TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शिवभारत - अध्याय नववा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


शिवभारत - अध्याय नववा
कवींन्द्र उवाच ।
अथ देवगिरिं प्रपय दिल्लीन्द्रे मुदितात्मनि ।
दुर्मदे महमुदे च सन्नसैन्ये विषादिनि ॥१॥
शाहो निजामशाहस्य शैलदुर्गाण्यनेकशः ।
शिवनेरिमुखान्याशु बलेन वशमानयत् ॥२॥
गोदावरीं महापुण्यां प्रवरां च प्रभाविणीम् ।
नीरां क्षीरधिसक्षीरां भीमां भीमरथीमपि ॥३॥
श्रितं जनपदं सर्वं समाक्रम्य क्रमेण च ।
स्ववशे स्थापयामास सद्यः सह्यं च पर्वतम् ॥४॥
शक्रप्रस्थस्य शक्रेण विरुद्धोऽयमभूद्यदा ।
महाराजममुं भेजुर्महाराष्ट्रनृपास्तदा ॥५॥
घांटिकाः काम्टिकास्तद्वद्नोकपाटाश्च कांकटाः ।
तोमराश्चाहुबाणाश्च महिताश्च महाद्रिकाः ॥६॥
खराटाः पांडरास्तद्वद्व्याघ्रघोरफटादयः ।
तदा शाहनरेन्द्रेण पृतनापतयः कृताः ॥७॥
अथ शाहजयापेक्षी जहानगिरनंदनः ।
समं येदिलशाहेन सद्यः संधिमयोजयत् ॥८॥
ततो राजतुरासाहं शाहं युधि जिगीवतोः ।
तयोस्समभवत्सीमा भीमा नाम महानदी ॥९॥
मनीषिण ऊचुः
शाहः शाहिजहानस्य सेनया येदिलस्य च ।
साहसी सिंहविक्रान्तः कति वर्षाण्ययुद्धत ॥१०॥
कथं च संधिमकरोत् ताभ्यां द्वाभ्यामपि प्रभुः ।
कवीन्द्र भवतः श्रोतुमिदमीहामहे वयम् ॥११॥
कवीन्द्र उवाच
शाहः साहिजहानस्य येदिलस्य च सेनया ।
अयुध्यत समास्तिस्रः सहस्रकरविक्रमः ॥१२॥
ततो स्वप्नपतिः स्वप्ने धूर्जटिस्तेन वन्दितः ।
तदृशौ दशनोद्योतैर्दीपयंस्तमवोचत ॥१३॥
धूर्जटिरुवाच
अतीव दुर्जयो लोके दिल्लीन्द्रोऽसौ महाद्युतिः ।
तस्मादायोधनावेशात् विरम त्वं महामते ॥१४॥
यदनेन पुरा चीर्णं तपस्तीव्रं दुरात्मना ।
तद्यावदस्त्यसौ तावन्न विनाशमुपैष्यति ॥१५॥
सर्वेऽपि यवनास्तात पूर्वदेवान्वया इमे ।
देवांश्च भूमिदेवांश्च विद्विषन्ति पदे पदे ॥१६॥
यो हन्तुं यवनानेतानेतां भुवमवातरत् ।
स एष भगवान् विष्णुः शिवसंज्ञः शिशुस्तव ॥१७॥
करिष्यत्यचिरेणैव तदेतत्त्वच्चिकीर्षितम् ।
तस्मादनेहसं कंचित् प्रतीक्षस्व महाभुज ॥१८॥
एवमुक्तवति प्रीतिमति देवे कपर्दिनि ।
प्राबुध्यत प्रसन्नात्मा प्रभाते पृथिवीपतिः ॥१९॥
ततो निजामविषयं शाहः स्वविषयं विना ।
दिल्लीन्द्राय ददौ कंचित् येदिलाय च कंचन ॥२०॥
हठशीलोऽपि तं शाहं प्रहाय हठमात्मनः ।
व्यधाद्येदिलताम्राभ्यां संधिं त्रिनयनाज्ञया ॥२१॥
ततो निजामविषयं संप्राप्य मुदितात्मसु ।
परावृत्तेषु ताम्नेषु पराक्रमणकारिषु ॥२२॥
असमर्थमिवात्वानं मन्यमानो महामतिः ।
तदिदं चिंतयामास येदिलो निजचेतसि ॥२३॥
समर्थैः समरांभोधौ निजामो यैर्निमज्जितः ।
तेऽमी ताम्राननाः प्रायो मज्जयिष्यन्ति मामपि ॥२४॥
तस्मादमुं महाबाहुं मालवर्मात्मजं नृपम् ।
