TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - अष्टमोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


अष्टमोऽध्याय: ।
भवति गदगणानां नाशनं येन सद्यो
विविधरसविधानं कथ्यतेऽत्रैव सम्यक्‍ ।
रसनिगमसुधाब्धौ मथ्यमाने मयैव
गणितरसशतानां संग्रह: प्रोच्यते वै ॥१॥
अथ रसा:
ज्वराडुंशो रस: ।
सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजम्बुकस्य ।
रुध्दाऽथ भाण्डे विपचेच्च चुल्ल्यां यामव्दयं शीतगतं समुध्दरेत्‍ ॥२॥
ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं विभजेत्प्रभाते ।
तं नागवल्ल्या दलजैर्द्रवैश्च निहन्ति वातोद्रवकं ज्वरं च ॥३॥
पारदं रसकगन्धतालकतुत्थटडंणयुतं सुशोधितम्‍ ।
मर्दयेच सममात्रमेकत: कारवेल्लजरसैर्दिनं तथा ॥४॥
लेपयेच रविभाजनोदरे चाडुंलार्धमपि मानमेव हि ।
ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयत्रमध्यत: ॥५॥
धान्यकान्युपरि मुज्चितानि चेत्‍ संस्फुटन्ति यदि शुध्दमित्यति ।
जायतेऽतिरुचिरो ज्वरारिक: सेवितो ज्वरगणापहारक: ॥६॥
माषमात्रमुषणै: समै: सदा पर्णखण्डसहितैश्च भक्षित: ।
नाशयेध्दि विषमोद्रवान्‍ ज्वरानन्धकारमिव भास्करोदय: ॥७॥
तरुणज्वरारिरस: ।
तालताम्ररसगन्धतुत्थकांश्छाणमात्रतुलितान्समानपि ।
निष्कमात्ररुचिरां मन: शिलां मर्दयेत्रिफलकाम्बुभिर्द्दढम‍ ॥८॥
गोलमस्य च विधाय संपुटे पाचयेच पुटयोगत: सदा ।
अर्कवज्रिपयसा सुभावयेत्‍ सप्तवारमथ दन्तिकाशृतै: ॥९॥
माषमात्ररसमेव भक्षितं शाणमानमरिचैर्युतं सदा ।
सार्धनिष्कगुडमत्र योजितं तच्च सौरसदलव्दयावितम्‍ ॥१०॥
शीतपूर्वमथ दाहपूर्वकं व्द्याहिकं च सकलान्‍ ज्वरानपि ।
नाशयेध्दि तरुणज्वरारिक: सर्वदोषशमन: सुखावह: ॥११॥
ज्वरघ्री गुटिका ।
भागैक: स्यात्पारद: शोधितश्च एलीय: स्यात्पिप्पली श्रेयसी च ।
आकल्लौ वै गन्धक: सार्षपेण तैलेनायं शोधितो बुध्दिमद्रि: ॥१२॥
तुर्यान्‍ भागानिन्द्रवल्लीफलानां कृत्वा चूर्ण शोषयेत्सूर्यतापे ।
चूंर्ण वै तद्रावयेत्तद्रसेन माषैस्तुल्यां कारयेव्दै वटीं च ॥१३॥
दत्त्वा चैकां जातसद्योज्वराय छिन्नाडांया: काथपानं विधेयम्‍ ।
दोषोद्रूतां संनिपातोद्रवां च जूर्तिं सम्यड्रांशयत्येष तीव्राम्‍ ॥१४॥
ज्वरकृन्तनो रस: ।
शुध्द: सूतो गन्धको वत्सनाभ: प्रत्येकं वै शाणमावा विधेया: ।
धूर्ताव्दीजं कारयेव्दै त्रिशाणं सर्वेभ्यो वै व्दैगुणा हेमवल्ली ॥१५॥
सूक्ष्मं चूर्ण कारयेत्तत्प्रयत्नाद्देयं गुज्जाव्दिप्रमाणं च सम्यक्‍ ।
भक्षेदांर्द्र चानुपाने ज्वरार्त: सद्यो हन्यात्सर्वदोषान्‍ ज्वरांश्च ॥१६॥
ज्वरारिरस: ।
सूतं गन्धं हिडुंलं दन्तिबीजं भागैर्वृध्दं कारयेच्च क्रमेण ।
चूर्ण कृत्वा मर्दितं दन्तितोये गुज्जामात्रं भक्षितं जूर्तिहारि ॥१७॥
ज्वरे सूर्यरस: ।
एकं भागं वत्सनाभं च कुर्याव्द्दौ भागौ चेट्टकंणं दन्तिबीजम्‍ ।
त्रीण्येवैते हिडुंलस्यापि तुर्य: सद्यो जूर्तिं नाशयत्येष सूर्य: ॥१८॥
प्रतिज्ञावाचको रस: ।
शुध्दं सूतं भागमेकं तु तालाव्द्दौ भागौ चेव्देदसंख्या: शिलाया: ।
ताम्रस्यैवं भागयुग्मं प्रकुर्याद्रल्लातं वा वेदभागं तथैव ॥१९॥
अर्कक्षीरैर्भावयेच त्रिवारं कृत्वा चूर्ण कारयेद्रोलकं तत्‍ ।
स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैन्धवेना ॥२०॥
धूमस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात‌ खेदनं मन्दवह्रौ ।
पश्चात्तोयेनैव भाव्यं च चूंर्ण गोलं कृत्वा मन्दवह्रौ विपाच्या ॥२१॥
पश्चादेनं भक्षयेव्दै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम्‍ ।
तव्दत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदाषोत्थितां वै ॥२२॥
ज्वराडुंशो रस: ।
सूतगन्धविषकारवीकणादन्तिबीजमिति वर्धितै: क्रमात्‍ ।
मर्दितैश्च दशनिम्बुकद्रवै रक्तिकार्धतुलिता वटीकृता ॥२३॥
भक्षिता ज्वरगणान्निहन्ति वै सद्य एव विनिहन्ति सूचिकाम्‍ ॥२४॥
ज्वराडुंशो रस: ।
एक एव कथितस्तु सोमल: खेदितोऽपि सह चूर्णजलेन ।
यामपूर्वमपि रक्तिकामितो भक्षित: सकलशीतजूर्तिहृत्‍ ॥२५॥
अथातीसारशमनान्‍ रसान्‍ संकथयामि वै ।
भक्षिताश्चैव ये नित्यं सद्य:प्रत्ययकारका : ॥२६॥
शुध्दं सूतं गन्धकं वै समांशं चित्रोन्मत्तैर्मर्दयेव्दासरैकम्‍ ।
चूर्णैरेतै: शडंमापुरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात‍ ॥२७॥
तस्याध:स्तादष्टयामं प्रकृर्याव्दह्रिं शीते कर्षमात्रं विषं हि ।
दत्त्वा, घर्मे त्रीणि चापि पुटानि दद्यात्तव्दत्‍ कन्यकाया रसेन ॥२८॥
वल्लं योज्यं जीरकेणाथ भृडंया क्षौद्रैर्युक्तं भक्षितं च ग्रहण्याम्‍ ।
श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्श:सु विडंहे चातिसारे ॥२९॥
सौभाग्यं वै हिडुंलोत्थं विषं च मारीचं वै हेमबीजेन युक्तम्‍ ।
कृत्वा चूर्ण सर्वमेतत्समांशं जम्बीरै र्हि मर्दितं यामयुग्मम्‍ ॥३०॥
गुज्जामात्रा निर्मिता भक्षिता च गुटी हन्यात्सन्निपातातिसारम्‍ ।
जातीपत्रं देव पुष्पं च शुण्ठी कडोंलं चेचन्दनं कुडुंमं च ॥३१॥
कृष्णाचूंर्ण शुध्दमाकल्लकं स्यात्‍ सर्वाण्येवं चूर्ण्यव्दै समानि ।
सूतस्येवं भस्म मिश्रं प्रकृर्यात्‍ भागं चैकं मिश्रयेन्नागफेनम्‍ ॥३२॥
खल्वे सर्व मर्दिंतं चैकयामं कार्या गोली वल्लमात्रा जलेन ।
भक्षेद्रात्रौ पाययेत्तण्डुलोदं हन्यात्सर्वान्‍  सर्वदोषातिसारान्‍ ॥३३॥
मारीचं चेट्ट्कंणं हिडुंलं च गन्धाश्मा वै पिप्पलीवत्सनाभम्‍ ।
धूर्तस्येवं बीजकानीह शुध्दान्येवं कृत्वा तच्च चूंर्ण विधेयम्‍ ॥३४॥
