TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - पंचमोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


पंचमोऽध्याय: ।
अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान्‍ ।
तेषां नामानि वर्गाश्च सत्वानि तद्गुणांस्तथा ॥१॥
अष्टमहारसा: ।
क्रमेण गगनं ताप्यं वैक्रान्तं विमलं तथा ।
सस्यकं शैलसंभूतं राजावर्तकमेव हि ॥२॥
एते महारसाश्चष्टावुदिता रसवादिभि: ।
अभ्रकभेदा: ।
क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम्‍ ॥३॥
श्वेतं रक्तं तथा पीतं कृष्णं परमसुन्दरम्‍ ।
श्वेतं श्वेतक्रियायोग्यं रक्तपीतं हि पीतकृत्‍ ॥४॥
कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ।
वज्रं पिनाकं नागं च मण्डूकमभिधीयते ॥५॥
अनेन विधिना प्रोक्ता भेदा: सन्तीह षोडश ।
अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा ॥६॥
शेषाणि त्रीणी चाभ्राणि घोरान् व्याधीन्‍ सृजन्ति हि ।
तस्माद्यत्नेन स्द्वैद्यैर्वर्जनीयानि नित्यश: ॥७॥

वज्राभ्रलक्षणम्‍ गुणाश्च ।
वज्राभं धम्यमानेऽग्नौ विकृतिं न भजेत्‍ कदा ।
सेवितं तन्मृतिं हन्ति वज्राभ्र कुरुते वपु: ॥८॥
पिनाकाभ्रलक्षणं गुणाश्च ।
पिनाकं चाग्रिसन्तप्तं विमुश्चति द्लोच्चयम्‍ ।
सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम्‍ ॥९॥
नागाभ्रलक्षणं गुणाश्च ।
नागाभ्रं ध्मापितं सम्यड्रागवत्स्फूर्जते धुवम्‍ ।
सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम्‍ ॥१०॥
विषं हालाहलं पीतं मारयेत्येव निश्चितम्‍ ।
तथा नागाभ्रनामानं सद्वैद्य: कथयत्यलम्‍ ॥११॥

मण्डूकाभ्रलक्षणम्‍ गुणाश्च ।
मण्डूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यश: ।
क्षणं चाग्रौ न तिष्ठेत मण्डूकसद्दशां गतिम्‍ ।
मण्डूकाभ्रं न सेव्यं हि कथितं रसवेदिना ॥१२॥

मृतवज्राभ्रकगुणा: ।
मृतं वज्राभ्रकं सम्यक्‍ सेवनीयं सदा बुधै: ।
वलीपलितयाशाय द्दढतायै शरीरिणाम्‍ ॥१३॥
सर्वव्याधिहरं त्रिदोषशमनं वह्येश्च संदीपनं
वीर्यस्तम्भविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम्‍ ।
भूतोन्मादनिवारणं स्मृतिकरं शोफामध्वंसकं
सद्य: प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम्‍ ॥१४॥

सचन्द्रिकाभ्रभक्षणे दोषा: ।
यथा विषं यथा वज्रं शस्त्राग्री प्राणहा यथा ।
भक्षितं चन्द्रिकायुक्तमभ्रकं ताद्दशं गुणै: ॥१५॥

अभ्रकशोधनम्‍ ।
स्वेदयेद्दिनमेकं तु काज्जिकेन तथाभ्रकम्‍ ।
पश्चात्कुलत्थजे काथे तक्रे मूत्रेऽथ वह्यिना ॥१६॥
पाचितं दोषशून्य़ं तु शुध्दिमायाति निश्चितम्‍ ।
तथाग्रौ परितप्तं तु निषिश्चेत्स्प्तवारकम्‍ ॥१७॥
काज्जिके चापि निर्दोषमभ्रकं जायते ध्रुवम्‍ ।
वराक्काथे तथा दुग्धे गवां मूत्रे तथैव च ॥१८॥
मार्कवस्य रसेनापि दोषशून्यं प्रजायते ।

