TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - सप्तमोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


सप्तमोऽध्याय: ।
नवरत्नानि ।
माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यपुष्पकम्‍ ।
वज्रं नीलं च गोमेदं वैडूंर्य च क्रमेण हि ॥१॥
सुजाति गुणसंपन्नं रत्नं सर्वार्थसिध्दिदम्‍ ।
दाने रसायने चैव धारणे देवतार्चने ॥२॥
माणिक्यभेदा: ।
पद्यरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम्‍ ।
व्दितीयं नीलगन्धि स्यात्‍, घनं रक्तं सुशोभनम्‍ ॥३॥
महच्च कमलच्छायं स्रिग्धं स्वच्छं गुरु स्फुटम्‍ ।
समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम्‍ ॥४॥
गडोंदकसमुद्रुतं नीलगर्भारुणच्छवि ।
माणिक्यं पूर्ववच्छेषं नीलगन्धि तदुच्यते ॥५॥
माणिक्यदोषा: ।
माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु ।
कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥६॥
माणिक्यगुणा: ।
संदीपनं वृष्यतमं हि रुक्षं वातापहं कर्मरुजापहं च ।
भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम्‍ ॥७॥
शुध्दमौक्तिकलक्षणम्‍ ।
हादि श्वेतं रश्मिमत्रिर्मलं च वृत्तंख्यातं मौक्तिकं तोतभासम्‍ ।
स्रिग्धं तौल्ये गौरवं चेन्महत्तल्लिडैंरेतैर्लक्षितं तच्च शुध्दम्‍ ॥८॥
वर्ज्यमौक्तिकलक्षणम्‍ ।
रुक्षाडं चेत्रिष्प्रभं श्यावताम्रं चांर्घ शुभ्रं ग्रन्थिलं मौक्तिकं च ।
क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभि: ॥९॥
मौक्तिकगुणा: ।
कासं श्वासं वह्रिमान्द्यं क्षयं च हन्याव्दृष्यं बृंहणं पित्ताहारी ।
दाहश्लेष्मोन्मादवातादिरोगान्‍ हन्यादेवं सेवितं सर्वकाले ॥१०॥
श्रेष्ठविद्रुमलक्षणम्‍ ।
स्रिग्ध स्थूलं पक्कबिम्बीफलाभं वृत्तं दींर्घ निर्व्रणं चाप्यवक्रम्‍ ।
ख्यातं सध्दि: सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम‍ ॥११॥
सदोषविद्रुमलक्षणम्‍ ।
रुक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवंर्ण प्रवालम्‍ ।
दोषैर्युक्तं कोटरैरावृत्तं च नेष्टं सद्रिर्भक्षणे धारणे च ॥१२॥
प्रवालगुणा: ।
पित्तास्रघ्रं श्वासकासादिरोगान्‍ हन्यादेवं दुर्निवारं विषं च ।
भूतोन्मादान्नेत्ररोगात्रिहन्यात्सद्य: कुर्याद्दीपनं पाचनं च ॥१३॥
तार्क्ष्य स्रिग्धं भासुरं शष्पवंर्ण गात्रै: शुध्दं भारवद्रश्मियुक्तम्‍ ।
एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥१४॥
त्याज्यतार्क्ष्यलक्षणम्‍ ।
नीलं श्वेतं कर्कशं श्यावरुक्षं वक्रं कृष्णं चिप्पटं भारहीनम्‍ ।
दुष्टं तार्क्ष्य चौषधे नोपयोज्यं
तार्क्ष्यगुणा: ।
कासं श्वासं सत्रिपाताग्रिमान्द्यम्‍ ॥१५॥
शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं वै पाण्डुरोगं निहन्यात्‍ ॥१६॥
श्रेष्ठपुष्परागलक्षणम्‍ ।
स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्रिग्धं वर्णे कर्णिकारप्रसूनम्‍ ।
तच्चावक्रं मसृणं कोमलं च लिडंरेतै: शोभनं पुष्परागम्‍ ॥१७॥
त्याज्यपुष्परागलक्षणम्‍ ।
रुक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याव्दा कापिलं तोयहीनम्‍ ।
दोषैर्युक्तं निष्प्रभ पुष्परागं नो सेव्यं तत्रैव देयं व्दिजेभ्य: ॥१८॥
पुष्परागगुणा: ।
कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मन्दाग्रीनामेतदेव प्रशस्तम्‍ ।
दाहे कृच्छ्रे, दीपनं पाचनं च तस्मात्सेव्यं सर्वदा सर्वकाले ॥१९॥
वज्रभेदा: ।
सर्वेषु रत्नेषु सदा वरिष्ठां मूल्यैर्गरिष्ठं त्रिविधं हि वज्रम्‍ ।
नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥२०॥
पूंर्व पूंर्व श्रेष्ठमेतत्प्रदिष्टं द्रव्याव्दीर्यात्पाकतश्च प्रभावात्‍ ।
तेषां वर्णा जातयश्च प्रभेदा: कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात्‍ ॥२१॥
श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधै: ।
स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णा: ॥२२॥