प्रात: सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेचातिसारम्‍ ।
दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यात्सर्वान्‍ सर्वदोषातिसारान्‍ ॥३५॥
कर्पुरजातीफलजातिपत्रिकाधत्तूरबीजं जलराशिशोषणम्‍ ।
आकल्लकं व्योषमिदं समांशं व्दीपान्तरोत्था च कुबेरकाक्षम्‍ ॥३६॥
सर्वौषधार्धा विजया प्रदिष्टा जीर्णाहिफेनं च तया समानम्‍ ।
तदर्धभागं खलु वत्सनाभं स्यादेकतश्चात्र विधाय चूर्णम्‍ ॥३७॥
तद्रावितं भृडंरसेन सम्यक्‍ कोलास्थिमात्रा गुटिका विधेया ।
सा शीतवाते ग्रहणीगदे च अर्शोविकारे प्रबलातिसारे ॥३८॥
मन्दे च वह्रौ स्मरपुष्टिकर्त्री साऽऽफेनसेवाकुलमुक्तिदात्री ।
तारं स्वंर्ण माक्षिकं शुध्दलोहं भागं चैकं गन्धकं भागयुग्मम्‍ ॥३९॥
शुध्दं सूतं मारितं तत्रिभागं खल्वे संर्व मर्दितं वासरैकम्‍ ।
संर्व योज्यं हारिणे शृडंकेऽपि लेप्यं मृत्स्रा वाससा वेष्टितं च ॥४०॥
वाराहाख्ये तत्पुटे गर्तमध्ये आरण्यैर्वै गोमयै: पाचयेध्दि ।
उत्तार्यैनं स्वाडंशीतं प्रकुर्यात्‍ खल्वे धृत्वा मर्दयेत्तं सुवैद्य: ॥४१॥
पश्चादेनं खे रसेनाथ सम्यक्‍ भृडांह्राया भावयेत्सप्तवारान्‍ ।
चूर्ण दत्त्वा लोध्रमुस्तामदाह्रच्छिन्नापाठाशक्रबीजोद्रवं च ॥४२॥
कापित्थैर्वा स्वै रसै: सुशृतैर्वा भाव्यं संर्व त्रीणि वाराणि सम्यक्‍ ।
सम्यक्‍ शुष्कं गालितं वस्त्रखण्डे माषं चैकं लेहितं माक्षिकेण ॥४३॥
कृष्णाचूर्णैर्माषयुग्मैश्च युक्तं हन्याच्चायं ग्रहणीं दोषजां वै ।
गन्धं यवक्षारमथाभ्रकं च सूतं विषं टकंणमेव शुभ्रम्‍ ॥४४॥
वचाग्रिमन्थं सममत्र कुर्याज्जयन्तिजम्बीरकभृडंजद्रवै: ।
विमर्दयेत्तं त्र्यहमेव यत्नाद्रोलं विधायाथ विशोष्य सम्यक्‍ ॥४५॥
लोहस्य पात्रे च शरावकं वै दत्त्वा दृढं चोपरि मुद्रयेत्तम्‍ ।
अध्यर्धयामं शनकै: प्रकुर्याव्दह्रिं सुशीतं हि ततोऽवतारयेत्‍ ॥४६॥
रसेन तुल्यां प्रविषां प्रदद्यात्‍ कपित्थभृडींरसमोचकैश्च ।
देया बुधैर्भावनिकाश्च सप्त सूर्यातपे वै हि विमर्द्य खल्वे ॥४७॥
तथेन्द्रबीजानि च धातकी च बिल्वस्य पत्रं च पृथक्समं स्यात्‍ ।
आसा रसैर्भावय चैकवेलं पश्चाच्च संमर्द्य विधाय चूर्णम्‍ ॥४८॥
रसं च वज्राख्यकपाटकं हि शाणैकमात्रं मधुनाऽ वलीढम्‍ ।
सवह्रिशुण्ठीबिडसैन्धवं च उष्णाम्बुना वा मथितेन सम्यक्‍ ॥४९॥
पीतं तद्रुग्रं ग्रहणीविकारं हिनस्ति वातप्रभवां रुजं च ।
तथा कफोत्थां च सपैत्तिकां हि हन्यादतीसारहरं परं स्यात्‍ ॥५०॥
रालमोचरसनागफेनकं वत्सकातिविषमेव नागरम्‍ ।
चूर्णितं च मधुनावलेहितं वल्लमात्रमतिसारकं जयेत्‍ ॥५१॥
मिश्रदेशजमतीव शुध्दकं नागफेनमपि नागरावृतम्‍ ।
घर्षितं तु वरचन्दनैर्युतं कारयेच्च वटिकां सुशोभनाम्‍ ॥५२॥
रक्तिकात्रयमितां च भक्षयेत्‍ पाययेत्तदनु तन्दुलोदकम्‍ ।
हन्ति चैवमतिसारकं सदा चामदोषमलनाशिनी भवेत‍ ॥५३॥
अडोंल्लमूलप्रभवा त्वचा च छायाविशुष्काऽथ विचूर्णिता वै ।
चूर्ण लिहन्‍ शाणमितं समाक्षिकं जयेदतीसाररुजं परं च ॥५४॥
गन्धकाभ्ररसलोहभस्मकं शाल्मलीमुसलिकागुडूचीभि: ।
भावयेत्रिफलकार्द्रकन्यकावह्रिशक्रजरसैश्च सप्तधा ॥५५॥
जायते हि भुविजोऽमृतस्रव: प्लीहपाण्डुविनिवृत्तिदायक: ।
वल्लयुग्मपरिमाणतस्त्वयं लेहितश्च घृतमाक्षिकान्वित: ॥५६॥
शोफपाण्डुविनिवृत्तिदायक: सेवितश्च यवचिश्चिकाद्रवै: ।
स्वर्णरुप्यमथ शाणमात्रकं शुध्दाताम्रमथ तत्समं कुरु ॥५७॥
रसवरं सकलेन समं हि वै पिष्टिकां कुरु विमर्द्य च गोलकम्‍ ।
गन्धकेन परिवेष्टय गोलकं पाचयेच्च मतिमान्‍ भिषक्‍ सदा ॥५८॥
भूमिमध्यनिहितं सुयत्रितं यामषटमथवाष्टकं तत: ।
गन्धमन्यमपि निक्षिपेत्पुटे एवमत्र परिजारयेद्रुध: ॥५९॥
निम्बुजेन परिपेष्य षडुंणं गन्धचूर्णमथ लोहचूर्णकम्‍ ।
योजयेच्च पलमानतस्तो लोहपात्रकुहरे पुटत्रयै: ॥६०॥
पाचयेच्च चिरबिल्ववह्रिना पाण्डुनाशनरसस्ततो भवेत्‍ ।
वल्लमस्य मधुपिप्पलीयुतं लेहितं सकलपाण्डुनाशनम्‍ ॥६१॥
सूक्ष्मं ताम्रदलं  विलेप्य बलिना सूतेन चापि तथा
स्थालीमध्यगतं सुपाचितमिदं यामव्दयं वह्रिना ॥
नागं गन्धकसंयुतं च पुटितं चित्रार्द्रसंमिश्रितम्‍
चूर्णीकृत्य समं सुशोमनरसं संयोजयेच्छास्त्रवित्‍ ॥६२॥
शोफपाण्डुकफवातनाशनो रक्तिकैकपरिमाणतस्त्वयम्‍ ।
सेवयेच्च लघु चान्नभोजनं तैलमम्लवणामिषं विना ॥६३॥
पाण्डुसूदनरस: ।
सूतं तीक्ष्णकमेव गन्धसहितं भागेन संवर्धितं
पश्चात्खल्वतले विमर्द्य विधिना चूर्णीकृतं गालितम्‍ ।
कूप्यां संविनिवेश्य सुमृदया संलेपितायां पचेत्‍
यामव्दादशमात्रकं हि सिकतायत्रेण वैद्य: सदा ॥६४॥
प्रक्षिपेच्च वरशाल्मलीरसं त्रैफलं च गुडवल्लिकाद्रवम्‍ ।
पाचयेच्च मृदुवह्रिना दिनं स्वाडंशीतलमयं प्रगृह्य च ॥६५॥
त्र्यूषणार्द्रकरसेन भावयेत्पाण्डुसूदनरसोऽयमीरित: ।
शुष्कपाण्डुविनिवृत्तिदायको रोगराजहरण: प्रकीर्तित: ॥६६॥
मृगाडंरस : ।
सूक्ष्माणि पत्राणि हि हाटकस्य भूर्जोपमान्यप्यथ कारयेच्च ।
तुल्यानि सूतेन समेन खल्वे क्षिप्त्वा त्वाहोरात्रमु तानि मर्दयेत्‍ ॥६७॥
ज्वालामुखीस्वरसकेन च काश्चनार
काथेन लाडंलीरसेन तथा विमर्द्य ।
पिष्टी यथा दृढतरा भवतीह पश्चा
द्रोलं विधाय रुचिरं सह टकंणेन ॥६८॥
सर्वै: समानमथ गन्धवरं विशुध्दं
गोलं विधाय रुचिरं रविघर्मशुष्कम्‍ ।
वस्त्रेण वेष्टितमिदं मृदया च लिप्तं
तच्छ्रावसंपुटवरेऽपि विमुद्रितव्यम्‍ ॥६९॥
धांर्य ततो लवणपूरितभाण्डमध्ये
दद्यात्ततो छगणकैर्बहुभि: पुटं तु ।
शीतं प्रयातमुपलक्ष्य तत: प्रयत्ना