अभ्रमारणस्य प्रथम: प्रकार: ।
सूक्ष्मचूर्णं तत: कृत्वा पिष्ट्वा हंसपदीरसै: ॥१९॥
चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्यये ।
षट्‍ पुटानि ततो दत्वा पुनरेवं पुनर्नवा- ॥२०॥
रसेन मर्दितं गाढमभ्रांशेन तु टड्कणम्‍ ।
पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु ॥२१॥
तण्डुलीयरसेनैव तद्वद्वासारसेन च ।
पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम्‍ ॥२२॥
अनेन विधिना चाभ्रं म्रियते नात्र संशय: ।
चन्द्रिकारहितं सम्यक्‍ सिन्दूराभं प्रजायते ॥२३॥

अभ्रसत्वपातनम्‍ ।
पादांशं टड्कणं दत्वा मुशलीरसमर्दितम्‍ ।
ध्मापितं कोष्ठिकायत्रे सत्वरुपं प्रजायते ॥२४॥
खल्वे पिष्ट्वा तु मतिमान्‍ सूक्ष्म्चूर्णं तु कारयेत्‍ ।
गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम्‍ ॥२५॥
भर्जितं दशवाराणि लोहखर्परकेण वै ।
अग्रिवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत ॥२६॥
शुकपिच्छ्समं पिष्ट्वा काथे तु वटमूलजे ।
ततो विंशतिवाराणि पुटेच्छूकरसंज्ञिकै: ॥२७॥
वराकषायैर्मतिमान्‍ तथा कुरु भिषग्वर: ।
नीलीगुज्जावरापथ्यामूलकेन सुभावयेत्‍ ॥२८॥
संशुष्कं भक्षयेद्विद्वान्‍ सर्वरोगहरं परम्‍ ।
अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम्‍ ॥२९॥
यदि चेच्छतवाराणि पाचयेत्तीव्रवह्यिना ।
तदाऽमृतोपमं चाभ्रं देहलोहकरं परम्‍ ॥३०॥

अभ्रमारणस्य द्वितीय: प्रकार: ।
कासमर्दरसेनैव धान्यभ्रं पाचितं शुभम्‍ ।
शतवारेण म्रियते नात्र कार्या विचारणा ॥३१॥
एवं मुस्तारसेनापि तण्डुलीयशिवारसै: ।
टड्कणेन समं पिष्ट्वा चक्राकारमथाभ्रकम्‍ ॥३२॥
षष्टिसंख्यपुटै: पक्वं सिन्दूरसद्दशं भवेत्‍ ।
कुष्ठक्षयादिरोगघ्नमभ्रकं जायते ध्रुवम्‍ ॥३३॥

अभ्रमारणस्य तृतीय: प्रकार: ।
नागवल्लीदलरसैर्वटमूलत्वचा तथा ।
वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥३४॥
वटवृक्षस्य मूलेन मर्दितं पुटितं घनम्‍ ।
सिन्दूरसद्दशं वर्णे भवेद्विंशतिमे पुटे ॥३५॥
सूक्ष्मं रुक्षं जलप्लावं रक्तवर्णसमुद्भवम्‍ ।
सर्वरोगहरं चापि जायते बहुभि: पुटै: ॥३६॥

