TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - एकादशोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


एकादशोऽध्याय: ।
अथात: संप्रवक्ष्यामि धातूनां कौतुकं परम्‍ ।
स्वानुभूतं मया किश्चित्‍ श्रुतं वै शास्त्रत: खलु ॥१॥
तदहं संप्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत्‍ ।
रसकं दरदं ताप्यं गगनं कुनटीसमम‍ ॥२॥
रक्तस्रुहीपयोभिश्च मर्दयेद्दिनसप्तकम्‍ ।
जलयन्त्रेण वै पाच्यं चतुर्विंशतियामकम्‍ ॥३॥
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ।
सहस्रवेधी तत्कल्को जायते नात्र संशय: ॥४॥
एकभागस्तथा सूतो वज्रवल्ल्याऽथ मर्दित: ।
खल्वे त्रिनेम्या: स्वरसे पश्चभागसमन्बिते ॥५॥
वेत्रयष्टया च रागिण्या पीतकल्कं प्रजायते ।
षोडशांशेन दातव्यं द्रुते ताम्रे सुशोधिते ॥६॥
जायते प्रवरं हेम शुध्दं वर्णचतुर्दशम्‍ ।
सुवर्णामाक्षिकं स्वेद्य काज्जिके दिवसत्रयम्‍ ॥७॥
चर्मरडंया रसेनैव मर्दयेद्दिनसप्तकम्‍ ।
जलेन धौतं तावच्च यावध्देमनिभं भवेत्‍ ॥८॥
दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत्‍ ।
दोलायन्त्रे चतुर्यामं पश्चाच्छुध्दतमो भवेत्‍ ॥९॥
मन: शिला पद्यनिभा रक्ता चैव सुशोभना ।
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥१०॥
याममर्धमितं शुध्दा, सर्वकार्येषु योजयेत्‍ ।
नवसारस्तथा सूत: शोधितोऽ ग्रिसह: खलु ॥११॥
समभागानि सर्वाणि मर्दयेन्निम्बजै रसै: ।
मातुलुडंरसैनैव कुमारीस्वरसेन च ॥१२॥
सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके ।
दिनानि त्रीणि तीव्राग्रौ ततस्तदवतारयेत्‍ ॥१३॥
शतांशं वेधयेत्तारं शुध्दं हेम प्रजायते ।
जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥१४॥
शिलया मारितं नागं कुमार्या: स्वरसेन तु ।
पुटव्दादशयोगेन नागभस्म प्रजायते ॥१५॥
शतसडंयानि वै कुर्यात्पुटान्येवं शरावके ।
कुमार्या: स्वरसेनैव भावयेद्दिनसप्तकम्‍ ॥१६॥
पूर्ववत्पुटनं कांर्य शतसडंयामितं तथा ।
सूतभस्मशिलातालसमं चेन्नागभस्मकम्‍ ॥१७॥
त्रिंशव्दनोत्पलैर्दद्यात्पुटं वाराहसंज्ञकम्‍ ।
अनेन विधिना सम्यक्‍ शतसडंयानि दापयेत्‍ ॥१८॥
पुटान्येवं क्रृते त्रीणि शतानि व्दादशाधिकम्‍ ।
पश्चादृढे काचमये कूपे व्दात्रिंशयामकम्‍  ॥१९॥
वालुकाग्रिं प्रदद्याच्च स्वाडंशीतं समुध्दरेत्‍ ।
तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥२०॥
शुध्दहेम भवेत्तेन नात्र कार्या विचारणा ।
दृष्टप्रत्ययोगोऽयं कथितो नात्र संशय: ॥२१॥
गोमूत्रे काज्जिके चाथ कुलत्थे वासरत्रयम्‍ ।
ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत्‍ ॥२२॥
तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवै : ।
सैन्धवं दापयेत्पश्चाच्चतुंर्थाशं विशेषत: ॥२३॥
भागैकं ताप्यकं सूताद्रागांस्त्रीनेव कारयेत्‍ ।
मर्दयेन्निम्बुनीरेण शुध्दवस्त्रेण गालयेत्‍ ॥२४॥