द्बृष्टा च पूर्वविधिवत्‍ खलु यन्त्रमध्ये ॥७०॥
दत्त्वा पुटं गजपुटेन च शीतमत्र
भक्षेदिमं रसवरं सुखदं नृणां हि ।
क्षौद्रेण युक्तमगधात्रयसंयुतोऽसा
वष्टाभिरुषणवरै: सह सेवनीय: ॥७१॥
एकोनत्रिंशदथ रोगगणान्निहन्ति
यक्ष्माणमेव विनिहन्त्यतिशोषमुग्रम्‍ ।
नाम्रा मृगाडं उदित: सकलामयघ्र:
सेव्यो मुदा धनवता पुरुषेण नित्यम्‍ ॥७२॥
हेमगर्भपोटलीरस: ।
शुध्दं स्वर्ण कर्षमात्रं प्रकुर्यात्तव्दत्सूतं शोधितं मुष्टिमात्रम्‍ ।
घृष्टा पिष्टीं कारयेत्खल्वमध्ये गन्धो देय: शाणका: पश्चविंशत्‍ ॥७३॥
मंर्द्य संर्व काज्चनारद्रवेण कृत्वा गोलं निक्षिपेन्मूषिकान्त: ।
मुद्रां दत्त्वा शोषयेद्रधराख्ये यन्त्रे चैनं पाचयेव्दासरान्‍ त्रीन्‍ ॥७४॥
शीतं तं वै सर्वमुद्रृत्य दद्याच्छुद्रं गन्धं तत्समं मर्दयेच्च ॥७५॥
कुर्यादेवं टडंणं चाष्टमांशं नागं दद्याट्ट्कंणादर्धभागम्‍ ।
सेहुण्डोत्थैर्दुग्धकैरेव पिष्टा लिम्पेदेवं तान्वराटांश्च सर्वान्‍ ‍ ॥७६॥
पश्चात्सम्यक्‍ चूर्णालिप्तेऽथ भाण्डे दत्त्वा मुद्रां गर्तमध्ये निवेश्य ।
पुटं पश्चाज्ज्वालयेन्नागसंज्ञं शीतं कृत्वा चोध्दरेत्तं रसं हि ॥७७॥
पथ्यं ज्ञेयं यादृशं वै मृगाडें क्षारं चाम्लं वर्जयेच्च प्रयत्नात‍ ॥७८॥
मात्रा वल्लमिता धृता रसवरेष्वेवं यदा छर्द्यते
छिन्नाया: स्वरसस्तदा मधुयुत: पेयो जलं वा मधु ॥
प्राय: श्लेष्मजरुग्गणेषु सगुडं दद्यात्सदा चार्द्रकं
भृडींचूर्णसुयोजितो मधुयुतो लीढो विरेकापह: ॥७९॥
कासं श्वासयुतं क्षयं ग्रहणिकामग्रेश्च सन्धुक्षण:
पुष्टिं वै कुरुते बलं वितनुते कार्श्य परं नाशयेत्‍ ॥
हेम्रो गर्भरसो ह्ययं निगदितो व्याधेस्तु विध्वंसको
नाम्रा पोटलिकाभिधो रसवर: प्रोक्तो व्दितीय: खलु ॥८०॥
व्दितीयपोटलीरस: ।
भागा रसस्य खलु वेदमिताश्च हेम्र:
पिष्टीं विधाय वरगन्धदशव्दिभागै: ।
खल्वे निधाय किल कज्जलिकां तथैषां
मुक्ताफलान्यपि च षोडशभागकानि ॥८१॥
तुर्याशकानपि च शुध्दवराट्कांश्च
शृडं तथा कलितटडंणभागमेकम्‍ ।
संर्व विमर्द्य खलु निम्बुकजै रसैर्वा
गोलं विधाय खलु संपुटके विदध्यात्‍ ॥८२॥
तन्मुद्रयेल्लवणभस्मवरेण सम्यक्‍
हस्तप्रमाणकृतगर्तवरे सुपूर्य ।
सद्रोमयैर्गजपुटं प्रमितं प्रदद्यात्‍
तत्स्वाडंशीतलगतं च समुद्र्रेध्दि ॥८३॥
पिष्टाऽर्धमाषमिह क्षौद्रघृतेन लिह्या
देकोनत्रिंशमरिचै: सह राजते वा ।
सध्देमजे कृतवतेऽ प्यथ मृण्मयेऽपि
स श्वासकासक्षयवातकृतेऽतिसारे ॥८४॥
मन्दानले भवति पोटलिका व्दितीया
सा सर्वरोगशमनाय बुधै: प्रदिष्टा ।
राजमृगाडंरस: ।
पलैकमानं रसभस्मकं हि स्याध्देमभस्मप्रभवं पलं च ।
शुध्दस्य वडंस्य पलं च तव्दत्तथा च मुक्ता व्दिपलं प्रदद्यात्‍ ॥८५॥
पादांशतष्टडंणमेव सम्यक्‍ खल्वे विमर्द्याथ सहाम्लवेतसा ।
तद्रावयेव्दै यवकाज्जिकेन प्रमर्द्य संर्व दिनसप्तकेन ॥८६॥
गोलं विधायाथ विशोषयित्वा मूषागतं तं खलु पाचयेयध्दि ।
शीतं समुध्दृत्य ततो रसेन्द्रं
विचूर्ण्य धार्य: स तु हेमपात्रे ।
हेम्रस्त्वभावे रजतस्य पात्रे नान्यस्य पात्रेषु निवेशनीय: ॥८७॥
अयं राजमृगाडांख्यो रोगराजस्य घातक: ।
पथ्यं पूर्वोक्तविधिना कारयेन्मतिमान्‍ भिषक्‍ ॥८८॥
लोकनाथरस: ।
बुभुक्षित: शुध्दरसो व्दिभागस्तथा हि गन्धस्य च भागकौ व्दौ ।
व्दयं समं चूर्ण्य विधाय कज्जलीं सूताव्दराटेषु चतुर्गुणेषु ॥८९॥
निक्षिप्य संर्व खलु वै वराटे भागैककं टडंणकं विमर्द्य ।
दुग्धं प्रदद्यादथ भानुजं वै मुद्रां विदध्यात्किल शोषयेच्च ॥९०॥
यत्रे दृढे तं  विनिवेश्य यत्नाव्दह्रिं चतुर्याममध: प्रकुर्यात्‍ ।
शडंस्य खण्डानि पलान्यथाष्टौ तत्संपुटस्यान्तरथो विवस्येत्‍ ॥९१॥
शरावसन्धिं खलु मुद्रयित्वा हस्तोन्मिते गर्तवरेऽपि धृत्वा ।
पुटं प्रदद्यादथ नागसंज्ञं शीतं समुध्दृत्य तत: प्रयत्नात्‍ ।
पिष्टाऽथ खल्वे खलु सर्वमेवं वल्लव्दयं भक्षितमस्य सम्यक्‍ ॥९२॥
क्षौद्रेण युक्तं विनिहन्त्यशेषादेकोनत्रिंशद्रणरोगजां हि ।
पीडां प्रकाण्डां न च संशयोऽस्ति संसेव्यमान: किल लोकनाथ: ॥९३॥
सूचिकाभरणो रस: ।
शुध्दं विषं पलमितं रसमेकशाणं चूर्णीकृतं तदनु काचशरावलिप्तम्‍
मुद्रां विधाय सुदृढामपि यामयुग्मं तत्संपुटे कुरु भिषग्वर वह्रिमेव
उध्दाटय संपुटमिदं शनकै: सुलग्र
धूमं शनैरपि शनै: परिगृह्य यत्नात्‍ ॥९४॥
संवेशयेत्तदनु काचमये हि पात्रे
सूच्या मुखे लगति तच्च प्रमाणमस्य ॥९५॥
संमूर्छिते सकलदोषजसंनिपाते
शस्त्राहतं दशमरन्ध्रगतं प्रघर्षेत्‍ ।
रक्तभेषजसंसर्गात्‍ मूर्छितोऽपि हि जीवति ।
तथैव कृष्णसर्पेण दष्टोऽपि न मरिष्यति ॥९६॥
पज्चवक्रो रस: ।
सूतं गन्धं कर्षयुग्मप्रमाणं
तत्पादांशां कारयेव्दै शिलाख्याम्‍ ।
व्योषं ताप्यं पिप्पलीं तत्समानां
प्रत्येकं वै भेषजं चूर्णयेच्च ॥९७॥
भाव्यं पित्तैर्मत्स्यमायूरजैर्वै
घर्मे कृत्वा सप्तावारं हि सम्यक्‍ ।
गुज्जायुग्मं भक्षित: पज्चवक्रो
मूर्च्छा हन्यात्संनिपातोद्रवां वै ॥९८॥
व्दीतीय: पज्चवक्रो रस: ।
सूतं गन्धं टडंणं वत्सनाभं कृष्णं कृष्णां कारयेव्दै समांशान्‍ ।
धूर्तद्रावैर्मर्दितं वासरैकं चूर्ण कृत्वा गालितं सूक्ष्मवस्त्रै: ॥९९॥
वल्लं भक्षेत्‍ सन्निपाते सुतीव्रे
सार्कक्वाथं नागरं चानुपानम्‍ ॥१००॥
पथ्यं दध्योदनं कांर्य जलयोगं तु कारयेत्‍ ।
कफप्रकोपे सक्षौद्रं सांर्द्र दद्यात्प्रयत्नत: ।
अग्रिं प्रदीपयत्याशु ज्वरं हन्यात्रिदोषजम्‍ ॥१०१॥
उन्मत्तरस: ।
सूतं गन्धं मर्दयेव्दासरैकं
धूर्तद्रावैस्तुल्यमस्माच्च व्योषम्‍ ।