पुंवज्रं यत्प्रोच्यते चाष्टधारं षटोणं चेदिन्द्रचापस्य वर्णम्‍ ।
अष्टौ चेत्स्यु: फालका भासुरं वै पूंर्व श्रेष्ठं सर्वदोषापहं स्यात्‍ ॥२३॥
स्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिचैव चिप्पटं कर्कशं च ।
कोणाग्रं वै कुण्ठकं वर्तुलं हि किंचिद्धीनं प्रोच्यते तत्तृतीयम्‍ ॥२४॥
स्त्री पुमान्‍ स्त्री नो पुमान्यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे ।
व्यत्यासाव्दै नैव दत्तं फलं तद्दद्याव्द्ज्रं वा विना तत्पुमांसम्‍ ॥२५॥
वर्णेऽ प्येवं यस्य वर्णस्य वज्रं तत्तव्दर्णे शोभनीयं प्रदिष्टम्‍ ।
न्यायश्चायं भैरवेण प्रदिष्ट: सर्वेष्वेवं रत्नवर्गेषु सम्यक्‍ ॥२६॥

वज्रगुणा: ।
आयु:प्रद वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं सदैव ।
रसेन्द्रकस्यापि हि बन्धकृत्सदा सुधासमं चापमृतिं च हन्यात‍ ॥२७॥
रत्नदोषा: ।
घर्षश्च बिन्दुश्च तथैव पानीयकृता सगर्भता ।
सर्वेषु रत्नेषु च पज्च दोषा: साधारणास्ते कथिता मुनीन्द्रै: ॥२८॥
ये क्षेत्रतोयप्रभवाश्च दोषा: सर्वेषु रत्नेषु गलन्ति सम्यक्‍ ।
तेषां च शुध्दिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं भवेत‍ ॥२९॥
रत्नानां शोधनम्‍ ।
अम्लेन वै शुध्दयति माणिकाख्यं
जयन्तिकाया: स्वरसेन मौक्तिकम्‍ ।
क्षारेण सर्वेण हि विद्रुमं च
गोदुग्धतस्तार्क्ष्यमुपैति शुध्दिम्‍ ॥३०॥
धान्यस्याम्लै: पुष्परागस्य शुध्दिं कौलत्थे वै काथ्यमानं हि वज्रम्‍ ।
नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाभिस्तथैव ॥३१॥
वैडूंर्य चेदुत्तमाक्काथयुक्तं यामैकं वै खेदितं शुध्दिमेति ।
वज्रशोधनम्‍ ।
यामावधि खेदितमेव वज्रं शुध्दिं प्रयातीति कुलत्थतोये ॥३२॥
सिध्दं तथा कोद्रवजे शृते वा वज्रं विशुध्दयेध्दि विनिश्चयेन ।
वज्रमारणम्‍ ।
सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च ॥३३॥
छुच्छुन्दरीस्थं हि विपाचितं पुटे पुटेव्दराहेण च त्रिंशदेवम्‍ ।
ध्मातं पुनर्ध्माय शतं हि वारान्‍ काथे कुलत्थस्य हि निक्षिपेच ॥३४॥
संपेषयेत्तं हि शिलातलेन मन:शिलाभि: सह कारयेव्दटीम्‍ ।
क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत‍ ॥३५॥
वारान्‍ शतं चापि ततो धमेत संमर्दितं शोधितपारदेन ।
वज्राणि सर्वाणि मृतीभवन्ति तद्रस्मकं वारितरं भवेच ॥३६॥
श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्यु: कथितो हि सम्यक्‍ ।
कासमर्दरसपूर्णालोहजे मत्कुणस्य रुधिरैर्विलेपितम्‍ ॥३७॥
खेदितं च भिदुरं हि सप्तभिर्वासरै: परिनिषिच्य मूत्रके ।
घ्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तव्दिद: ॥३८॥
नीलज्वालावीरुध: कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम्‍ ।
वज्रं याति स्वैरवह्रिप्रदानात्पिष्टैश्चापि क्षोणिनागै: प्रलिप्तम्‍ ॥३९॥
विंशव्दारान्‍ संपुटेच प्रयत्नादारण्यैर्वा गोमयैस्तध्दठाग्रौ ॥
वज्रं चैवं भस्मसाव्दीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥४०॥
वज्रयोगा: ।
भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्रा ।
ध्मातं रसादावपि योजनीयं रसायनं तद्रवतीह सम्यक्‍ ॥४१॥
भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम्‍ ।
वज्रस्य भूति: किल पोटलीकृता मुखे धृता दार्ढ्यकरी व्दिजानाम्‍ ॥४२॥
वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम्‍ ।
अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥४३॥
अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत्‍ ।
वैक्रान्तकं भस्म इहाष्टभागकंअ षडेव भागा हि बलेर्विधेया : ॥४४॥
षाडुंण्यसंसिध्दिमुपैति सर्वदा सर्वार्थसंसिध्दिमुपैति सेविते ।
नीलभेदा: ।
इन्द्रनीलमथ वारिनीलकं, श्वैत्यगर्भितमथापि नीलकम्‍ ॥४५॥
कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरै:  ।
कान्त्या युक्तं कार्ष्ण्यगर्भ च नीलं तचाप्युक्तं शक्रनीलं सदैव ॥४६॥
श्रेष्ठनीललक्षणम्‍ ।