साहाय्ये स्वे निधास्यामि विधास्यामि विधित्सितम् ॥२५॥
पूर्वमस्यैवावलंबादिभरामः पिता मम ।
विध्वस्तारातिरध्यास्त निर्विशंकः स्वमानसम् ॥२६॥
सहसावमतः सोऽयं मतिमंदतया मया ।
मामुपेक्ष्य गतो मानादिभरामादनंतरम् ॥२७॥
महामानी महाबाहुरसौ शाहमहीपतिः ।
कृत्वा मदधिकं महाबाहुरसौ वर्धितः ॥२८॥
इति चेतसि संचिन्त्य महमूदो महाद्युतिः ।
अमात्यान् प्रेषयामास सद्यः शाहनृपं प्रति ॥२९॥
अनुनीतः स तैस्तत्र मंत्रिभिर्मंत्रवेदिभिः ।
प्रतिजज्ञे महाबाहुर्येदिलस्य सहायताम् ॥३०॥
अथ शाहमहीपालमवलंब्यावलंबदम् ।
बत प्रतिपदं लेभे महमूदो महामुदम् ॥३१॥
अथो फरादखानस्य सुतं समरर्धूवहम् ।
निखिलानीकिनीमान्यं सेनान्यं रणदुलहम् ॥३२॥
बलिना शाहराजेन महाराजेन संयुतम् ।
प्रतापी प्रेषयामास जेतुं कर्णाटकीवृतम् ॥३३॥
तदा फरादखानेन याकुतेनांकुशेन च ।
हशेन्यंबरखानेन मसूदेन तथा पुनः ॥३४॥
प्रवारघांटिकेंगाळगाढघोरफटादिभिः ।
सुभटैस्सहितैस्तैस्तैः प्रतस्थे रणदूलहः ॥३५॥
अथ सेनाधिपतिना सार्धं तेन महामनाः ।
बली भृशबलो राजा प्राप कार्णाटमंडलम् ॥३६॥
ततो बिंदुपुराधीशं वीरभद्रं महौजसम् ।
वृषपत्तनपालं च प्रसिद्धं केंगनायकम् ॥३७॥
कावेरीपत्तनपतिं जगद्देवं महाभुजम् ।
श्रीरंगपत्तनेंद्रं च क्रूरं कंठीरवाभिधम् ॥३८॥
तंजापुरप्रभुं चापि वीरं विजयराघवम् ।
तथा तंजीपरिवृढं प्रौढं वेंकटनायकम् ॥३९॥
त्रिमल्लनायकाह्वं च मधुरानाथमुद्धतम् ।
पीलुगण्डाखंडलं च बिकटं वेंकटाह्वयम् ॥४०॥
धीरं श्रीरंगराजं च विद्यानगरनायकम् ।
प्रसिद्धं तम्मगौडं च हंसकूटपुरेश्वरम् ॥४१॥
वशीकृत्य प्रतापेन तथान्यानपि पार्थिवान् ।
शाहं संतोषयामास सेनान्यं रणदूलहम् ॥४२॥
कृत्वाऽथ वीरसंहारकारियुद्धमहर्दिवम् ।
युद्धशौण्डात् किंपगौंडात् गृहीतं सुमनोहरम् ॥४३॥
रणदूलहखानेन पारिबर्हमिवार्पितम् ।
सोऽध्यास्त विजयी राजा बिंगरूळाभिधं पुरम् ॥४४॥
अथ तस्मिन् पुरवरे पटुप्राकारगोपुरे ।
सुधावदातसौधाग्रपताकोल्लिखितांबरे ॥४५॥
तत्तत्कारुकलाकीर्नरम्यहर्म्यमयान्तरे ।
विटंकस्थितबंहिष्ठपारावतकृतस्वरे ॥४६॥
वातायनोत्पतन्नीलकंठकूजितपूजिते ।
विस्तीर्णापणविन्यस्तपण्यवस्तुसमन्विते ॥४७॥
प्रतिसद्योल्लसत्कूपे विकसद्दीर्घदीर्घिके ।
नैकशृंगाटकोदंचज्जलयंत्रोच्छल्लज्जले ॥४८॥
प्रफुल्लनिषुटकुटच्छायच्छन्नमहीतले ।
भित्तिविन्यस्तसच्चित्रलुभ्यल्लोकाविलोचने ॥४९॥
नानावर्णाश्मसंबद्धस्निग्धसुंदरमंदुरे ।
विसंकटपुरद्वारकूटकुट्टिममण्डिते ॥५०॥
चयाट्टमस्तकन्यस्तनालायंत्रसुदुर्गमे ।
समीकनिपुणानीकप्रकरप्रतिपालिते ॥५१॥
समन्तादतलस्पर्शपरिखाबारिभासुरे ।
अपारसागराकारकासारपरिशीलिते ॥५२॥
अनिलोल्लासितलताललितोद्यानमण्डले ।
कनकाचलसंकाशदेवतायतनांचिते ॥५३॥