नस्ये दद्यात्‍ संनिपान्निहन्ति ॥१०२॥
संनिपाताज्जनरस: ।
दन्तीबीजं निस्तुषं चाष्टनिष्कं
कृष्णं कृष्णामूलसूतं त्रिनिष्कम‍ ।
भाव्यं द्रावै: पक्कजम्बीरजैर्वा
सप्ताहं वै मर्दयेत्तत्प्रयत्नात‍ ॥१०३॥
दत्तो रसश्चाज्जनेन संनिपातान्‍ निहन्ति वै ।
संनिपाताज्जनरस: कथित: शास्त्रवर्त्मना ॥१०४॥
कनकसुन्दरो रस: ।
स्वर्ण कुर्याच्चाष्टमाषप्रमाणं शुध्दं युग्मशाणोन्मितं हि ॥१०५॥
ताप्यं कृत्वा शाणयुग्मप्रमाणं
तव्दव्दडं त्रि:प्रमाणं सुवीरम्‍ ।
कुर्याल्लोहादष्टनिष्कान्‍ विशुध्दात्‍
नागं शुध्दं तोलकं हि प्रसिध्दम्‍ ॥१०६॥
लाडंल्याह्रामूलमेकं पलं स्यान्निम्बूतोयै: पेषयेत्तं दिनैकम्‍ ।
दद्यादेवं कुक्कुटाख्यं पुटं वै शीतं कृत्वा चूर्णयेत्तच्च सर्वम‍ ॥१०७॥
वल्लं देयं सन्निपाते सुतीव्रे
सर्पे दष्टे स्थावरे जडंमे वा ।
कुष्ठव्याधिं चाग्रिमान्द्यं त्वजींर्ण
नाशं कुर्यादार्द्रकस्यानुपानात्‍ ॥१०८॥
सन्निपातभैरवो रस : ।
सूतं चैकं गन्धकं चेत्रिभागं
खल्वे घृष्टा कज्जलीं कारयेच्च ।
तारं ताम्रं वडंमेवाभ्रकं हि
लोहं कुर्यात्सर्वमेकैकभागम्‍ ॥१०९॥
वह्रिज्वालावक्रवल्ल्यब्दनादा:
शुण्ठी बैल्वं काथयेत्तद्रसैर्वा ।
मंर्द्य यामं यत्नतोऽपि प्रकर्षात्‍
कृत्वा गोलं वेष्टितं वस्त्रखण्डे ॥११०॥
भाण्डे चांर्ध पूरयित्वाऽथ गोलं
स्थाप्यं स्वेद्यं याममेकं हि पश्चात्‍ ।
कृत्वा चूर्ण काचकूप्यां निधाय
वह्रिं दद्याव्दालुकाख्ये व्दियामम‍ ॥१११॥
शुध्दं रक्तं विद्रुमं चूर्णयित्वा
कर्षे कर्षे शाणमात्रं विदध्यात्‍ ।
व्यालस्येवं कालकूटं व्दिवल्लं
प्रत्येकं वै भावितं सूर्यतापे ॥११२॥
पश्चान्मुस्तावेतसं पिप्पलीं च
मांसीं लोमां हेमवल्लीं च नीलीम्‍ ।
पत्रं चित्रात्कुष्ठकौठेरकं च
रावं यष्टीं देवदालीं मधूकम्‍ ॥११३॥
मुण्डीं कृष्णां मूसलीं सर्वमेव
कुर्याच्चूर्ण सर्वमेतत्समांशम्‍ ।
भाव्यं सम्यक‍ श्यामधत्तूरजैर्वा
द्रावैरेभिर्भावित्तं सप्तवारम्‍ ॥११४॥
चूंर्ण कृत्वा वल्लमात्रं प्रदद्यात्‍
दोषैर्दुष्टे सन्निपाते ज्वरे च ।
सर्वोन्मादे भूतदोषे तथोग्रे
देयं सम्यक्‍ सन्निपातान्विहन्यात्‍ ॥११५॥
पश्चामृतो रस: ।
मृतं सूतं तथा चाभ्रं ताम्रं च कान्तकम्‍ ।
मेलितं च समांशेन मर्दयेत्कन्यकाद्रवै: ॥११६॥
घर्षितं जलयोगेन वटीमेकां च चूर्णयेत्‍ ।
भक्षितो वल्लमात्रं हि कृष्णाक्षौद्रेण संयुत: ॥११७॥
कासश्वासान्निहन्त्याशु तम: सूर्यादये यथा ।
वातनाशनो रस: ।
सूतं स्वर्ण ताम्रकं वज्रमेव
लोहं ताप्यं तालकं तुत्थकं च ।
अब्धे: फेनं शुध्दसौवीरकं हि
कृत्वा सम्यक्‍ सर्वमेवं समांशम्‍ ॥११८॥
भागं चैकं कारयेव्दै रसोनं
वज्रीक्षीरैर्मर्दितं तद्दिनैकम्‍ ।
रुध्दा सम्यग्भूधरे तं विपाच्य
माषं चैकं भक्षयेदार्द्रकेण ॥११९॥
लिह्यादेवं पिप्पलीमाक्षिकेण
कृष्णामूलकाथ अत्रानुपेय: ।
सर्वान्‍ वातान्‍ वातजान्वै विकारान्‍
हन्यात्सत्यं भाषितं भैरवेण ॥१२०॥
विरेकीरस: ।
तुल्यं सूतकठडंणं पलमितं गन्धात्पलं पिप्पली
शृण्ठीग्रन्थिकव्योषकान्‍ व्दिपलिकान्‍ प्रत्येकभागान्‍ कुरु ।
सर्वैरेव समांशनिस्तुषकृतं दन्तीफलं चूर्णयेत्‍
गुज्जैक: सितया समं रसवर: संभक्षितो रेचकृत्‍ ॥१२१॥
इच्छाभेदीरस: ।
शुण्ठीपिप्पलीटडंणं सदरदं प्रत्येकमेवाक्षकं
हेमाह्वा पलमात्रकाऽत्र कथिता दन्तीफलं तत्समम्‍ ।
चूर्णीकृत्य समांशकानि सततं गोदुग्धकैर्भावयेत्‍
वल्लैक: सितया समं रसवर: संभक्षितो रेचकृत्‍ ॥१२२॥
अग्रिरस: ।
सूतं व्दिधा गन्धकभागयुग्मं कुर्याच्च खल्वेन अतु कज्जलीं हि ।
तस्या: समं तीक्ष्णकचूर्णमेव संमर्दयेत्खलु रसेन च कन्यकाया: ॥१२३॥
आच्छाद्य पत्रेण रुबूद्रवेन यामार्धकेनाप्यथ उष्णता भवेत्‍ ।
धान्यस्य राशौ विनिवेश्य सप्त दिनानि संमर्द्य ततो दृढं हि ॥१२४॥
वस्त्रेण संगाल्य ततो हि यत्नात्तच्चूर्णकं वारितरं हि सत्यम्‍ ।
व्योषं चतुर्जातवरालवडं जातीफलैलं च समांशकानि ॥१२५॥
संचूर्ण्य सर्व समभागतीक्ष्णं क्षौद्रेण लीढं खलु निष्कमात्रम्‍ ।
रसोऽग्रिनामा क्षयकासजूर्तीर्विनाशयत्येव न संशयोऽस्ति ॥१२६॥
अग्रिदीपनरस: ।
पारदामृतलवडंगन्धकं भागयुग्ममरिचेन मिश्रितम्‍ ।
अत्र जातीफलमर्धमागिकं तिन्तिडीकरसकेन मर्दितम्‍ ।
माषमात्रमनुपानमार्द्रकं सद्य एष जठराग्रिदीपन: ॥१२७॥
वह्विसूतो रस: ।
भागौ व्दौ वरशडंकस्य कथितौ दग्धावराटास्तथा
गन्धस्यैव तु चार्धभागसहित: सूतस्तथा योजित: ।
कृष्णाभागयुतं विचूर्ण्य सकलं सव्दत्सनाभात्रयो
भागा निम्बुरसैर्विमर्द्य सकलं संसेवितं चाग्रिकृत्‍ ॥१२८॥

सूर्यावतो रस: ।
सूतं चैकं गन्धकं चार्धभागं कन्याद्रावैर्मर्दयेद्याममेकम्‍ ।
कल्केनानेनैव शुल्बस्य पत्रं लिप्तं पश्चात्पाचितं भाण्डमध्ये ॥१२९॥
यामव्दन्व्दं खेदितं शीतलं वै गुज्जामात्रं भक्षितं हन्ति शोफम्‍ ।
कासं श्वासं जूर्तियुक्तं निहन्यात्सूर्यावर्त: सम्यगेव प्रसिध्द: ॥१३०॥
स्वच्छन्दभैमरवरस: ।
सूतं गन्धं ताप्यकं तालकं वै निर्गुण्डीवह्रयूषणं चाग्रिमन्थम्‍ ।
पथ्योपेतं शाणामात्रं पृथक्‍ स्यात्‍ खल्वे पिष्टा बीजपूरद्रवेण ॥१३१॥
चूर्ण कृत्वा भक्षयेन्माषमात्रं कृष्णामर्पि: क्षौद्रयुक्तं प्रलीढम्‍ ।
सर्वान‍ हन्याचातिसारान्‍ सुधोरानामं वह्रेर्मान्द्यतां चापि सद्य: ॥१३२॥
त्रिविक्रमरस: ।
छागीदुग्धे ताम्रपत्रं विपाच्यं तत्ताम्रं वै सूतगन्धेन तुल्यम्‍ ।
कृष्णं चूर्ण सिन्दुवारेण घृष्टं गोल कृत्वा याममात्रं पचेत्तम्‍ ॥१३३॥
यत्रे पाच्यं वालुकाख्ये च सम्यक्‍ शीतं कृत्वा भक्षितं गुज्जयुग्मं
