतं सैन्यमन्यच्च पराक्रम्य पराहतम् ॥१॥
फतेखानं च विमुखीकृतमंतिकमागतम् ।
निशम्य महमूदेन मुमुदे न दिवानिशम् ॥२॥
अथो विदूयमानोऽन्तः फतेखानस्य भङ्गतः ।
स्वे चेतसि चिरस्येत्थं महमूदो व्यचिन्तयत् ॥३॥
अहो अहर्दिवममी अस्माभिः परिपालिताः ।
क्षिण्वन्ति यवनानस्मान् क्शत्रियाः कालनोदिताः ॥४॥
समृद्धिमधिकाम लब्ध्वा दुर्मदात्मा मदाश्रयात् ।
साहसी शाहराजोऽयं मन्नियोगं न मन्यते ॥५॥
अनेन कोपनेनाद्धा विधायोद्धतमाहवम् ।
पुण्डरीकपुरोपान्ते विजितो रणदूलहः ॥६॥
अनेन मन्त्रकलया कलितो मलिकोऽम्बरः ।
निरर्गलेन निकृतः स चानेनार्गलेश्वरः ॥७॥
चिररात्राय पित्रेव येनायं परिपालितः ।
स निजामोऽप्यनेनोच्चैर्निकृतिस्थेन वञ्चितः ॥८॥
कार्णाटकाः क्षोणिभृतः परिहाय मदीयताम् ।
बतैतन्मन्त्रयोगेन प्रथमन्त्येतदीयताम् ॥९॥
मुहुराहूयमानोऽपि नायातोऽयमुपह्वरे ।
अपातयदयं ह्यस्मज्जयं संशयगह्वरे ॥१०॥
अनेनोपकृतः पूर्वमिभरामः पदे पदे ।
निवेशितोऽयं सन्तुष्य तेनाप्यत्युन्नते पदे ॥११॥
अनेन हेतुना ह्यस्य मन्तवः शतशो मया ।
अतिक्रान्ताध्वनोऽत्यर्थं क्षान्ता एव दिने दिने ॥१२॥
आगांसि सुगरीयांसि क्षन्तुं नैव क्षमोऽभवम् ।
तदानीं निग्रहायास्य मुस्तुफाखानमादिशम् ॥१३॥
अस्मिंस्तु निगृहीते‍ऽस्य सुतौ शम्भुशिवावुभौ ।
उन्नद्धीभूय युध्येते मन्निमज्जनलोलुभौ ॥१४॥
पित्रर्थे शम्भुना तत्र फरादः परिभावितः ।
सम्पराये शिवेनात्र फतेखानोऽपि यापितः ॥१५॥
अलं बलमहो शम्भोः किल येन यशस्विना ।
फरादस्तत्र भग्नो न भग्नं किन्त्वद्य मन्मनः ॥१६॥
शिवस्य यस्य हस्तेऽद्य धरौ सिंहपुरन्दरौ ।
सोहंकारं कथंकारं न करिष्यति मय्यरौ ॥१७॥
रणो यत्राजनिष्टायं भीषणो भीष्मपर्वतः ।
सुतरां दुर्ग्रहोऽस्माभिः स पुरन्दरपर्वतः ॥१८॥
बिंबरूरे पुरे शम्भुं शिवं चाद्रौ पुरन्दरे ।
न्यवेशयत शाहोऽयं किमस्मत्परिभूयते ॥१९॥
जनकः शम्भुशिवयोर्न मोक्तव्यो मया यदा ।
समृद्धायै श्रियेऽमुष्यै बत देयोऽञ्जलिस्तदा ॥२०॥
पृदाकुरिव निर्मुक्तो मोक्तव्योऽयं मया यदि ।
अपकारपरस्तर्हि किं मां नापकरिष्यति ॥२१॥
अयं मोक्तव्य इत्येको मोक्तव्यो नेति चापरः ।
मन्त्रयोरुभयोर्मन्ये प्रथमो मद्धितावहः ॥२२॥
सर्वथा जिह्मगस्यास्य रोषो मन्मन्त्रवैभवात् ।
अपकारपरस्यापि परयास्यत्यवकेशिताम् ॥२३॥
इमामुपकृतिं कृत्वा निधास्याम्यस्य मूर्धनि ।
न विस्मरिष्यति ह्येनां कुलीनोऽयं गुणाग्रणीः ॥२४॥
चिरं विचिन्त्य मनसा सुधीर्धीसचिवानिदम् ।
न्यगदद्येदिलो युक्तमित्यमन्यन्त तेऽप्यरम् ॥२५॥
अथ तं मङ्गलस्नानं निर्मलाम्बरभूषणम् ।
परिवेषविनिर्मुक्तं नवीनमिवपूषणम् ॥२६॥
उपह्वरे समानाय्य मानार्हमुपवेश्य च ।
अनुनीय च सोल्लासं महमूदोऽभ्यभाषत ॥२७॥
महमूद उवाच
मत्तो ह्यजानतो जातं तद्धि नो विद्धि जानतः ।
न जगत्त्यत्र दुर्ज्ञेयं राजंस्तव विजानतः ॥२८॥
विहितो मुस्तुफेनोच्चैर्द्वेषादफजलेन वा ।