एकच्छायं स्रिग्धवर्ण गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कान्तियुक्तम्‍ ।
नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिडैंर्लक्षितं चोत्तमं हि ॥४७॥
त्याज्यनीललक्षणम्‍ ।
निर्भारं चेत्कोमलं चास्रगन्धि रुक्षं वर्णे सूक्ष्मकं चिप्पटं च ।
प्रोक्तं वै तव्दारिनीलं भिषग्भिरेतैर्लिडैं: सप्तमि: क्षेपणीयम्‍ ॥४८॥
नीलगुणा: ।
संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्रम‍ ।
दुर्नामपाण्डुघ्रमतीव बल्यं जूर्तिं जयेत्रीलमिदं प्रशस्तम्‍ ॥४९॥
श्रेष्ठगोमेदलक्षणम्‍ ।
गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते ।
सुस्वच्छगोमूत्रसमानवर्ण गोमेदकं शुध्दमिहोच्यते खलु ॥५०॥
दीप्तं स्रिग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च ।
एभिर्लिडैंर्लक्षितं वै गरीय: सर्वेषु कार्येषु च योजनीयम्‍ ॥५१॥
वर्ज्यगोमेदलक्षणम्‍ ।
विच्छायं वा चिप्पटं निष्प्रभं च रुक्षं चाल्पं चावृतं पाटलेन ।
निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम्‍ ॥५२॥
गोमेदगुणा: ।
गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्रं कफनाशनं च ।
संदीपनं पाचनमेव रुच्यमत्यन्तबुध्दिप्रविबोधनं च ॥५३॥
श्रेष्ठवैडूर्यलक्षणम्‍ ।
स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं हि ॥
यज्ञोपवीतोपमशुध्दरेषास्त्रिसश्व संदर्शयतीह शुभ्रा: ॥५४॥
त्याज्यवैडूर्यलक्षणम्‍ ।
कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छवि: ।
रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विदर्यकम्‍ ॥५५॥
वैडूर्यंगुणा: ।
रक्तपित्तशमनं विडूर्यकं बुध्दिवर्धनकरं च दीपनम्‍ ।
पित्तरोगमलमोचनं सदा धारयेच मतिमान्‍ सुखावहम्‍ ॥५६॥
रत्नमारणम्‍ ।
तालगन्धकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु ।
विना वज्रमपि चाष्टभि: पुटै रत्नभूतिर्भवतीति वै सदा ॥५७॥
रत्नद्रुतिविधानम्‍ ।
रामठं लवणपश्चकं सदा क्षारयुग्मपि चेत्सुपेषितम्‍ ।
 चूलिकालवणम्लवेतसं सुपक्ककुम्भीकफलं तथैव ॥५८॥
चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका ।
अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥५९॥
गोलमय च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत‍ ।
भूर्जपत्रमभिवेष्टय गोलके गोलकोपरि निवेष्टय सूत्रत: ॥६०॥
वस्त्रेण संवेष्टय तत: प्रयत्नाद्दोलाख्ययत्रेऽथ निवेश्य गोलकम्‍ ।
सर्वाम्लयुक्ते तुषवारिपुरिते पात्रे दृढे मृन्मयसंज्ञके हि ॥६१॥
दिनत्रयं स्वेदनकं विधेयमाहृत्य तस्माव्दरगोलकं हि ।
संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥६२॥
रत्नद्रुतिलक्षणम्‍ ।
वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक‍ ।
लोहस्य वेधं प्रकरोति सम्यक्‍ सूतेन सम्यडिंलनं प्रयाति ॥६३॥
तदा भवेयु: खलु सिध्दिदा यदा हिडंग्वादिवर्गेण मिलन्ति सम्यक्‍ ।
यामव्दयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यै: ॥६४॥
कस्यापि नु: सिध्यति वै द्रुतिश्च यदा प्रसन्नो भवतीह देव: ।
विष्णोश्च भक्ति: खलु दुर्लभा वै तव्दत्सूते बन्धनं दुर्लभं च ॥६५॥
तासां मध्ये दुर्लभाऽभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यतोऽपि ।
सप्तमाध्यायोपसंहार: ।
रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं
तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुते: पातनम्‍ ।
सर्वेषां हि परीक्षणं च द्रुतय: संमेलनं वै रसे
ग्रन्थेऽस्मिन्परिदर्शितानि सकलान्येवं हि कर्माणि वै ॥६६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T20:02:32.4970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुळव्याधि

  • स्त्री. अर्श ; गुदाला होणारा एक उष्णतेचा रोग . मुळव्याधीचे प्रकार :- रक्ती , मोडाची , लसणी , चुंबळी इ० . [ सं . मुलव्याधि ] 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.