काथश्वास्मिन्‍ बीजपूरस्य पेयो मासेनैकेनाश्मरी नाशमेति ॥१३४॥
नाम्नाऽयं त्रैविक्रमेण प्रसिध्दो वृध्दौ कृच्छ्रे विद्रधौ चाश्मरीषु ।
तालकेश्वररस: ।
तालमाक्षिकमन: शिला: समा: शुध्दसूतमथ टकंणं तथा ॥१३५॥
चूर्णयेच्च रसतो व्दिगन्धकं गन्धतुल्यमथ ताम्रभस्मकम्‍ ।
लोहभस्म पलतुर्यकं तथा मर्दयेच्च पलपश्चकै रसै: ॥१३६॥
चुक्रजैश्च विनिवेश्य संपुटे दापयेच्च पुटमत्र कुक्कुटम्‍ ।
मर्देयच्च पुनरेव तद्रसैर्निक्षिपेच्च मृतलोहशुल्बकम्‍ ॥१३७॥
वेदयुग्मपलमात्रकं क्रमाम्रिंशदंशविषमत्र योजयेत्‍ ।
माहिषाज्यमधुमिश्रितं सदा सेवयेच्च किल वल्लपश्चकम्‍ ॥१३८॥
सोमराजिफलचूर्णकर्षकं सर्पिषा मधुयुतं  लिहेदनु ।
तालकेश्ववररस: सदा बुधै: कथ्यते सकलकुष्ठहा खलु ॥१३९॥
कुष्ठकुठारस: ।
सूतभस्मसमं गन्धं मृतायस्ताम्रगुग्गुलु ।
त्रिफला निम्बशुण्ठयौ च चित्रकश्च शिलाजतु ॥१४०॥
इत्येवं चूर्णितं कुर्यात्प्रत्येकं निष्कषोडशम्‍ ।
चतु: षष्टिमितान्‍ बीजान्‍ करज्जात्तु प्रदापयेत्‍ ॥१४१॥
चतु: षष्टिमितं चाभ्रं मध्वाज्याभ्यां विलोडयेत‍ ।
स्रिग्धभाण्डगतं खादेव्द्दिनिष्कं सर्वकुष्ठजित्‍ ॥१४२॥
कुष्ठघ्ररस: ।
शुध्दं सूतं गन्धकं वै व्दिभागं कन्यानीरैर्मर्दयेव्दासरैकम्‍ ।
शुध्दं लोहं मारितं भागमेकं गोलं कृत्वा लोहपात्रे निधाय ॥१४३॥
किज्चित्किश्चिद्रोजलं तत्र सिश्चेच्चुल्यामग्रिं यामयुग्मं शनैश्च ।
तीव्राग्रिं वै कारयेद्याममंर्ध स्वाडं शीतं चूर्णयेत्तत्प्रयत्नात‍ ॥१४४॥
वह्विं : काष्ठोदुम्बरी सोमराजी श्रेष्ठा तव्दद्राजवृक्षो विडंम्‍ ।
लेहं कृत्वा लेपयेद्दुष्टकुष्ठं गुज्जायुग्मं भक्षयेव्दै रसं च ॥१४५॥
दद्रूकुष्ठं श्वेतकुष्ठं विचर्चीं सत्यं सत्यं नाशयेत्त्वग्गदांश्च ।
सूर्यभक्तो रस: ।
कर्तव्यं वै बाकुचीशुध्दचूर्ण काथेनापि भावितं खादिरेण ॥१४६॥
प्रात:काले भक्षितं वै त्रिशाणं पेयं क्षीरं गोघृतं चानुपाने ।
कुष्ठस्थाने स्फोटका: संभवन्ति सप्ताहाव्दै निश्चितं श्वित्रकुष्ठे ॥१४७॥
नीलीं गुज्जां हंसपादीं कसीसं धत्तूरं वै सूर्यभक्तां तथा च ।
तुल्यान्येवं लेपयेत्स्फोटकानां शान्त्यंर्थ वै मानव: सप्तरात्रात्‍ ॥१४८॥
श्वित्र कुष्ठं नाशमायाति सम्यक्‍ नाम्रा चैवं  सूर्यभक्तो रसो हि
श्वित्रे लेप: ।
गुज्जामूलं वह्विमूलं बलाया मूलं चाम्लैर्धर्षितान्येव सम्यक्‍ ॥१४९॥
श्वित्राण्याशु नाशयन्तीह लेपात्‍ सूर्यज्योत्स्रा ह्यन्धकारं यथा हि ।
सूताच्चैको वेदभागा बले:स्यु:खल्वे यामं मर्दयेन्निम्बुनीरै: ॥१५०॥
अभ्रं ताम्रं लोहकं हिडंलं च प्रत्येकं वै कारयेच्चाम्रमात्रम्‍ ।
स्वंर्ण ताप्यं रुप्यकं बिल्वमेकं माषैकं वै मारितं वज्रचूर्णम्‍ ॥१५१॥
तालं शुध्दं कारयेन्मुष्टियुग्मं मंर्द्य वासावारिणा वासरैकम्‍ ।
धूर्तेणैवं वत्सनाभेन भाव्यमर्कक्षीरेणाथ जम्बीरजेन ॥१५२॥
वज्रीक्षीरैर्मर्द्य वाजीविषेण कृत्वा गोलं वाससा  वेष्टयित्वा ।
सिक्तायत्रे स्वेद्यमेतद्दिनैकं पश्चादेनं चूर्णयेच्छ्लक्ष्णकं हि ॥१५३॥
नागं शुध्दं योजयेन्मुष्टिमात्रं कृष्णाचूर्ण मुष्टिमात्रं प्रदद्यात्‍ ।
गुज्जायुग्मं भक्षयेन्माक्षिकेण सुप्तिं कुष्ठं मण्डलं नाशयेच्च ॥१५४॥
बाकुची देवकाष्ठं च कर्षमात्रं सुचूर्णयेत्‍ ।
लिहेदेरण्डतैलेन ह्यनुपानं सुखावहम्‍ ॥१५५॥
स्वर्णक्षीरिरस: ।
हेमाह्वापलश्चकं तु घटके तक्रे पचेव्दह्विना
जीर्णे तक्राघटे पुन: खलु घटॆ क्षीरे तथैवं पचेत्‍ ।
जीर्णे क्षीरघटॆ विशोष्य विधिवत्संचारयेद्यत्नत
श्चूर्ण पश्चपलं हि वस्त्रगलितं कृत्वाऽथ संयोजयेत्‍ ॥१५६॥
कृष्णां हि व्दिपलां सुमूर्च्छितरसे त्वेकीकृतां भक्षये
त्रिष्कैकं मधुमिश्रितं घृतयुतं कुष्ठार्तिहृत्सर्वदा ।
हेमाह्व: खलु कीर्तितो रसवर: सेव्य:सदा रोगिभि:
कुष्ठच्याधिविनाशन: सुखकर: कान्तिप्रद: कामिनाम्‍ ॥१५७॥
मेहबध्दरस: ।
भस्मसूतमृतकान्तलोहकं माक्षिकं च कुनटीं शिलाजतु ।
व्योषमेव त्रिफलां कपित्थकं रात्रियुग्ममथ कुष्ठबीजकम्‍ ॥१५८॥
भृडंराजरसकेन भावयेदेकविंशतिदिनानि वै बुध: ।
निष्कमात्रमथ माक्षिकेण वै लेहित: सकलरोगहृत्सदा ॥१५९॥
मेहबध्दरस एष वै बुधा: सर्वमेहहरणो मयोदित: ॥१६०॥
महानिम्बस्य बीजानि पिष्टा षट्‍संमितानि च ।
पलतन्दुलतोयेन घृतनिष्कव्दयेन च ।
एकीकृत्य पिबेच्चानु हन्ति मेहं चिरन्तनम्‍ ॥१६१॥
(एकीकृत्य विचूर्णयेच्च सकलं स्रुग्वह्विभृडंद्रवै
र्भाव्यं सप्तदिनावधि क्रमगतं वातारितैलेन वै) ॥१६२॥
एष: स्याध्दि महाग्रिनाम रसराट्‍ पथ्ये जलं शीतलं
वंर्ज्य क्षारमथाम्लकं शमयते संमूढवातं खलु ॥१६३॥
विद्याधररस: ।
तालं ताप्यं च गन्धं रविमथ च शिलां सूतकं चेत्समांशं
खल्वे संमर्दितं वै तदनु वरकणाकाथकेनाथ भाव्यम्‍ ।
वज्रीक्षीरेण सम्यकिल सकलमिदं चूर्णितं वस्त्रपूतं
निष्कांर्ध भक्षयेव्दै जठरकृतगदान्‍ हन्ति विद्याधरोऽयम्‍ ॥१६४॥
त्रिनेत्ररस: ।
स्वर्ण टकंणमेव हारिणभवं शृडं तथा शुल्बकं
सूतं वै समभागकं दिनमहो मंर्द्य रसैश्चार्द्रजै: ।
खल्वे मर्द्य च वेष्टितं दृढपटे गोलं पुटेव्दह्विना
योगोऽयं गुदकीलहा निगदितो मध्वाज्यकै: सेवित: ॥१६५॥
शूलगजकेशरीरस: ।
शुध्दं सूतं गन्धकं चेति भागमेकं यामं मर्दयेव्दै दृढं हि ।
शुध्दं ताम्रं चोभयोर्वै समांशं खल्वे घृष्टा गोलकं तव्दिधेयम्‍ ॥१६६॥
तद्रोलं वै धारितं संपुटे हि सामुद्राख्ये यत्रके सन्निधेयम‍ ।
दत्त्वा मुद्रां भाण्डवक्रं निरुध्य गंर्त कृत्वा छाणकै: पूरितं हि ॥१६७॥