वस्त्रे लग्रा तु या पिष्टी ग्राहयेत्तां भिषग्वर: ।
एवं कृते व्दित्रिवारे ताप्यसत्वं ग्रसेद्रस: ॥२५॥
पिष्टया गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधी: ।
इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं तु शोभनम्‍ ॥२६॥
हीनवर्णसुवर्णऽपि गद्याणे वल्लमात्रकम्‍ ।
तुत्थकं वल्लमात्रं च द्त्त्वा हेम प्रगालयेत्‍ ॥२७॥
तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत्‍ ।
तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत्‍ ॥२८॥
गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत्‍ ।
मन्दवह्रौ च प्रपुटेव्द्दित्रिवारं प्रयत्नत: ॥२९॥
कुडुंमाभं सुवर्ण हि जायते नात्र संशय: ।
 वार्तिकेन्द्रा: कुरुध्वं हि सत्यं गुरुवचो यथा ।
व्दौ वर्णौ वर्धते सम्यडांत्र कार्या विचारणा ॥३०॥
शुध्दं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चात्‍ ढालयेल्लाकुचे हि ।
गन्धाच्चूर्ण ताप्यताम्रावशेषं कृत्वा दद्याव्दल्लकं हीनवर्णे ॥३१॥
वर्णोत्कर्षो जायते तेन सम्यक्‍ सत्यं प्रोक्तं नन्दिना कौतुकाय ।
ताप्यं नागं गन्धकं सूतकं हि हिडूलं वै हेम शुध्दं शिला च ॥३२॥
चूर्ण कृत्वा निक्षिपेत्काचकूप्यामापूर्यान्ते स्वै रसै: शाकजैर्वा ।
अग्रिं दद्याल्लावकाख्ये पुटे च, षष्टिसडंयैर्जायते शुध्दकल्क: ॥३३॥
शुध्दं तारं वेधितं वल्लकेन गद्याणं वै जायते शुध्दहेम ।
अहिरिपुमहितुल्यं सारितं सूतराजे ।
बलिवसगिरिचूर्णै: कान्तपात्रे सुदग्धम्‍ ।
सुविहितफणिभागैर्हेमगर्भेन बध्दो
भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥३४॥
व्दौ भागौ शुध्दताम्रस्य व्दौ भागौ शुध्दहेमजौ ।
चतुर एव भागांस्तु शुध्दतारस्य कारयेत्‍ ॥३५॥
अष्टौ भागा: प्रकर्तव्या रसकस्य प्रयत्नत: ।
अन्धमूषागतं संर्व द्रावितं हेम जायते ॥३६॥
लोहचूर्ण पलमितं सुमलक्षारमाम्रकम्‍ ।
टडंणं शाणमानं हि तैलेनैरण्डजेन वै ॥३७॥
घर्षयेध्दटिकायुग्मं गोलं कृत्वा धमेत्तत: ।
भस्त्रया ध्मापयेत्सम्यग्लोहं रसनिभं भवेत्‍ ॥३८॥
तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधी: ।
लोहं च रसकं पश्चाद्रालितं वज्रमूषया ॥३९॥
लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम्‍ ।
गद्याणके भवेत्तारं तत्तारं शुध्दतारके ॥४०॥
अर्धभागे भवेच्छुध्दं तारं दोषविवर्जितम्‍ ।
खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य च ॥४१॥
वेष्टितं  नरकेशेन द्रुते नागे निमज्जितम्‍ ।
निर्वापितं निम्बुजले चैकविंशतिवारकम्‍ ॥४२॥
द्रुते शुल्बस्य गद्याणे रक्तिकापश्चमात्रकम्‍ ।
कल्कं दद्यात्प्रयत्नेन तारवंर्ण  प्रजायते ॥४३॥
गद्याणे चतुरो वल्लन्‍ रुप्यं दत्त्वा प्रगालयेत्‍ ।
जायते रुचिरं तारं सत्यमेतदुदीरितम्‍ ॥४४॥
शडं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत्‍ ।
गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत्‍ ॥४५॥
निम्बूरसेन धूर्तेन काकमाचीरसेन वै ।
गृज्जनस्य रसेनैव दिनमेकं प्रमर्दयेत्‍ ॥४६॥
अर्कदुग्धेन वै भाग्यं तैलेनैरण्डजेन च ।
यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥४७॥
काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखम्‍ ।
संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम्‍ ॥४८॥
स्वाडंशीतं समुत्तार्य ग्राह्यं सत्वं तदूर्ध्वगम्‍ ।
सत्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम्‍ ॥४९॥
सूतं गद्याणकं स्वच्छं टडंणं वल्लपश्चकम्‍ ।
सूतमात्रं क्षारसत्वं संर्व चैकत्र मर्दितम्‍ ॥५०॥
केतकीभूलरसतो गोलं कृत्वा विशोषितम्‍ ।
तारसंपुटमध्ये तु धारितं तं च गोलकम्‍ ॥५१॥
पश्चात्ताम्रकृतां मूषामष्टवल्लमितां  शुभाम्‍ ।
धान्याभ्रं पडंसदृशं कृत्वा श्रावं तु पूरयेत्‍ ।
वाराहाख्यपुटैकेन जायते कल्क उत्तम: ॥५३॥
ताम्रं व्दादशवल्लं हि रुप्यं वल्लव्दयं तथा ।
वडं वल्लमितं शुध्दं सर्वमेकत्र गालयेत्‍ ॥५४॥
चतुर्गुज्जाप्रमाणं हि दापयेन्मतिमान्‍ भिषक्‍ ।
जायते प्रवरं तारं सत्यमेतदुदीरितम्‍ ॥५५॥
अस्थिभक्षमलवडंमारितं (?) तालकाभ्रविषसूतटडंणम्‍ ।
वज्रिभानुपयसा सुभावितं कुरु नरेन्द्र शुभतारपर्वतम्‍ ॥५६॥
वडं तालकमभ्रं शशिरसं तीक्ष्णं विषं टडंणं
त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम्‍ ।
आरं व्दादशभागमष्ट रविणो बीजं चतुंर्थाशंक
भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम्‍ ॥५७॥
पारदस्य त्रयो भागा भागैकं रजतस्य हि ।
निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नत: ॥५८॥
काज्जिकेन तु तां पिष्टीं स्तम्भयेव्दासरत्रयम्‍ ।
सारयेव्दडंमध्ये तु सूतकं तदनन्तरम्‍ ॥५९॥
सारितं सूतकं तेन तालसत्वेन साधयेत ।
तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नत: ॥६०॥
जायते प्रवरं तारं चन्द्रनक्षत्रसंनिभम्‍ ।
सूतकस्य त्रयो भागा वडंभागव्दयं तथा ॥६१॥
मर्दयेद्दिनमेकं तु काज्जिकेन समन्वितम्‍ ।
सर्वेभ्यस्त्रिगुणेनापि सुम्बलेन प्रमर्दयेत्‍ ॥६२॥
स्रुह्यर्कदुग्धेन समं भावयेव्दासरत्रयम्‍ ।
यवप्रमाणां गुटिकां रवितापेन शोषिताम्‍ ॥६३॥
काचकूप्यां निधायाथ वह्विं कुर्यात्प्रयत्नत: ।
यामषोडशपर्यन्तं वालुकायन्त्रके पचेत्‍ ॥६४॥
स्वाडंशीतं समुध्दृत्य चोर्ध्वगं सत्वमाहरेत्‍ ।
षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत्‍ ॥६५॥
जायते प्रवरं तारं हट्टविक्रययोग्यकम्‍ ।
पलाष्टमात्रं तालं तु व्दिकर्षप्रमितं रसम्‍ ॥६६॥
निम्बूरसेन संमर्द्य वासरैकं प्रयत्नता: ।
पश्चात्तं मर्दयेध्दीमान्‍ तैलेनैरण्डजेन वै ॥६७॥
वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ।
पश्चात्सत्वं समुध्दृत्य मर्दयेदेकवासरम्‍ ॥६८॥