अभ्रसत्त्वपातनस्यान्य: प्रकार: ।
धार्न्याभ्रकं तत: कृत्वा व्दात्रिंशत्पलमात्रकम्‍ ।
लाक्षा गुज्जा क्षुद्रमीनाष्टक्कणं दुग्धमाविकम्‍ ॥३७॥
सर्षपा: शिग्रुपिण्याकं सिन्धूत्थं मृगशॄडकम्‍ ।
माक्षिकं च समांशानि सर्वाण्येव तु कारयेत्‍ ॥३८॥
धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्‍  भिषक्‍ ।
पुनर्नवाया वासाया: कासमर्दस्य तन्दुले: ॥३९॥
मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसै: पृथक्‍ ।
खलगोधूमयोश्र्वूर्णै: कारयेव्दकांश्र्छुभान्‍ ॥४०॥
पश्चात्कोष्ठयां धमेच्छुष्कान्‍ भस्त्रिकाव्दितयेन तान्‍ ।
खदिरस्य तु चाडारै: सत्वं नि:सरति ध्रुवम्‍ ॥४१॥
पृथक्कृत्वा तु रवकान्‍ कांस्यवर्णान्‍ विशेषत: ।
तत्किट्टं गोमयेनाथ वटकान्‍ कारयेत्पुन: ॥४२॥
ध्मापयेत्पूर्वविधिना पुन: सत्वं हि नि:सरेत‍ ।
अनेन विधिना कांर्य पञ्चगव्येन मिश्रितम्‍ ॥४३॥
पञ्चाजेनाथ माहिष्यपञ्चकेन समं कुरु ।
पतत्येवमसंदिग्ध सत्यं गुरुवचो यथा ॥४४॥
अथाभ्रसत्वरवकानम्लवर्गेण पाचयेत्‍ ।
शोधनीयगणेनैव भूषामध्ये तु शोधयेत्‍ ॥४५॥
काचटडकणगुज्जाज्यसारघै: शोधयेत्खलु ।
मधुतैलवसाज्येषु दशवाराणि ढालयेत्‍ ॥४६॥
मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा ।
सत्वस्य गोलाकानेवं तप्तानेव तु काज्जिके ॥४७॥
निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया ।
अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत‍ ॥४८॥
भर्जयेध्दतमध्ये तु त्रीणि वाराणि यत्नत: ।
पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नत: ॥४९॥
धात्रीपत्ररसेनापि तस्या: फलरसेन वा ।
पुनर्भुवा वासया च काज्जिकेनाथ गन्धकै: ॥५०
पुटयेद्दशवाराणि म्रियते चाभ्रसत्वकम्‍ ।
मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम्‍ ।
क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम्‍ ॥५१॥
ज्वरान्मेहांश्च कासांश्च गुल्मान्‍ पज्चविधानपि ।
मन्दाग्रिमुदराण्येवमर्शांसि विविधानि च ॥५२॥
अनुपानप्रयोगेण सर्वरोगान्निहन्ति च ।
अभ्रसत्वगुणा वक्तुं शक्यते न समाशतै: ॥५३॥
राजावर्तलक्षणम्‍ ।
किज्चिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभ: सदा ।
तौल्ये गुरुश्च मसृणो राजावर्तो वर: स्मृत: ॥५४॥
राजावर्तगुण: ।
श्लेष्मप्रमेहदुर्नामपाण्डुक्षयनिवारण : ।
पाचनो दीपनश्चैव वृष्योऽनिलविषापह: ॥५५॥
राजावर्तशोधनम्‍ ।
गोमूत्रेणाथ क्षारैश्च तथाम्लै: स्वेदिता: खलु ।
त्रिवारेण विशुध्दयन्ति राजावर्तादयो हि वै ॥५६॥
राजावर्तमारणम्‍ ।
चूर्णित: शुकपिच्छेन भृडराजरसेन वै ।
सप्तवारेण पुटितो राजावर्तो मरिष्यति ॥५७॥
राजावर्तंसत्वपातनम्‍ ।
कोशातकी क्षीरकन्दो वन्ध्याकर्कोटकी तथा ।
काकमाची राजशमी त्रिफला गृहधूमक: ॥५८॥
राजावर्तो रसैरेषां सत्वं मुज्जति मर्दित: ।
ध्मापित: खदिराडारैर्भस्त्रिकाव्दितयेन वै ॥५९॥
वैक्तान्तलक्षणम्‍ ।
अष्टधारोऽष्टफलक: षट्कोणो मसृणो गुरु: ।
शुध्दमिश्रितवर्णैश्च युक्तो वैक्तान्त उच्च्ते ॥६०॥