तं मन्तुतन्तुं राजेन्द्र मदीयं मन्तुमर्हसि ॥२९॥
दिदृक्षुस्त्वामहं यस्मै यत्नानकरवं बहून् ।
बत मे सम्मदः सोऽ‍भूदस्तु वा मास्तु वा तव ॥३०॥
उक्तोऽसि मृदुभिर्वाक्यैः परिमुक्तोऽसि निग्रहात् ।
अभिजातोऽसि भूपाल मदभीष्टपरो भव ॥३१॥
एकामप्युपकारस्य कणिकां प्राप्य निर्वृताः ।
शतमप्यपकाराणां न स्मरन्ति महाव्रताः ॥३२॥
अणुनाप्यपकारेण परिश्रुभितमानसाः ।
उपकारसहस्राणि न स्मरन्त्यपचेतसः ॥३३॥
अपकारसहस्राणि करोत्वलमसज्जनः ।
उपकारसहस्राणि करोत्येव तु सज्जनः ॥३४॥
उपकारं परकृतं स्मरन्ति स्वकृतं न ये ।
त एव धारणावन्तः कृतज्ञाश्च सतां नये ॥३५॥
उपकारपरं लोकं प्रभुर्नोपकरोति यः ।
स्वप्नलब्धा इव सुधा समृद्धा अपि तच्छ्रियः ॥३६॥
शिक्षयस्व कनीयांसं तनयं गर्वपर्वतम् ।
महाराज मदीयं मे देहि तं सिंहपर्वतम् ॥३७॥
न हि मां मुञ्चतितमां सिंहशैलग्रहाग्रहः ।
मदीयेन नियोगेन शिवायास्तु पुरन्दरः ॥३८॥
करोतु मह्यं सोऽप्यद्धा बिंगरूरमुपायनम् ।
यद्भग्नेन फरादेन व्यधीयत पलायनम् ॥३९॥
नियुञ्जते नियोगार्हान् कार्यायार्याः क्षणे क्षणे ।
तन्न कुर्वन्ति ते तर्हि को हेतुः शीलरक्षणे ॥४०॥
प्रभुर्नियुंक्ते कार्यार्थी कार्यार्थी तं निषेवते ।
तयोरन्यतराकार्यान्न कार्यमुभयोरपि ॥४१॥
न सौहित्यं विना पानं विना प्राणं न विग्रहः ।
विराजते महाराज नानुयानं विना नुगः ॥४२॥
किं स्यादुक्तेन बहुना तवाहं त्वं ममाधुना ।
अन्योन्यमवलम्बो नौ लोकस्यास्यावलम्बनम् ॥४३॥
अल्पवर्णमयीमित्थमनल्पार्थगरीयसीम् ।
येदिलः शाहराजाय श्रावयामास भारतीम् ॥४४॥
यत्र यद्व्यञ्जयामास महमूदो वदावदः ।
शाहः स्वेन स्मितार्धेन तत्र तस्योत्तरं ददौ ॥४५॥
स तदानीं महाबुद्धिर्महमूदं मदोद्धतम् ।
तद्दुर्गद्वितयीदानप्रसंदानममन्यत ॥४६॥
अथ तस्य विमुक्तस्य सत्कृतस्य यथायथम् ।
येदिलः सदनद्वारि द्विरदाश्वमबन्धयत् ॥४७॥
स तदा जगदाह्लादतत्परः परसङ्कटात् ।
मुमुचेऽम्भोधरघटापटलादिव चन्द्रमाः ॥४८॥
बन्धुः सर्वस्य लोकस्य मुक्तस्तस्मात् स निग्रहात् ।
व्यराजततरां तत्र दिवाकर इव ग्रहात् ॥४९॥
मुक्तमात्रः स युक्तोऽभूदनीकेन महीयसा ।
दिदीपे जगती सर्वा तदीयेन सुतेजसा ॥५०॥
अथ शम्भुर्महाबाहुरनतिक्रमणीयया ।
बिंगरूरं पुरं सद्यस्तत्त्याज पितुराज्ञया ॥५१॥
समर्थोऽप्याहवं कर्तुमदेयमपि सर्वथा ।
शिवः सिह्माचलं प्रादात् पित्रर्थाय गरीयसे ॥५२॥
अथ निज इति मत्वा पूजयित्वा वचोभिः ।
पदि पदि विहिताभिः प्रीणयित्वोपदाभिः ।
उपचितबहुसेनः प्रेषितो येदिलेन ।
प्रतिभटविजयार्थं शाहराजः प्रतस्थे ॥५३॥
इत्यनुपुराणे कवीन्द्रपरमानन्दप्रकाशितायां संहितायां पञ्चदशोऽध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-11T21:24:50.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

travel on duty

  • कर्तव्यार्थ प्रवास करणे 
  • कर्तव्यार्थ प्रवास करणे 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.