TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - षठोऽध्याय : ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


षठोऽध्याय : ।
अष्टावुपरसा: ।
तालकं तुवरी गन्धं ककुंष्टं कुनटी तथा ।
सौवीरं गैरिकं चैव अष्टमं खेचराहयम्‍ ॥१॥
तालकं व्दिविधं प्रोक्तं द्लाख्यं चाश्मसंज्ञकम्‍ ।
सूक्ष्मपत्रं हेमवर्ण गुरु सिग्धं च भासुरम्‍ ॥२॥
दलाख्यं तालकं तच्च बहुसत्वं रसायनम्‍ ।
निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथाऽगुरु ॥३॥
नारीणां पुष्पहृत्ततु अपथ्यं चाश्मतालकम्‍ ।
वातश्लेष्महरं रक्तभूतनुत्पुष्पहृत्स्त्रिया: ॥४॥
सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत्‍ ।
तालकशोधनम्‍ ।
कूष्माण्डतोयसंखिन्नं तत: क्षारजलेन वा ॥५॥
चूर्णतोयेन वा खिन्नं दोलायत्रेण शुध्दयति ।
तालकसत्वपातनम्‍ ।
कुलत्थकाथसौभाग्यमाहिषाज्यमधुप्लुतम्‍ ।
खल्वे क्षित्वा च तत्तालं मर्दयेदेकवासरम्‍ ॥६॥
निस्तुषीकृत्य चैरण्डबीजान्येव तु मर्दयेत्‍ ।
पलाष्टमानं तालस्य चाष्टामांशं तु कारयेत्‍ ॥७॥
बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत्‍ ।
यवाभा गुटिका कार्या, शुष्कां कूप्यां निधाय च ॥८॥
वालुकायत्रमध्ये तु वह्रिं व्दादशयामकम्‍ ।
स्वांशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत्‍ ॥९॥
पाषाणधातुसत्वानां प्रकारा: सन्ति कोटिश: ।
यानि कार्यकराण्येव सत्वानि कथितानि वै ॥१०॥
सौराष्ट्रीभेदा: ।
सौराष्ट्रदेशे संजाता खनिजा तुवरी मता ।
या लेपिता श्वेतवस्त्रे रडंबन्धकरी हि सा ॥११॥
फुल्लिका खटिका तव्दद्दिप्रकारा प्रशस्यते ।
किंचित्पीता च सुस्रिग्धा गरदोषविनाशिनी ॥१२॥
श्वेतवर्णाऽपरा साम्ला फुल्लिका लोहमारणी ।
कषाया मधुरा कांडी कटुका विषनाशिनी ॥१३॥
व्रणघ्री कफहा चैव नेत्रव्याधित्रिदोषहा ।
कण्ठरोगहरा सा तु पारदे बीजजारणी ॥१४॥
सौराष्ट्रीशोधनं सत्वपातनं च ।
धान्याम्ले तुवरी क्षिप्ता शुध्दयति त्रिदिनेन वै ।
क्षारैरम्लैश्व मृदिता ध्माता सत्वं विमुज्चति ॥१५॥
तत्सत्वं धातुवादार्थे, चौषधे नोपपद्यते ।
मन: शिलाभेदा: ।
मन: शिला त्रिप्रकारा श्यामा रक्ता च खण्डिका ॥१६॥
श्यामा रक्ता मिश्रवर्णा धा(भा) राढया श्यामिका भवेत्‍ ।
कणवीरा सुरक्तांडी ताम्राभा सैव शस्यते ॥१७॥
चूर्णिता याऽतिरक्तांडी गुरु: स्रिग्धा च खण्डिका।
सर्वा: कुनटय: कथिता: पूंर्व पूंर्व गुणोत्तरा: ॥१८॥
मन: शिलागुणा: ।
रसायनवरा सर्वा वातश्लेष्मविनाशिनी ।
सत्वाधिका विषघ्री च भूतकण्डूक्षयापहा ॥१९॥
अग्रिमान्घं प्रशमयेत्कोष्ठरोगनिबर्हिणी ।
मन: शिलाशोधनम्‍ ।
मुनिपत्ररसेनापि शृंवेररसेन वा ।
भाविता सप्तवारेण विशुध्दयति न संशय: ॥२०॥
मन: शिलासत्वपातनम्‍ ।
सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाऽथवा ।
शिलाया अष्टमांशेन पिण्डीकृत्वा प्रयत्नत: ॥२१॥
ध्माता तु कोष्ठिकायत्रे मुज्चेत्सत्वं न संशय: ॥२२॥
अज्जनभेदा: ॥
सौवीरं च रसाज्जनं निगदितं श्रोतोज्जनं चैव हि
तव्दूत्पुष्पमथाज्जनं तदनु चेत्रीलाज्जनं कथ्य्ते ।