वैक्तान्तलक्षणम्‍ ।
श्वेत: पीतस्तथा कृष्णो नील: पारावतच्छवि: ।
कर्बुर: श्याववर्णाश्च वैक्तान्तश्चाष्टधा स्मृत: ॥६१॥
वैक्तान्तलक्षणम्‍ ।
आयु:प्रदस्त्रिदोषघ्रो वृष्य: प्राणप्रद: सदा ।
वेगप्रदो वोर्यकर्ता प्रज्ञावर्णौ करोति हि ॥६२॥
रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा ।
वज्रवद्रुणकारी च वैक्तान्तो रसबन्धक: ॥६३॥
वैक्तान्तलक्षणम्‍ ।
क्काथे कुलत्थजे खिन्नो वैक्रान्त: शुध्दयति ध्रुवम्‍ ।
गन्धनिम्बुरसैर्मर्घ: पुटितो म्रियते ध्रुवम्‍ ॥६४॥
वैक्तान्तलक्षणम्‍ ।
सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधै: ।
शुष्कायितो वटीकृत्वा मूषास्थो ध्मापितोऽपि वै ॥६५॥
सत्वं मुज्जति वैक्रान्ता: सत्यं गुरुवचो यथा ।
मृतसूतेन तुल्यांशं सत्वं वैक्रान्तसंभवम्‍ ॥६६॥
मृताभ्रसत्वसंयुक्तं मर्दितं सममातकम्‍ ।
कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम्‍ ॥६७॥
सर्वान्‍ रोगान्निहन्त्याशु जीवेव्दर्षशतं सुखी ॥
वर्षत्रयप्रमाणेन वलीपलितनाशन: ॥६८॥
सस्यकलक्षणम्‍ ।
सद्यो हालहलं पीततमृतं गरुडेन च ।
सुधायुक्ते विषे वान्ते पर्वते मरुताहृये ॥६९॥
घनीभूतं च संजातं सस्यकं खलु कथ्यते ।
नीलं मरकतच्छायं तेजाढयमतिशस्यते ॥७०॥
सस्यकगुणा: ।
विषेण सहितं यस्मात्तस्माव्दिषगुणाधिकम्‍ ।
सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥७१॥
त्रिदोषशमनं चैव विषंहृद्रुशूलनुत्‍ ।
अम्लपित्तविबन्धघ्रं रसायनवरं सदा ॥७२॥
वान्तिं करोति वैरेकंअ श्वित्रकुष्ठापहं तथा ।
नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम्‍ ॥७३॥
सस्यकशोधनम्‍ ।
खेदितं माहिषाजाभ्य़ां गवां मूत्रैर्नरस्य वा ।
दोलायन्त्रेण यामौ व्दौ शुध्दयत्येव हि सस्यकम्‍ ॥७४॥
सस्यकमारणम्‍ ।
गन्धाश्मटडकणाभ्यां च लकुचद्रावमर्दितम्‍ ।
कुक्कुटाह्रै: सप्तर्म्रियते चान्धमूषया ॥७५॥
सस्यकसत्वपातनम्‍ ।
निघृष्टं टड्कणेनैव निम्बूद्रावेण मूषया
ध्यातं च ताम्ररुपं हि सत्वं मुज्चति सस्यकम्‍ ॥७६॥
सस्यकसत्वमुद्रिका ।
भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम्‍ ।
अनयोर्मुद्रिका कार्या शूलहा सा भवेत्खलु ॥७७॥
डाकिनीभूतसंवेशचराचरविषं जयेत्‍ ।
राज्ञां सदैव रक्षार्थ विधातव्या सुमुद्रिका ॥७८॥
विमलभेदा गुणाश्च ।
प्रथमो हेमविमलो हेमवव्दर्णसंयुत: ।
व्दितीयो रुप्यविमलो रुप्यवदृश्यते खलु ॥७९॥
तृतीय: कांस्यविमल: कांस्यवर्णसमो हि स: ।
स्निग्धश्च वर्तुलश्चैव षट्कोण: फलकान्वित: ॥८०॥
वृष्य: पित्तानिलहरो रसायनवर: खलु ।
विमलशोधनम‍ ।
वासारसे मर्दितो हि शुध्दोऽतिविमलो भवेत्‍ ॥८१॥
विमलमारणम्‍ ।
गन्धाश्मनिम्बुकद्रावैर्मर्दित: पुटितो मृतिम्‍ ।
शृडस्य भस्मना चापि पुटैश्च दशभि: पुटेत्‍ ॥८२॥
विमलसत्वपातनम्‍ ।
निन्बूरसेन संपिष्टा मूषामध्ये निरुन्ध्य च ।
विमल: सीससदृशं ध्मातो मुज्चति सत्वकम्‍ ॥८३॥
विमलसत्वप्रयोग: ।
पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम्‍ ।
द्रुते गन्धे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥८४॥