अग्रिं कृत्वा नागसंज्ञं पुटं हि दत्त्वा शीतं चोध्दरेत्तं प्रयत्नात्‍ ।
सूक्ष्मं चूर्ण पर्णखण्डे व्दिगुज्जं शूलान्यष्टौ नाशयेद्रक्षितं हि ।
हिडुंशुण्ठीं जीरकं चोषणं वै चूर्ण कृत्वा पाययेदुष्णतोयै: ॥१६८॥
अग्रितुण्डावटी :
सूतं समं गन्धकवत्सनाभं यवानिकां चैव फलत्रिकं च ।
क्षारव्दयं चित्रकसिन्धुजीरकं सामुद्रकं त्र्यूषणमेव रुच्यम‍ ॥१६९॥
समं प्रकुर्याव्दिषमुष्टिमेभिर्जम्बीरनीरेण विमर्दयेच्च ।
वटीं च भक्षेदथ चाग्रिमान्द्ये तथा ह्यजीर्णेऽथ विषुचिकायाम्‍ ॥१७०॥
अजीर्णकण्टको रस: ।
शुध्दं सूतं विडं गन्धं समं संर्व विचूर्णयेत‍ ।
मरिचं सर्वतुल्यांशं कण्टकार्या: फलद्रवै: ॥१७१॥
मर्दयेद्रावयेदेवमेकविंशतिवारकम्‍ ।
वल्लमात्रां गुटीं खादेत्सर्वाजीर्णप्रशान्तये ।
अजीर्णकण्टक: सोऽयं रसो हन्ति विषूचिकाम्‍ ॥१७२॥
मन्थानभैरवरस: ।
सूतं ताम्रं हिडुं वाटयाह्वयं च गन्धं तालं सैन्धवं तिक्तकं वै ।
तुल्यं संर्व देवदालीरसेन निर्गुण्डया वा मेघनादाद्रसैर्वा ॥१७३॥
कोशातक्या मर्दयेव्दासरैकं चूर्ण कृत्वा भक्षयेन्माषमात्रम्‍ ।
क्षौद्रैर्युक्तं नाशयेच्छ्लेष्मरोगान्‍ निम्वकाथं चानुपाने पिबेध्दि ॥१७४॥
सूर्यावर्तो रस: ।
सूतस्यार्ध गन्धकं चैव मर्द्य यामं चैकं कन्यकाया द्रवेण ।
चूंर्ण कृत्वा ताम्रपात्रं विशुध्दं कल्कैरेभिर्लेपयेत्पाचयेच्च ॥१७५॥
भाण्डे यत्रे वासरैकं प्रयत्नाच्छीतं कृत्वा चूर्णितं भक्षयेच्च ।
गुज्जायुग्मं श्वासकासाग्रिमान्द्ये सूर्यावर्त: कथ्यते नामतोऽयम्‍ ॥१७६॥
भागमेकमिह सूतभस्मनो भागयुग्ममपि गन्धकस्य च ।
सूतमानमपि हेमभस्मकं तारभस्म अपि चाभ्रसत्वकम्‍ ॥१७७॥
लोहभस्म अथ चार्कजं क्षिपेल्लोहपात्रजठरे प्रपाचयेत्‍ ।
द्राव्यता भवति तत्र वै यदा निक्षिपेच्च कदलीदले तदा ॥१७८॥
आटरुषसुरसाजयन्तिकामुण्डिकात्रिफलकार्द्रभृडिंका
मेघनादकटुकन्यकारसै: प्रत्यहं तु परिमर्दयेद्दृढम्‍ ॥१७९॥
वत्सनाभजरसैर्दिनत्रयं लोहपात्रनिहितं पचेत्क्षणम्‍ ।
जायते हि वरपर्पटीरस: शृडंवेरकरसेन योजयेत्‍ ॥१८०॥
वल्लयुग्ममितमानतस्त्वयं श्वासकासविनिवृत्तिदायक: ।
पिप्पलीभिरनुपायेत्तथा काथमत्र सुरसाटरुषजम्‍ ॥१८१॥
अग्रिकुमाररस: ।
सूतं चैकं गन्धकं च त्रिभागं नागं वडं शुल्बतारं च हेम ।
अभ्रं लोहं तारमाक्षीकवज्रमेकैकं वै शोधयित्वा प्रदेयम्‍ ॥१८२॥
मुण्डीश्वेताकाकमाच्यश्वगन्धानिर्गुण्डयो वै भृडंराजेन युक्ता: ।
रसैरेषां वासरान्‍ त्रीन्‍ प्रमर्द्यात्खल्वे सम्यग्गोलकं कारयेध्दि ॥१८३॥
ततो घर्मे शोषयेत्तं च गोलं लेपा: सम्यक्‍ पश्च मृद्रि: प्रदेया: ।
भाण्डं चांर्ध पूरयेव्दालुकाभिर्ममध्ये गोलं निक्षिपेन्मुद्रयेच्च ॥१८४॥
अग्रिं कुर्याद्यामषष्टयष्टमात्रं शीते सिध्दो जायते वै रसोऽयम्‍ ।
कृष्णाकाथैर्भावना: पश्च देया आर्द्रेणैवं भावयेत्पश्चवारान्‍ ॥१८५॥
ज्वालामुख्या: स्वै रसै: सप्तवारं भाव्यं चापि सूर्यवारं हि वह्वे: ।
निर्गुण्डया वै भावना भानुमात्रा: पश्चात्कार्या वल्लमात्रा वटी हि ॥१८६॥
देया सद्रि: पश्चमांशा हि कृष्णा तव्दच्छुण्ठी चूर्णिता तत्प्रमाणा ।
कासे श्वासे मूत्रकृच्छ्रे ग्रहण्यामर्शोशोफे चाश्मरीमेढ्ररोगे ॥१८७॥
मन्दे ह्यग्रौ वातरोगेऽथ शूलेऽपस्मरे वै सन्निपाते बलासे।
सेव्योवल्लं चार्द्रकेणापि सम्यक्‍ क्षारं चाम्लं वर्जयेच्चापिपथ्ये ॥१८८।
कर्षौ व्दौ रसगन्धयोस्तु समयो: संमर्द्य व्यालस्य वै
कर्षैकेन विषेण कज्जलनिभं काचस्य कूप्यां क्षिपेत्‍ ।
लिप्त्वा कर्पटमृत्स्रया सुविधिना संपाच्य यामाष्टकं
ज्ञात्वा शीतलमत्र विधिना मंर्द्य व्दिकर्षोषणै: ॥
भक्षेद्रक्तिकमिक्षुशर्करयुतं नाम्रा रसोऽग्रिप्रदो
मन्दाग्रिक्षयसन्निपातमरुतां नाशाय चायं वर: ॥१८९॥
त्रिभुवनकीर्तिरस: ।
शुध्दस्य ताम्रस्य दलानि कुर्यात्पलानि त्रीण्येव च गन्धकस्य ।
पलव्दयं वै रुचकस्य चैकं पलं रसस्यापि विमर्द्य खल्वे ॥१९०॥
चूर्ण विधायाप्यथ सिन्दुवाररसेन पत्राणि विलेपयेच्च ।
तत्संपुटस्यान्तरतो निधाय विमुद्रा तत्संपुटमेव वह्वौ ॥१९१॥
यामं तथैकं पुटयेच्च गोमयैर्जातं सुशीतं हि विचूर्णयेत्तत्‍ ।
तन्नागवल्लीदलमध्यतोऽपि वल्लैकमात्रं सकलोदरघ्रम्‍ ॥१९२॥
स्थौल्यापकर्षणो रस: ।
सूतबोलमृततालताम्रकं चार्कदुग्धरसकेन मर्दितम्‍ ।
क्षौद्रयुक्तमपि वल्लमात्रकं भक्षितं च ह्यतिबृंहितं जयेत्‍ ॥१९३॥
तोयमेकपलमत्र मात्रया पानतोऽ प्यखिलमेहहारकम्‍ ।
वातमेहान्तको रस: ।
सूतभस्म अपि वडंभस्मकं मर्दितं हि दिवसं जयारसे ॥१९४॥
लेहितं च मधुना दिनत्रयं वातमेहविकृतिं प्रणाशयेत्‍ ।
प्रमेहाडंशरस: ।
हेमबीजविषवडंसूतकं बलिवसाऽप्यथ चाभ्रभस्मकम्‍ ॥१९५॥
नागवल्लिजरसेन मर्दितं कामदं सकलमेहजित्तथा ।
मेहारिरस: ।
टडंणं च रसराजगन्धकं सीसकं च रसकेन संयुतम्‍ ॥१९६॥
नागवल्लिजरसेन मर्दितं सर्वमेहकृतरोगनाशनम्‍ ॥१९७॥
रसेन्द्रं रजतं ताप्यं गगनं ताम्रलोहकम्‍ ।
स्वर्ण च क्रमवृध्दनि मर्दयेत्पूरवारिणा ॥१९८॥
अन्येन चाम्लवर्गेण मर्दयेत्सप्तवासरान्‍ ‍ ।
काचकूप्यां निधायाथ पचेद्यामाष्टकव्दयम्‍ ॥१९९॥
स्वाडंशीतलतं ज्ञात्वा गृह्वीयात्तं च मर्दयेत्‍ ।
आर्द्रकस्वरसेनैव द्रोणपुष्पीरसेन च ॥२००॥
बृहत्या: पत्रतोयेन बीजतोयेन वा पुन:।
प्रत्येकं दिनमेकं हि भावनां दापयेत्क्रमात्‍ ।
पिप्पलीमधुना सांर्ध चैतद्रुज्जाव्दयं भजेत‍ ॥२०१॥
स्थूलदुर्दिनविनाशने मरुत्‍ स्थूलपर्वतविनाशने हरि: ।
स्थूलदोषरसशोषणक्षम: स्थूलराजगजकेसरीरस: ॥२०२॥
सूतं गन्धं टडंणं चेत्समांशं व्योषं मुस्तं वत्सनाभं वरा च ।