पश्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ
कथ्यन्तेऽत्र मयाऽपि शोधनमिदं सत्वं मृतिश्चोच्यते ॥२३॥
सौवीराज्जनम्‍ ।
सौवीराख्यं चाज्जनं धूमवर्ण पित्तास्रघ्रं छर्दिहिध्माव्रणघ्रम्‍ ।
नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगोपशान्त्यै ॥२४॥
रसाज्जनम्‍ ।
पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं
वर्ण्य वाताविनाशनं कृमिहरं दार्व्युद्रवं शोभानम्‍ ।
स्रोतोज्जनम्‍ ।
स्रिग्धं खादुकषायकं विषवमीपित्तास्रनुल्लेखनं
नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोज्जनं सर्वदा ॥२५॥
पुष्पाज्जनगुणा: ।
सितं स्रिग्धं हिमं चैव नेत्ररोगविषापहम्‍ ।
ज्वरघ्रंमतिहिध्माघ्रं पुष्पाज्जमिहोदितम्‍ ॥२६॥
नीलाज्जनगुणा: ।
रसायनं सुवर्णघ्रं गुरु स्रिग्धं त्रिदोषहा ।
नीलाज्जनं च कथितं लोहमार्दवकारकम्‍ ॥२७॥
अज्जनानां शोधनम‍ ।
भृडंराजरसेनैव सर्वाण्येवाज्जनानि हि ।
विशुध्दयन्तीह सततं सत्यं गुरुवचो यथा ॥२८॥
अज्जनसत्वपातनम्‍ ।
शिलाया: सत्ववत्सत्वमज्जनानां च पातयेत्‍ ।
गन्धकभेदा: ।
गन्धकस्य चतुर्भेदा: कथिता: पूर्वसूरिभि: ॥२९॥
श्वेत: पीतस्तथा रक्त: कृष्णश्वेति चतुर्विध: ।
श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम्‍ ॥३०॥
जायते नात्र संदेहश्वानुभूतं मया खलु ।
पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारक: ॥३१॥
रस रसायने श्रेष्ठ: शुकपिच्छ: स कथ्यते ।
लाक्षारसनिभो रक्त: शुकतुण्ड: स कथ्यते ॥३२॥
धातूनां रज्जनं कुर्याद्रसबन्धं करोत्यलम‍ ।
य: कृष्णवर्ण: स तु दुर्लभ: स्यात्राशं करोतीह जरापमृत्यो: ।
संसेवनाव्दज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥३३॥
गन्धकगुणा: ।
विपाके मधुरो गन्धपाषाणस्तु रसायन: ।
विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥३४॥
आमाजीर्णप्रशमनो विषहा रसशोषण: ।
सूतस्य वीर्यद:साक्षात्पावतीपुष्पसंभव: ॥३५॥
कृमिरोगहर: सम्यक्‍ सूतं मूर्च्छयति ध्रुवम्‍ ।
सेवितो बलिराज्ञा वै प्रभूतबलहेतवे ॥३६॥
तस्मव्दलिवसेत्युको गन्धकोऽतिमनोहर: ।
गन्धकशोधनम्‍ ।
घटीमध्ये पय: क्षिप्त्वा मुखे वस्रं प्रबन्धयेत्‍ ॥३७॥
वस्त्रोपरि बलेश्चूंर्ण मुखं रुध्वा शरावत: ।
भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नत: ॥३८॥
विंशत्युपलकैश्चैव स्वांशीतं समुध्दरेत्‍ ।
अनेनैव प्रकारेण स्वांशीतं पुन:पुन: ॥३९॥
एवं संशोधितो गन्ध: सर्वकार्यकरो भवेत्‍ ।
गन्धकतैलपातनम्‍ ।
कलांशव्योषसंयुक्तं शुध्दगन्धकचूर्णकम्‍ ॥४०॥
वस्त्रे वितस्तिमात्रे तु गन्धचूंर्ण सतैलकम्‍ ।
विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत्‍ ॥४१॥
धृत्वा संदशतो वर्तिमध्यं प्रज्वालयेच्च ताम्‍ ।
विद्रुत: पतते गन्धो बिन्दुश: काचभाजने ॥४२॥
तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम्‍ ।
रसं वल्लमितं तत्र दत्त्वाऽडंल्या विमर्दयेत्‍ ॥४३॥
तत्संर्व भक्षयेत्पश्चाद्रोदुग्धं चानु संपिबेत्‍ ।
कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम्‍ ॥४४॥