अतसीतिलतैलेन काचकूप्यां निधापयेत्‍ ।
पूर्ववत्पाचयेव्दह्रौ स्वाडंशीतं समुध्दरेत्‍ ॥६९॥
अनेनैव प्रकारेण पुनरेवं तु कारयेत्‍ ।
कूपीतलस्थितं सत्वं ग्राह्यं चेत्प्रवरं सदा ॥७०॥
षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशय: ।
पारदं टडंमात्रं तु लवणं व्दिगुणं तथा ॥७१॥
खल्वे विमर्दयेत्तावद्यावन्नष्टो रसो भवेत्‍ ।
ताम्रं गद्याणकं शुध्दं वडं वल्लमितं कुरु ॥७२॥
द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम्‍ ।
माषमात्रं प्रदातव्यं चतुंर्थाशेन रुप्यकम्‍ ॥७३॥
तद्रुप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ।
तत्रयोदशकं रुप्यं जायते नात्र संशय: ॥७४॥
तालेन निहतं वडं तव्देडेंन तु रुप्यकम्‍ ।
पचेद्यामाष्टकं सम्यक्‍ कल्क एवं प्रजायते ॥७५॥
वल्लं गद्याणके दद्याव्दडं स्तम्भयते ध्रुवम्‍ ।
विदितागमवृध्दैर्हि पुटे पक्कं कनीयसि ॥७६॥
त्रिगुणं चूर्ण्निर्बध्दं तारमायाति काज्जनम्‍ ।
पारदं पलमेकं तु प्रस्थांर्ध शुध्दगन्धकम्‍ ॥७७॥
किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवै: ।
सूर्यातपे मर्दयेध्दि षण्मासावधिमात्रकम्‍ ॥७८॥
षोडशांशेन रजतं विध्यते नात्र संशय: ।
सप्तवर्ण भवेध्देम हट्टविक्रययोग्यकम्‍ ॥७९॥
पारदं गन्धकं शुल्बं माक्षिकं तुत्थकं तथा ।
रसकं दरदं स्वर्णगैरिकं नवसादरम्‍ ॥८०॥
सूरक्षारं शिलां चैव समभागानि मर्दयेत्‍ ।
तदर्ध रसकं मुक्त्वा वज्रमूषे निरुन्धयेत्‍ ॥८१॥
यथा धूमो न निर्गच्छेत्तथा मुद्रां प्रदापयेत्‍ ।
तोलमेकं सुवर्ण हि जायते नात्र संशय: ॥८२॥
घटिकातुर्यमात्रं हि ध्यापयेत्सततं भिषक्‍ ।
दरदं खण्डश: कृत्वा टडंत्रयमितं पृथक्‍ ॥८३॥
वज्रीक्षीरेण तत्स्वेद्यं दोलायन्त्रेण वार्तिकै: ।
तारचूर्ण समं लेप्यं लुडंतोयसमं तथा ॥८४॥
गोर्वरै: पाचयेत्स्वल्पमेवं व्दादशयामकम्‍ ।
पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररज: पृथक्‍ ॥८५॥
कुर्याद्दरदखण्डेन समं सीसं च दापयेत्‍ ।
गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम्‍ ॥८६॥
भस्म मूषोपरि न्यस्य ध्मापयेच्च शनै: शनै: ।
शुध्दशडंनिभं रुप्यं निष्कमात्रं हि नि:सरेत्‍ ॥८७॥
स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका ।
माक्षिकं रसकं तुत्थं  गैरिकं नवसादरम्‍ ॥८८॥
सूरक्षारं सदरदं टडंणेन समन्वितम्‍ ।
प्रतिवल्लव्दयं कुर्यात्कासमर्दप्रसूनकै: ॥८९॥
स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम्‍ ।
सोरक्षारं सदरदं टडंणेन समन्वितम्‍ ।
सैन्धवस्य च भागैकमिष्टिकाभागयुग्मकम्‍ ॥९०॥
स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम्‍ ।
यामत्रितयपर्यन्तं वह्विं कुर्यात्प्रयत्नत: ॥९१॥
स्वाडंशीतं तत: कृत्वा मुद्रिकां तां समुध्दरेत्‍ ।
वर्णाश्चत्वार: संघर्षाव्दर्धन्ते नात्र संशय: ॥९२॥
घोषाक्रुष्टं तु यत्ताम्रं रजतेन समन्वितम्‍ ।