मन:शिला पज्चगुणा वालुकायन्त्रके खलु ।
ज्वालयेत्क्रमतश्चैव पश्चाद्रजतभस्मकम्‍ ॥८५॥
सममात्रं हि वैक्रान्तं सर्व संचूर्णयेत्खलु ।
संगाल्य यत्नतो वस्त्रात्स्थापयेत्कुपिकान्तरे ॥८६॥
वह्रिं कुर्यादष्टयामं स्वाड्शीतं समुध्दरेत्‍ ।
वल्लमात्रं च मधुना लेहयेव्द्योषसंयुतम्‍ ॥८७॥
बालांना रोगहरणं ज्वरपाण्डुप्रमेहनुत‍ ।
ग्रहणीकामलाशूलमन्दाग्रिक्षयपित्तहृत्‍ ॥८८॥
अनुपानविशेषण सर्वरोगान्निहन्ति वै ।
शिलाजतु व्दिधा प्रोक्तं गोमूत्रं घनसारकम्‍ ॥८९॥
तत्राद्यं व्दिविधं चैव ससत्वं सत्वहीनकम्‍ ।
गुणाधिकं तयोर्मध्ये यत्पूंर्व सर्वदोषहृत्‍ ॥९०॥
निदाघे तीव्रतापाध्दि हिमप्रत्यन्तपर्वतात्‍ ।
हेमतारार्कगर्भेभ्य: शिलाजतु विनि:सरेत्‍ ॥९१॥
बन्धूकपुष्पसदृशं गुरु स्त्रिग्धं सुशीतलम्‍ ।
रुक्मगर्भगिरेर्जातं, परमं तद्रसायनम्‍ ॥९२॥
किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत्‍ ।
तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम्‍ ॥९३॥
पित्तपाण्डुक्षयघ्रं हि शिलाजतु तु पाण्डुरम्‍ ।
शुल्बगर्भगिरेर्जातं कृष्णवंर्ण घनं गुरु ॥९४॥
गिरिजं कफवातघ्रं विशेषात्सर्वरोगजित्‍ ।
शुध्दशिलाजतुपरीक्षा ।
अग्रौ यज्जायते क्षिप्तं लिडाकारमधूमकम्‍ ॥९५॥
उद्केन विलीयेत तच्छुध्दं च विधीयते ।
शिलाजतुगुणा: ।
शिलाजतु तु संशुध्दं सेवते य: पुमान्‍ सदा ॥९६॥
जीवेव्दर्षशतं साग्रं न रोगैर्बाध्यते खलु ।
मूत्रकृच्छ्राश्मरीरोगा: प्रयान्त्येव न संशय: ॥९७॥
महारसे चोपरसे धातुरलेपु पारदे ।
ये गुणा: कथितो: सध्दि: शिलाधातौ भवन्ति ते ॥९८॥
शिलाजतुशोधनम्‍ ।
अम्लैश्व गुग्गुलोपेतै: क्षारद्यैर्भाण्डमध्यत: ।
विशुध्दयति शिलाजातं खेदितं घटिकाव्दयम्‍ ॥९९॥
शिलाजतुमारणम्‍ ।
मन: शिलालुंरसै: शिलया गन्धकेन वा ।
तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम्‍ ॥१००॥
छगणैरष्टभि: कृत्वा, भस्मीभूतं शिलोदंवम्‍ ।
वैक्रान्तकान्तत्रिफलात्रिकटुभि: समन्वितम्‍ ॥१०१॥
वल्लोन्मितं वै सेवेत सर्वरोगगणापहम्‍ ।
पलितं वलिभि: सांर्ध हन्यादेव न संशय: ॥१०२॥
कर्पुरशिलाजतुलक्षणं गुणाश्च ।
कर्पुरसदृशं श्वेतं कर्पुराख्यं शिलाजतु ।
अश्मरीमेहकृचछ्रघ्रं कामलापाण्डुनाशनम्‍ ॥१०३॥
अम्लतोयेन संखिन्नं शुष्कं शुध्दिमुपैति च ।
नोदितं मारणं तस्य सत्वपातनकं बुधै: ॥१०४॥
रसकभेदा: ।
व्दिविधो रसक: प्रोक्त: कारवेल्लश्व दर्दुर: ।
सत्वपाते पर: प्रोक्त: प्रथमश्वौषधादिषु ॥१०५॥
सर्वमेहहरश्वैव पित्तश्लेष्मविनाशन: ।
नागार्जुन कथितौ सिध्दौ श्रेष्ठरसावुभौ ॥१०६॥
कृतौ येनाग्रिसहनौ सूतखर्परकौ शुभौ ।
तेन स्वर्णमयी सिध्दिरर्जिता नात्र संशय: ॥१०७॥
रसकशोधनम्‍ ।
रसकस्तापित: सम्यंक्षिप्तो रसपुरके ।
निर्मलत्वमवाप्रोति सप्तवारं निमज्जित: ॥१०८॥
काज्जिके वाऽथ तक्रे वा नृमूत्रे मेषमूत्रके ।
द्रावितो ढालित: सम्यक्‍ खर्पर: परिशुध्दयति ॥१०९॥
खर्परं रेतितं शुध्दं स्थापितं नरमूत्रके ।
रज्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम्‍ ॥११०॥