ग्रहणीं नाशयेद्दुष्टां शूलार्तिश्वासकासकम्‍ ।
आमाजींर्ण प्रशमयेल्लघुत्वं च प्रजायते ॥४५॥
गन्धकस्य गुणान्‍ वक्तुं शक्त: क :शम्भुना विना ।
गन्धकयोगा: ।
शुकपिच्छस्तु मरिचसमांशेन तु कल्पित: ॥४६॥
त्रिफला षडुंणा कार्या मर्दयेत्कृतमालजै: ।
मूलद्रवैस्तत: पीतो हन्ति कुष्ठान्यनेकश: ॥४७॥
तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम्‍ ।
कुष्ठोन्येव निहन्त्याशु सद्य: प्रत्ययकारकम्‍ ॥४८॥
संशुध्दगन्धकं चैव तैलेन सह पेषयेत्‍ ।
अपामार्गक्षारतोयैस्तैलेन मरिचेन च ॥४९॥
विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च ।
भोजयेक्तभक्तं च तृतीये प्रहरे खलु ॥५०॥
वह्रिना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत्‍ ।
महिषस्य पुरीषेण स्रायाच्छीतेन वारिणा ॥५१॥
गन्धतैलं ततोऽभ्यज्य पश्चात्कोष्णेन वारिणा ।
स्रानं कुर्यादुषस्येवं कण्डू: पामा च नश्यति ॥५२॥
दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु ।
नाशयेच्चिरकालोत्था: कुष्ठपामाविचर्चिका: ॥५३॥
ककुष्ठवर्णनम्‍ ।
पर्वते हिमसमीपवर्तिनि जायते‍ऽ‍तिरुचिरं ककुष्ठकम्‍ ।
एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत्‍ ॥५४॥
पीतवर्णमसृणं च वै गुरु स्रिग्धमुत्तमतरं प्रचक्षते ।
श्यामपीतमतिहीनसत्वकं रेणुकं हि कथितं व्दितीयकम्‍ ॥५५॥
वदन्ति ककुंष्टमथापरे हि सद्य: प्रसूतस्य च दन्तिन: शकृत‍ ।
तत्कृष्णपीताभमतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वरा: ॥५६॥
चतुर्थककुंष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञा: ।
यध्दस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम्‍ ॥५७॥
रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम्‍ ।
ककुष्ठगुणा: ।
ककुंष्ठकं तिक्तकटूष्णवींर्य विशेषतो रेचनकं करोति ॥५८॥
गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविद: पुराणा: ।
ककुंष्ठशोधनम्‍ ।
शुण्ठयम्भसा भावितमेव शुध्दिं ककुंष्ठमायाति हि सत्यमुक्तम‌ ॥५९॥
ककुंष्ठयोग: ।
सत्वाकृष्टिर्नच प्रोक्ता यस्मात्सत्वमयं हि तत्‍ ।
यवमात्रं भजेदेनं विरेकांर्थ न संशय: ॥६०॥
क्षणादामज्वरं हन्ति जाते सति विरेचने ।
ताम्बूलेन समं चैवं भक्षितं सारयेद्रुवम्‍ ॥६१॥
बब्बूलमूलिकाक्काथं सौभाग्याजाजीसंयुतम्‍ ।
भूयो भूय: पिबेध्दिमान्‍ विषं ककुष्ठजं जयेत्‍ ॥६२॥
कासीसभेदास्तद्रुणाश्व ।
कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा
क्षाराम्लं गुरु धूम्रवर्णाविषहृव्दीर्योष्णकं रागदम्‍ ।
श्वित्रघ्रं मुखकेशरज्जनकरं तत्सैकतं पूर्वकं
पुष्पाख्यं ह्यपरं गुणैश्व सहितं सेव्यं सदा रोगहृत्‍ ॥६३॥
पुष्पाभिधं च कासीसं प्रसिध्दं नेत्ररोगहा ।
सोष्णवींर्य कषायाम्लं विषघ्रं श्लेष्मनाशनम्‍ ॥६४॥
व्रणहृत्क्षयरोघ्रं पटरज्जनकं परम्‍ ।
कासीसशोधनम्‍ ।
भृडंराजरसे खिन्नं निर्मलं हि प्रजायते ॥६५॥
कासीससत्वपातनम्‍ ।
सौराष्ट्रीसत्ववत्सत्वमेतस्यापि समाहरेत्‍ ।
कासीसयोग: ।
कासीसं भस्म कान्तस्य चोभयं समभागिकम्‍ ॥६६॥
वराविडंसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ।
भक्षितं हन्ति वेगेन पाण्डुं यक्ष्माणमेव च ॥६७॥
प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषत: ।
सेवितं सर्वरोगघ्रं रसायनविधानत: ॥६८॥
अग्रिसंधुक्षणं कुर्याव्दलीपलितनाशनम्‍ ।
आमाजीर्णभवान्‍ रोगान्‍ निहन्त्येव न संशय: ॥६९॥
नवसारगुणा: ।
उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम्‍ ।
लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥७०॥
वह्रिं च दीपयत्याशु गुल्मल्पीहामयापहम्‍ ।
मांसादिजारणं सम्यग्भुक्तपाकं करोति तत्‍ ॥७१॥
बिडगुणा: ।
बिडं हि कथ्यते तव्दत्सर्वदोषहरं परम्‍ ।
वराटिकालक्षणम्‍ ।
पीता वराटिका प्रोक्ता सार्धनिष्कप्रमाणिका ॥७२॥
श्रेष्ठा सैव बुधै: प्रोक्तां टडंभारा हि मध्यमा ।
पादोनटडंभारा च कथ्यते या कनिष्ठिका ॥७३॥
वराटिकागुणा: ।
रसे रसायने प्रोक्ता परिणामादिशूलनुत्‍ ।
ग्रहणीक्षयरोगघ्री वीर्योष्णा दीपनी मता ॥७४॥
वृष्या दोषहरी नेत्र्या कफवातविनाशिनी ।
रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥७५॥
स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तला ।
वराटिकाशोधनम्‍ ।
खेदिता ह्यारनालेन यामाच्छुध्दिमवाप्रुयात्‍ ॥७६॥
अग्रिजारलक्षणम्‍ ।
समुद्रेणाग्रिनक्रस्य जरायुर्बहिरुज्झित: ।
रवितापेन संशुष्क: सोऽग्रिजार इति स्मृत: ॥७७॥
अग्रिजारगुणा: ।
त्रिदोषशमनो ग्राही धनुर्वातहर: पर: ।
वर्धनो रसवीर्यस्य जारण: परम : स्मृत: ॥७८॥
गिरिसिन्दूरलक्षणम्‍ ।
महागिरौ शिलान्त:स्थो रक्तवर्णश्र्व्युतो रस: ।
सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञिक: ॥७९॥
गिरिसिन्दूरगुणा: ।
रसबन्धकरं भेदि त्रिदोशमनं तथा ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम्‍ ॥८०॥
दरदभेदा गुणाश्च ।
दरद: शुकतुण्डाख्यो हंसपादस्तथाऽपर: ।
चर्मार: प्रथम: प्रोक्तो हीनसत्व: स उच्यते ॥८१॥
प्रवालाभ: शलाकाढय उत्तमो हंसपादक: ।
दीपन: सर्वदोषघ्रो हिडुंलोऽतिरसायन: ॥८२॥
सर्वरोगहर: साक्षाद्द्रावणे संप्रशस्यते ।
यथा षडुंणगन्धेन जारितो रसराजक: ॥८३॥
दरदाकर्षित: सूतो गुणैरेवंविधो भवेत्‍ ।
दरदशोधनम्‍ ।
कूष्माण्डखण्डमध्ये तु खेदितो लकुचाम्बुना ॥८४॥
सकृत्संजायते शुध्द: सर्वकार्येषु योजयेत्‍ ।
बोदारशृंडलक्षणम्‍ ।
भवेद्रुर्जरके देशे सदलं पीतवर्णकम्‍ ।
अर्बुदस्य गिरे: पार्श्वे नाम्रा बोदारशृंडकम्‍ ॥८५॥
बोदारशृंडगुणा: ।
नागसत्वं लिडंदोषहरं श्लेष्मविकारनुत‍ ।
रसबन्धकरं सम्यक‍छश्रुरज्जनकं परम्‍ ॥८६॥
साधारणरसशोधनम्‍ ।
साधारणरसा : सर्वे बीजपूररसेन वै ।
त्रिवारं भाविता: शुष्का जायन्ते दोषवर्जिंता: ॥८७॥
इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचिते रसप्रकाशसुधाकरे
षष्ठोऽध्याय: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T20:01:32.6370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

monoclinal ridge

  • एकनतिक कटक 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.