संवसन् वासवसमः स एष नृपसत्तमः ।
निजैः परिजनैः सार्धं विविधं मुदमाददे ॥५४॥
स कदाचिन्मृगयया कदाचित् साधुसेवया ।
कदाचिदर्चया शंभोः कदाचित् काव्यचर्चया ॥५५॥
कदाचिन्नर्तकीनृत्यदर्शनोत्सर्वलीलया ।
कदाचिन्नैकविधया शरसंधानशिक्षया ॥५६॥
कदाचिदायुधागारविन्यस्तायुधवीक्षया ।
कदाचिदात्मसंग्राह्यतत्तत्सैन्यपरीक्षया ॥५७॥
कदाचित् पुष्पितोद्दामनगरोद्यानयात्रया ।
कदाचित् सारसाक्षीभिः शृंगाररसदीक्षया ॥५८॥
कदाचिद्योगशास्त्रोक्तकलया योगमुद्रया ।
प्रभुस्तत्तद्रसमयं समयं समनीनयत् ॥५९॥
जननी शंभुशिवयोस्तत्र यादवनंदिनी ।
जग्राह हृदयं पत्युः शुद्धान्ते सुमहत्यापि ॥६०॥
हलिना हरिणा चापि वसुदेवो यथान्वहम् ।
व्यराजत तथा शाहः शंभुना च शिवेन च ॥६१॥
स तु शंभोः कनीयांसं गरीयांसं गुणश्रिया ।
बहु मेने महाराजः शिवशर्माणमात्मजम् ॥६२॥
यदाप्रभृति संजातः स एष तनयः शिवः ।
तदाप्रभृति शाहस्य समृद्धाः सर्वसंपदः ॥६३॥
अतिष्ठन् द्वारि बहुशो मंदराचलसुंदराः ।
विजितांभोरुहरुचो मदवारिमुचो गजाः ॥६४॥
आसन् सहस्रशश्चापि मंदुरायां मनोहराः ।
वातो इवाशुगतयः सैंधवाः समरोध्दुराः ॥६५॥
ववृधे चाधिकं कोषस्तोषेण सह नित्यशः ।
प्रतापः पप्रथेऽत्यर्थं प्रभावश्च दिने दिने ॥६६॥
दुर्ग्रहाण्यपि दुर्गाणि सुग्रहत्वं प्रपेदिरे ।
विजयस्सर्वदैवासीत् स्वप्नेऽपि न पराभवः ॥६७॥
पुष्पाणां च फलानां च सस्यानां चाभिवृद्धयः ।
साधनेन विना सिद्धिमीयुस्सर्वाश्च सिद्धयः ॥६८॥
एवं समृद्धतां नीतः पुराणपुरुषात्मना ।
सुतेन तेन सुतरां मुमुदे मालनंदनः ॥६९॥
ततस्तं तनयं वीक्ष्य सगुणं सप्तहायनम् ।
लिपिग्रहणयोग्योऽयमिति भूपो व्यचिन्तयत् ॥७०॥
स तं पुत्रं मंत्रिपुत्रैः सवयोभिः समन्वितम् ।
न्यवेशयत गुर्वंके मेधाविनमलोहलम् ॥७१॥
आख्याति लिखितुं यावदाचार्यो वर्णमादिमम् ।
तावद् द्वितीयमप्येष विलिख्य तमदर्शयत् ॥७२॥
सर्वासामपि विद्यानां द्वारभावमुपागताम् ।
लिपिं यथावदखिलां ग्राहयामास तं गुरुः ॥७३॥
तमथ सहजमेधाशालिनं सुस्वाभावं ।
नृपमृगपतिशावं वागगम्यानुभावम् ।
गुरुरुपचितचित्तः शिक्षितानां समूहे ।
द्रुतधृतलिपिविद्यं वीक्ष्य वैलक्ष्यमूहे ॥७४॥
इत्यनुपुराणे निवासकरपरमानंदप्रकाशितायां संहितायां नवमोऽध्यायः ।

Translation - भाषांतर
N/A

Last Updated : 2017-09-11T21:18:42.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

crescentic

  • अर्धचंद्राकार, चंद्रकोर- 
  • अर्धचंद्राकार 
  • अर्धचंद्राकार, अर्धचांद्र 
RANDOM WORD

Did you know?

भारतीय विवाहसंस्थेचा पाया केव्हां घातला गेला?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Latest Pages

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.