रसकसत्वपातनम्‍ ।
शिलाहरिद्रात्रिफलागृहधूमै: ससैन्धवै: ।
भल्लातकैष्टंणैश्च क्षारैरम्लैश्च वर्तितम्‍ ॥१११॥
रसप्रकाशसुधाकर: ।
पादांशसंयुतैर्मूषां वृन्ताकफलसन्निभाम्‍ ।
निरुध्य शोषयित्वाऽथ मूषां मूषोपरि न्यसेत‍ ॥११२॥
प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा ।
लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम्‍ ॥११३॥
भूम्यामाढालयेत्सत्वं यथा नालं न भज्यते ।
तदा सीसोपमं सत्वं पतत्येव न संशय: ॥११४॥
अनेनैव प्रकारेण त्रिवारं हि कृते सति ।
विनि: सरेत्सर्वसत्वं सत्यं हि गुरुणोदितम्‍ ॥११५॥
रसकसत्वप्रयोग: ।
तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे ।
घर्षयेल्लोहदण्डेन म्रियते च न संशय: ॥११६॥
मृतं सत्वं मृतं कान्तं समांशेनापि योजितम्‍ ।
माषमात्रमितं चूंर्ण वराक्काथेन संयुतम्‍ ॥११७॥
लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम्‍ ।
निहन्ति मधुमेहं च क्षयं पाण्डुं तथाऽनिलम्‍ ॥११८॥
योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि ।
स्त्रीरोगान्‍ हन्ति संर्वाश्व श्वासकासपुरोगमान्‍ ॥११९॥
माक्षिकभेदा: ।
माक्षिकं व्दिविधं ज्ञेयं रुक्मताप्यप्रभेदत: ।
प्रथमं माक्षिकं स्वर्ण कान्यकुब्जसमुत्थितम्‍ ॥१२०॥
सुवर्णवर्णसदृशं नववर्णसमन्वितम्‍ झ।
तटे तपत्या: संजातं ताप्याख्यं माक्षिकं वदेत्‍ ॥१२१॥
पाषाणदलसंमिश्रं पाण्डुरं पज्चवर्णवत्‍ ।
गुणाल्पकं भवत्येतत्स्वल्पं सत्वं विमुज्चति ॥१२२॥
माक्षिकगुणा: ।
सर्वामयघ्रं सततं पारदस्यामृतं परम्‍ ।
मेलनं कृरुते लोहे परमं च रसायनम्‍ ॥१२३॥
मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च।
गन्धाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥१२४॥
पज्चवाराहपुटकैर्दग्धं मृतिमवामुयात्‍ ।
माक्षिकसत्वपातनम्‍ ।
लोहपात्रे सुसंदिग्धं लोहदण्डेन घर्षितम्‍ ॥१२५॥
यदा रक्तं धातुनिभं जायते निम्बुकद्रवै: ।
घर्षयेत्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु ॥१२६॥
दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत्‍ ।
वस्त्रस्था पिष्टिका लग्रा त्वध: पतति पारद: ॥१२७॥
अनेनैव प्रकारेण व्दित्रिवारेण गालयेत‍ ।
तत्पिष्टीगोलकं ग्राह्यं यत्रे डमरुके न्यसेत्‍ ॥१२८॥
प्रहराव्दयमात्रं चेदग्रिं प्रज्वालेद्‍ध: ।
इन्द्रगोपसमं सत्वमध:स्थं ग्राहयेत्सुधी: ॥१२९॥
अनेनैव विधानेन ताप्यसत्वं समाहरेत‍ ।
टंणेन समायुक्तं द्रावितं मूषया यदा ॥१३०॥
तदा ताम्रप्रभं सत्वं जायते नात्र संशय: ।
देहलोहकरं सम्यग्देवीशास्त्रेण भाषितम्‍ ॥१३१॥
इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचित्ते रसप्रकाशसुधाकरे
महारसनिरुपणं नाम पश्चमोऽध्याय: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T20:00:45.4630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

bonafide purchaser

  • वास्तविक क्रेताखरीदार 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site