सर्वेभ्यो वै निष्कमात्रं गुडेन खादद्रुज्जायुग्ममात्रां वटीं ही ॥२०३॥
कुष्ठान‍ मेहान्‍ शोफशूलादिदोषान्‍
हन्तीत्येवं सिध्दपश्चाननोऽयम‍ ।
एकं रसं गन्धकमेव शुध्दं व्दिभागमुक्तं च विमर्द्य खल्वे ॥२०४॥
पकार्कपत्रोत्थरसेन यत्नात्पुनर्नवावह्विरसैश्च पाचयेत्‍ ।
तस्यार्धभागेन विषं प्रदत्वा चूर्णीकृतं वल्लमितं लिहेच्च ॥२०५॥
शीतारि नामा च रसोत्तमोऽयं शीतस्य वातस्य निवारणाय ।
सूतभस्म समहेमभस्मकं मौक्तिकं च रसपादटडंणम्‍ ॥२०६॥
गन्धमत्र कुरु सर्वतुल्यकं चूर्णितं तुषजलेन गोलकम्‍ ।
लेपयेन्मृदुमृदा विशोषितं पाचितं सिकतयत्रमध्यत: ॥२०७॥
वासरैकमथ शीतलीकृतश्रूर्णितो मरिचमाक्षिकै: प्लुत: ।
भक्षितो हि कुमुदेश्वरो रसो राजयक्ष्मपरिशान्तिकारक: ॥२०८॥
यक्ष्महरो रस: ।
शुध्दसूतविषके च हाटकं  गन्धकेन सहितं समांशकम्‍ ।
मर्द्य चार्द्रकरसेन चित्रकै: प्रक्षिपेच्च सुदृढे सुभाजने ॥२०९॥
ताम्रभाजनमथोपरिस्थितं रोधयेत्पटमृदा सदैव हि ।
याममात्रपुटितं शनै: शनैर्निक्षिपेच्च जलमूर्ध्वभाजने ॥२१०॥
ताम्रपात्रकुहरे रसो  भवेद्रोगराजविनिबर्हणक्षम: ।
स्वर्ण सूत शुध्दमेतव्द्दिशाणं युक्तं नागं गन्धकं चेत्समांशम्‍ ॥२११॥
वह्वेस्तोयैस्तच्च पेष्यं प्रयत्नाद्रोलं कृत्वा वेष्टयेत्तं मृदा च ।
भाण्डं चार्ध पूर्य सामुद्रकेण गोलं धृत्वा छादितं त्र्यडंलेन ॥२१२॥
लिम्पेद्राण्डं गोमयेनापि सम्यक‍ वह्विं कृत्वा याममेकं तृणैश्च ।
पूर्णश्च्न्द्र: कीर्तितोऽ यं रसो हि यक्ष्मारोगान्नाशयत्येव सम्यक्‍ ॥२१३॥
सर्वान्‍ वातान्‍ श्लेष्मरोगान्‍ यथा वै पूर्णश्चन्द्रो नाशयत्यन्धकारम्‍
नागं सूतं गन्धकं वत्सनाभं रसैर्मर्द्य कन्यकाया दिनैकम्‍ ॥२१४॥
गोलं कृत्वा निक्षिपेद्राण्डमध्ये संछाद्यं वै श्रावकेनापि सम्यक्‍ ।
मुद्रां दत्त्वा भूतिसामुद्रकेण यामं चैकं मन्दवह्वौ विपाच्य ॥२१५॥
वल्लं चैकं भक्षितं क्षौद्रयुक्तं यक्ष्मारोगं नाशयेध्दि प्रसह्य ।
सूतगन्धविषमेव कारयेद्रागवृध्दमथ मर्दयेत्तत: ॥२१६॥
आर्द्रवह्विजरसेन यत्नत: पाचितो हि लवणाख्ययत्रके ।
भक्षितो हि किल वल्लमात्राया क्षौद्रकेण सह पिप्पलीयुत: ।
पूर्णचन्द्रवदयं हि सेवितो यक्ष्महा भवति वातरोगहा ॥२१७॥
स्वर्ण सूतं तथा गन्धं मर्दयेत्कन्यकाद्रवै: ।
पश्चाद्रोलं विधायाथ शरावसंपुटॆ पचेत्‍ ॥२१८॥
स्वाडंशीतं समुध्दृत्य चूंर्ण कृत्वा प्रयत्नत: ।
भक्षयेव्दल्लमात्रं तु त्रिदोषजरुजं जयेत्‍ ॥२१९॥
सूतकं च मृततारभस्मकं गन्धकेन सहितं समांशकम्‍ ।
मर्दितं हिखलु भृडंवारिणा चार्धयाममपि कुकुटे पुटॆ ॥२२०॥
पाचितं हि सकलं विचूर्णितं लेहितं हि मधुशर्करायुतम्‍ ।
पित्तदोषशमनं मयोदितं पित्तकृन्तनमिदं प्रशस्यते ॥२२१॥
पारदं च मृतशुल्बगन्धकं नागवल्लिजरसेन पेषितम्‍ ।
पाचितं च मृदुवह्विना घटीयुग्ममेतदखिलं विचूर्णितम्‍ ॥२२२॥
भक्षितं च गुडमिश्रमार्द्रकै: श्लेष्मदोषविनिवृत्तिदायकम्‍ ।
लोहभस्म रसभस्म ताप्यकं गन्धकेन सहितं समांशकम्‍ ॥२२३॥
वत्सबीजकरसेन भावितं लेहितं सकलमेहनाशनम्‍ ।
वडंभस्म रसभस्म गन्धाकं धातकीस्वरसकेन मर्दितम्‍ ॥२२४॥
लेहितं मधुयुतं हि मेहजिव्दल्लयुग्ममतिसारनाशनम्‍  ।
वज्रभस्म रसभस्म मौक्तिकं मर्दितं च खलु निम्बुवारिणा ॥२२५॥
तच्च कुकुटपुटेन पाचितं चूर्णयेन्मधुयुतं हि वल्लकम्‍ ।
वर्षमात्रमपि सेवितं जयेन्मृत्युमेव सकला रुजा अपि ॥२२६॥
पारदं गन्धकं विश्वा टडंणं विषमुष्टिकम्‍ ।
स्वर्जिका मरिचं कृष्णा समभागानि कारयेत्‍ ॥२२७॥
विडडं चाभया दन्ती त्रिवृत्रेपालकं तथा ।
पूर्वचूर्णसमान्येव भृडंद्रावेण भावयेत्‍ ॥२२८॥
गुज्जाप्रमाणवटिका भक्षिता शीतवारिणा
विरेचयत्यवश्यं हि कृमीरोगान्‍ ज्वरानपि ।
विनाशयति वै सम्यक्‍ सत्यं गुरुवचो यथा ॥२२९॥
मुक्ताफलं विद्रुमकं रसेन्द्रं गन्धं समांशानि ततो विदध्यात्‍ ।
तव्दीजपूरस्य रसेन मर्दितं गोलं हि कृत्वा वसनेन वेष्टयेत्‍ ॥२३०॥
मृदा सुलिप्तं परिशोषितं च तच्छ्रावके संपुट्येच्च वह्वौ ।
चूर्णीकृतं वल्लमितं च भक्षितं स्याद्रोगराजस्य निकृन्तनं हि ॥२३१॥
तालं ताप्यं गन्धकं सूतकं च शिलाह्वं वै खेचरं चेत्समं हि ।
चूर्ण कृत्वा चाटरुषेण मंर्द्य सार्द्रेणैवं सौरसाया रसेन ॥२३२॥
मर्दितं हि तदनु ताम्रनिर्मिते धारयेच्च सकलं हि संपुटे ।
मृत्स्रया च परिवेष्टय संपुटं पाचयेच्च सततं दृढाग्रिना ॥२३३॥
यामयुग्ममितमेव मात्रया यत्रके हि कुरु शीतलं स्वयम्‍ ।
जायतेऽतिरुचिरो महारसो पूर्ववद्रवति भास्करोदय: ॥२३४॥
चिद्रकार्द्रकरसेन योजितो राजयक्ष्मकफवातनाशन: ।
तारं वज्रं स्वर्णताम्रं च सूतं लोहं गन्धं भागयुग्मं प्रकुर्यात्‍ ॥२३५॥
कन्याद्रावैर्मर्दयेदेकयामं चूर्ण कृत्वा काचकूप्यां निवेश्य ।
कूपीं चापि पूरयेत्सिन्धुचूर्णैर्मुद्रां दत्त्वा शोषयेत्तत्प्रयत्नात‍ ॥२३६॥
वह्वि कुर्याव्दासरैकं प्रयत्नात‍ शीतं जातं खल्वमध्ये विचूर्ण्य ।
अर्कक्षीरेणाथ भाव्यं हि सर्व कासस्वैवं पद्यकन्दस्य नीरै: ॥२३७॥
मौशल्या वै गोक्षुरस्य द्रवेण त्रिस्त्रिर्वेलां भावनां च प्रदद्यात्‍ ।
काकोल्या वै वाजिगन्धाशताह्वदु: स्पर्शाणां वै स्वै रसैर्भावयेच्च
चूर्ण कृत्वा मिश्रयेव्द्योषचूंर्ण कर्पूरं वै कुडुंमैलालवडंम्‍ ॥२३८॥
कस्तूरीं वै पूर्वचूर्णात्षडंशां कार्या सर्वै: शर्करा वै समा च ॥२३९॥
भक्षेच्चैनं निष्कमात्रं प्रयत्नाद्रोक्षीरं वै चानुपाने विधेयम्‍ ।
मिष्टाहारं सेवयेच्चैव नाम्लमोजस्तेजो वर्धते वै बलं च ॥२४०॥