तीक्ष्णचूर्ण तु दरदं घृष्टं कन्यारसेन वै ॥९३॥
पश्चाव्दिधेया गुटिका सूक्ष्मा चैवाढकीसमा ।
वापिता द्राविते द्रव्ये संर्व ताम्रं तु संक्षिपेत्‍ ॥९४॥
रुप्यमानं समुत्तार्य समहेम्रा च गालयेत्‍ ।
जायते दशवर्ण तु सत्यमेतदुदीरितम्‍ ॥९५॥
व्दिपलं शुध्दसूतं च व्दिपलं रसकस्य च ।
तालकं च पलव्दन्व्दं सुर्मिलं युग्ममात्रकम्‍  ॥९६॥
संर्व संमर्दयेत्सम्यक्‍ कुमार्या: स्वरसेन वै ।
पश्चादेरण्डतैलेन मर्दयेद्याममात्रकम्‍ ॥९७॥
कूप्यामारोपयेत्सर्व मुखं ताम्रेण रुन्धयेत्‍ ।
वालुकायन्त्रके सम्यक्‍ पचेव्द्दादशयामकम्‍ ॥९८॥
कूपीमुखे तु यल्लग्रं सत्वं ग्राह्यं प्रयत्नत: ।
शुल्बे षोडशवेधेन कारयेद्रजतं वरम्‍ ॥९९॥
सूतकं पलमेकं तु शडांभं सुर्मिलं पलम्‍ ।
एरण्डतैले घृष्टं तध्दारितं खर्परे वरे ॥१००॥
अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम्‍ ।
पश्चाच्चुल्यां समारोप्य वह्विं कुर्याच्छनै: शनै: ॥१०१॥
सांर्ध यामं तत: पाच्यं स्वाडंशीतं समुध्दरेत्‍ ।
ताम्रपात्रे तु यल्लग्रं सर्व सत्त्वं समाहरेत्‍ ॥१०२॥
घृताक्तं टडंणोपेतं गालितं मूषिकामुखे ।
देयं तव्दल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम्‍ ।
शडंभं जायते ताम्रं नात्र कार्या विचारणा ॥१०३॥
तालं ताम्रं रीतिघोषं समांशं कुर्यादेव गालितं ढालितं हि ।
अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रुप्ये ।
शुध्दं रुप्यं षोडशाख्यं हि सम्यग्जातं दृष्टं नानृतं सत्यमेतत‍ ॥१०४॥
ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि ।
तेन ताम्रेण रसकं सप्तवारं च वाहयेत्‍ ॥१०५॥
स्वर्णवर्ण हि तत्ताम्रं जायते नात्र संशय: ।
भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम्‍ ॥१०६॥
ताप्यसत्त्वेन संयुक्तं शतवारं पुन: पुन: ।
जपापुष्पनिभं स्वर्ण जायते नात्र संशय: ॥१०७॥
दशवर्णस्य गद्याणे हेम रक्तं च वल्लकम्‍ ।
व्दौ वर्णौ वर्धत: सम्यग्घट्टविक्रययोग्यकम्‍ ॥१०८॥
श्वेतसौवीरकं शुध्दं पाचितं विषमुष्टिना ।
स्वच्छे सूतवरे वल्लं निक्षिप्तं रुप्यक्रृद्रवेत‍ ॥१०९॥
शुध्दस्फटिकसंकाशं सुर्मिलं दृश्यते कचित्‍ ।
मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम्‍ ॥११०॥
घटिकाव्दयमानेन शुध्दकल्कं प्रजायते ।
चतु:षष्टयंशमानेन वेधयेच्छुल्बकं शुभम्‍ ॥१११॥
जायते प्रवरं तारं सर्वदोषविवर्जितम्‍ ।
पुष्पकाशीसकं रस्यं मर्दयेदर्कपत्रजे  ॥११२॥
 रसेऽथ चक्रिकां कुर्याद्रसकस्य पलोन्मिताम्‍ ।
वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत‍ ॥११३॥
त्रिंशव्दनोपलै: सम्यक्‍ पुटं दद्यात्प्रयत्नत: ।
अनेन विधिना सम्यक्‍ पुटान्येवं हि विंशति: ॥११४॥
षोडशांशेन रजतं विध्यते नात्र संशय: ।
सप्तवर्णसुवंर्ण हि जायते नात्र संशय: ॥११५॥
सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता ।