सौन्दंर्य वै जायते सुन्दरीणां वृध्दि: कामे नैव हानिश्च विर्ये ।
तस्मात्सेव्य: कामदेवो रसोऽयं वृष्येषूक्तो योग एषो वरिष्ठ: ॥२४१॥
सूतं वज्रं नागमुक्ताफलं च तारं स्वंर्ण चाभ्रकं तीक्ष्णवडौं ।
प्रत्येकं वै कर्षयुग्मप्रमाणं मंर्द्य संर्व वाजिगन्धारसेन ॥२४२॥
क्षिप्त्वा शृडें हारिणे वै प्रयत्नात्पक्त्वा शृडं कोमलेनाग्रिना वै ।
भाव्यं पश्चात्ताम्रपुष्पीरसेन द्राक्षावंश्यायष्टिकांना शृतैश्च ॥२४३॥
भद्रौदन्या वर्षपुष्या: कसेरोर्गाडेंरुक्या भावयेच्चापि नीरै: ।
सर्वासां वै भावयित्वा रसैश्च चूर्ण कृत्वा शोषयित्वा च सम्यक्‍
एला पत्रं त्वग्लवडांगुरु च वंश्या मुस्ता केसरं चैव कृष्णा ॥२४४॥
कस्तुरी चेव्दल्लकं वै घनाच्च पूर्वे चूर्णे मिश्रयेदष्टमांशम्‍ ॥२४५॥
एतच्चूर्ण शाणमात्रं प्रगृह्य रात्रौ खादेदक्षयं वीर्यमिच्छन्‍ ।
धात्र्याश्रूंर्ण कारयेव्दै विदार्याश्रूर्ण कृत्वा कर्षमात्रं च सर्पि: ॥२४६॥
तुल्यं भक्षेच्चानुपानप्रयोगे क्षीरं पेयं साधितं माहिषं वै ।
भागत्रयं पारदमेव कुर्याद्रागोऽथ हेम्रश्च तथाऽभ्रकस्य ॥२४७॥
मन:शिलागन्धकतालकेभ्यो भागव्दयं सर्वमथो विचूर्ण्य ।
संपूर्य तेनैव वराटकानि मुद्रां च कुर्यादथ ट्डंणेन ॥२४८॥
दुग्धेन चाजेन विमुद्रितानि मृद्राण्डमध्येऽथ विधारयेच्च ।
वाराहनाम्रा पुटकेन पक्त्वा तत्स्वाडंशीतं हि विचूर्णयेच्च ॥२४९॥
भक्षेत्रिगुज्जं खलु पिप्पलिभि: क्षौद्रेण सांर्ध सकलामयघ्र : ।
मन:शिलामाक्षिकतालगन्धं सूतं तथा खर्प्ररमेव तुल्यम्‍ ॥२५०॥
संमर्दितं चार्द्ररसेन सम्यग्वासारसैश्चेत्सुरसारसेन ।
आपूरितं ताम्रजपात्रमध्ये तत्संपुटं वै त्रिदिनं प्रपाचयेत्‍ ॥२५१॥
तं स्वाडंशीतं हि समुध्दरेव्दै वल्लोन्मितं तं परिभक्षयेच्च ।
वातोद्रवान्‍ हन्ति समस्तरोगान्‍ तथा च श्लेष्मोद्रवरोगसंघान्‍ ॥२५२॥
रसकं दरदं ताप्यं गगनं कुनटीसमम्‍ ।
सूतं समांशकं दद्यादम्लवेतसजै रसै: ॥२५३॥
मर्दयेद्दिनमेकं तु सूर्यघर्मे शिलातले ।
पचेत्तं वालुकायत्रे दिनमेकं रसं खलु ॥२५४॥
स्वाडंशीतं समुध्दृत्य चूर्णीकृत्य प्रयत्नत: ।
निम्बूरसेन गुटिका कर्तव्या चाढकीसमा ॥२५५॥
सर्वज्वरहरा प्रोक्ता गुल्मोदरविनाशिनी ।
गुटिका खेचरी प्रोक्ता देहलोहविधायिनी ॥२५६॥
सूतभस्म दरदं विशोधितं तालसत्वमिति चैकभागिकम्‍ ।
गन्धंक च सममत्र मर्दितं भृडंराजरसकेन संयुतम्‍ ॥२५७॥
काकमाचिजरसैश्च मर्दितं कुकुटाख्यपुटपश्चकेन हि ।
पाचितं हि सितया समं सदा सेवितं सकलरोगघातकम्‍ ॥२५८॥
वडं चाभ्रं शोधितं तालकं हि सूतं शुध्दं वत्सनाभं तथैव ।
सौवीरं चेट्टकंणं चैव व्योषं वडं युग्मं भागमत्रैव कुर्यात्‍ ॥२५९॥
अभ्रं कुर्यात्रीणि भागानि सम्यक्‍ सूतं चैकं तालकं वै त्रिभागम्‍ ।
नागं चैकं टडंणं वेदभगं सौवीराव्द्दौ कल्पनीयौ हि भागौ ॥२६०॥
खल्वे मंर्द्य सर्वमेकत्र वज्रिक्षीरे चार्के वासरैकं प्रयत्नात‍ ।
पश्चात्क्षेप्यं काच्कूप्यां हि संर्व कूपीवक्रं ताम्रपत्रेण रुन्ध्यात्‍ ॥२६१॥
मुद्रां कृत्वा पाच्य यामाष्टयुग्मं शीतं कृत्वा पूर्ववन्मर्दनीयम्‍ ।
एवं कुर्यात्रीणि वाराणि शुध्दं कल्कं जातं षोडशांशेन ताम्रम्‍ ॥२६२॥
शुभ्रं कुर्यात्सर्वरोगप्रणाशं सत्यं चैतद्राषितं भैरवेण ।
सेव्यं वल्लं वर्षमेतात्प्रयत्नाव्दृध्दत्वं नो जायते सर्वकालम्‍ ॥२६३॥
रसं सिन्दुरनामानं गन्धतैलेन मर्दितम्‍ ।
भक्षयेव्दल्लमात्रं हि अश्मरिरोगघातकम्‍ ।
लोट्टाकमूलस्वरसं शर्करासंयुतं पिबेत्‍ ॥२६४॥
श्वेताम्बरी तथा श्वेता चाश्वगन्धा पुनर्नवा ।
तासां रसेन संमर्द्य पारदं दोषवर्जितम्‍ ॥२६५॥
गन्धकेन व्दिभागेन कारयेद्रोलमुत्तमम्‍ ।
स्वेदयेद्याममंर्ध तु भक्षितं चाश्मरिप्रणुत्‍ ॥२६६॥
सूतकं मरिचं शुण्ठी टडंणं चामृतं तथा ।
गन्धकं चैकचत्वारिवेदवह्विधराधरा: ।
चूर्णितो मधुना लीढो वाते त्रिपुरभैरव: ॥२६७॥
वेदवेदरसपृथ्व्य: शुण्ठीमरिचटडंणा: ।
चतुर्थो वत्सनाभश्च वाते त्रिपुरभैरव: ॥२६८॥
यष्टीहिडुंवचाशिग्रुशिरीषलशुनामयै : ।
साजमूत्रैरपस्मरे सोन्मादे नावनाज्जनम्‍ ॥२६९॥
मनोह्वा तार्क्ष्यजं चैव शकृत्पारावतस्य च ।
अज्जनं हन्त्यपस्मारमुन्मादं च विशेषत: ॥२७०॥
तालकं निम्बतैलेन मर्दितं वटकीकृतम्‍ ।
अज्जने क्रियमाणे च ज्वर: शान्तिमुपैति हि ॥२७१॥
निम्बतैलेन संमिश्रं पारदं गन्धकं तथा ।
क्रिमिजित्काथसंयुक्तं कृमिकोटिविनाशनम्‍ ॥२७२॥
रसं विषं गन्धकतालकं हि कटुत्रिकं वै त्रिफलासमेतम्‍ ।
सटडंणं वै जयपालबीजं संमर्दितं भृडंरसेन पश्चात्‍ ॥२७३॥
मुद्रप्रमाणा गुटिका विधेया संसेविता षष्टयनुपानयोगै: ।
सर्वा रुजो वै विनिहन्ति शीघ्रं गुटी प्रकर्षाध्दयचोलिकेयम्‍ ॥२७४॥
प्रकाशामृतके ग्रन्थे प्रोक्ताश्चैते महारसा: ।
शतसंख्यामिता: श्रेष्ठा: सर्वे रोगगणापहा: ॥२७५॥
इति कथितरसानां संग्रहं सत्ययुक्तं
पठति परमबुध्दया वैद्यविद्याविधिज्ञ:
स भवति रसवेत्ता भूपगेहेऽतिमान्य: ॥२७६॥
इति पद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे
शतरसनिरुपणं नामाष्टमोऽध्याय: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T20:03:57.0270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alliaceous

  • Bot. (having the smell of garlic or onion) कंदर्पी 
  • लसुणी 
  • कंदर्प-लशुन-गंधी 
  • कांदा किंवा लसूण यांचा वास येणारे 
RANDOM WORD

Did you know?

How to make essay about Hindu culture
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.