कदल्या: क्षारकेणैव तथापामार्गसंभवै: ॥११६॥
मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत्‍ ।
अनेन विधिनाऽऽपूर्या व्दितीया मूषिका शुभा ॥११७॥
मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत्‍ ।
सूतकं बन्धमायाति वडांभं तु प्रजायते ॥११८॥
द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ।
नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम्‍ ॥११९॥
पश्चादाकृष्णकणकानाकृष्य किल कण्डयेत्‍ ।
तानि शालिसमेतानि तावच्छुभ्राणि कारयेत्‍ ॥१२०॥
पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत्‍ ।
मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥१२१॥
मूषिकां कारयेच्छुध्दां स्फाटिकीं दहनोपलाम्‍ ।
मौक्तिकानि तु सूक्ष्माणि निम्बुद्रावे निधापयेत्‍ ॥१२२॥
अहोरात्रेण सर्वाणि नवनीतसमानि च ।
तस्य पडंस्य गुटिकां मसृणां तु प्रकारयेत्‍ ॥१२३॥
पश्चात्ता मूषिकामध्ये चित्राघर्मे व्दियामकम्‍ ।
चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥१२४॥
अर्कभा: पातयेत्सर्वा मध्यभाजनकोपरि ।
बध्यते मौक्तिकं श्रेष्ठतरं सर्वगुणैर्युतम्‍ ॥१२५॥
सूतको व्दिपल: कार्य: सुम्बिलश्च चतुष्पल: ।
चतुष्टाडंमिता कार्या स्फटिकी निर्मला शुभा ॥१२६॥
वृश्चिकालीरसे घृष्टा दिनमेकं तु वार्तिकै: ।
पश्चाच्च शोषयेत्सर्व यन्त्रे डमरुके न्यसेत्‍ ॥१२७॥
गैरिकं स्थापयेत्पूर्व खटिकां च तथोपरि ।
तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम्‍ ॥१२८॥
टडंमानं प्रकर्तव्यं तस्योपरि च सूतकम्‍ ।
सूतकोपरि सारं हि पूर्वोक्तं टडंमानकम्‍ ॥१२९॥
मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत्‍ ।
अग्रिं कुर्यात्प्रयत्नेन यामषोडशमात्रया ॥१३०॥
स्वाडंशीतं समुत्तार्य ऊर्ध्वलग्रं तु ग्राहयेत्‍ ।
पश्चात्खल्वे निधायाथा वृश्चिकाल्या प्रमर्दयेत्‍ ॥१३१॥
काचकूप्यां क्षिपेत्‍ सर्व कूपीं वालुकायन्त्रके ।
वह्विं व्दादशभिर्यामै: कुर्याच्छीतं समाहरेत्‍ ॥१३२॥
वल्लमात्रं ततो दद्यात्सार्धटडें सुताम्रके ।
दृष्टप्रत्ययोगोऽयं नाथासुन्दरभाषित: ॥१३३॥
शुध्दशडंस्य चूर्ण हि सूक्ष्मं कृत्वा प्रयत्नत: ।
अर्धभागं च दरदं चूर्णयेन्मतिमांस्तत: ।
सद्य: सूताविकक्षीरं तेन दुग्धेन मर्दयेत्‍ ॥१३४॥
वर्तिं विधाय मतिमान्‍ कार्पासास्थिषु स्वेदयेत्‍ ।
स्वाडंशीतं समुत्तार्य प्रवालं रुचिरं भवेत्‍ ॥१३५॥
इति पद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे धातुकौतुकनिरुपणात्मक एकादशोऽध्याय: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T20:09:37.9970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

periarteritis nodosa

  • पर्विल परिरोहिणी शोथ 
  • गाठाळ परिरोहिणीशोथ 
  • (also polyarteritis) 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site