TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - चतुर्थोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


चतुर्थोऽध्याय: ।
N/Aअथेदानीं प्रवक्ष्यामि धातुशोधनमारणम्‍ ।
अनुभूतं मया किंचिच्छास्त्रानुसारत: ॥१॥
सुवर्णं रजतं चेति शुद्धलोहमुदीरितम्‍ ।
ताम्रं चैवाश्मसारं च नागवड्गौ तथैव च ॥२॥
पूतिलोहं निगदितं द्वितीयं रसवेदिना ।
संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम्‍ ॥३॥
एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति च ।

सुवर्णभेदा : ।
सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम्‍ ॥४॥
अन्ये त्रय: सुवर्णस्य प्रकारा: सन्ति नोदिता: ।
रसजं रसवेधेन जायते हेम सुन्दरम्‍ ॥५॥
तश्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम्‍ ।
पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित्‍ ॥६॥
द्दश्यते खनिजं प्राज्ञैस्तश्चतुर्दशवर्णकम्‍ ।

सुवर्णशोधनम्‍ ।
रुप्यादियोगेन यद मिश्रं खर्णं हि जायते ॥७॥
हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरै: ।
हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत्‍ । ॥८॥
खटिकापटुचूर्णं च काजिकेन प्रमर्दयेत्‍ ।
पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नत: ॥९॥
आरण्योत्पलकै: कार्या कोष्ठिका नातिविस्तृता ।
मध्ये तत्संपुटं मुक्त्वा वह्यिं प्रज्वालयेत्तत: ॥१०॥
एवं पुटत्रयं दत्वा शुध्दं हेम समुध्दरेत्‍ ।
नतु शुध्दस्य हेम्नश्च शोधनं कारयेद्भिषक्‍ ॥११॥
अन्येषामेव लोहानां शोधनं कारयेद्भिषक्‍ ।
तत: स्वर्णभवं पत्रं तापितं हि विनि:क्षिपेत्‍ ॥१२॥
ज्वालामुखीरसे षष्टिपुटैर्भस्मीभवत्यलम्‍ ।
गुरुणा कथितं सम्यड्रिरुत्थं जायते ध्रुवम्‍ ॥१३॥
रोगान्‍ हिनस्ति सकलान्‍ नात्र कार्या विचारणा ।

खर्णमारणस्य द्वितीय: प्रकार: ।
हेम्न: प्रत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत्‍ ॥१४॥
पूराम्बुभस्मसूतेन लेपयित्वाऽथ शोषयेत्‍ ।
संपुटे च ततो रुन्ध्यात्पुटयेद्दशभि: पुटै: ।
म्रियते नात्र संदिहो निरुत्थं भस्म जायते ॥१५॥

सुवर्णभस्मन: तृतीय: प्रकार: ।
हेम्न: सूक्ष्मदलानि भूर्जसद्दशान्यादाय संलेप्य वै
वज्रीदुग्धहिड्गुहिड्गुलसमैरेकत्र पिष्टिकृतै: ॥
सत्यं संपुटके निधाय दशभिश्चैवं पुटै: कुक्कुटै:
पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम्‍ ॥१६॥

सुवर्णभस्मनश्चतुर्थ : प्रकार: ।
लोहपर्पटिकाबध्दं मृतं सूतं समांशकम्‍ ।
विद्रुते हेम्नि निक्षिप्तं खर्णं भूतिप्रभं भवेत्‍ ॥१७॥
तद्भस्म पूरतोयेन दरदेन समन्वितम्‍ ।
मर्दयेद्दिनमेकं तु संपुटे धारयेत्तत: ॥१८॥
पुटितं दशवारेण स्वर्णं सिन्दुरसन्निभम्‍ ।
जायते नात्र संदेहो रज्जनं कुरुते ध्रुवम्‍ ॥१९॥
देहं लोहं च मतिमान्‍ सुधनी साधयेद्भुवम्‍ ।

सुवर्णभस्मगुणा: ।
एतत्स्वर्णभवं करोति च रज: सौन्दर्यतां वै सदा
रोगान्दैवकृतान्निहन्ति सकलान्येव त्रिदोषोद्भवान्‍ ।
य: सेवेत नर: समान्‍ द्विदशकान्‍ वृध्द्श्च नो जायते
दोषा नैव गरोद्भवा विषकृता आगन्तुजा चैव हि ॥२०॥

रुप्यभेदा: ।
रुप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा ।
कृत्रिमं च त्रयो भेदा: कथिता: पूर्वसूरिभि: ॥२१॥
भूधरे कुत्रचित्प्राप्तं खन्यमाने च खानिजम्‍ ।
कैलासशिखराज्जातं सहजं तदुदीरितम ॥२२॥
रसवेधेन यज्जातं वड्गात्तत्‍ कृत्रिमं मतम्‍ ।

शुध्दरुप्यलक्षणम्‍ ।
यद्रुप्यं वह्यिना तप्तमुज्ज्वलं हि विनि:सरेत्‍ ।
तच्छुध्दं कलभूतं हि सर्वकार्यकरं परम्‍ ॥२३॥

रुप्यशोधनम्‍ ।
ताम्रादिसंसर्गभवं त्वसुद्धं रुप्यं हि मिश्रं खलु दोषलं च ।
तच्छोधयेद्वै भसितस्य मुष्यां सीसेन सार्धं रजतं तु ध्मापयेत्‍ ॥२४॥
ताम्राच्च षड्गुणं नागं ध्मापयेद्यत्नत: सुधी: ।
शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥२५॥
अनेनैव प्रकारेण शोधयेद्रजतं सदा ।
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम्‍ ॥२६॥

रजतमारणम्‍ ।
भागमेकं तु रजतं सूतभागचतुष्टयम्‍ ।
मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥२७॥
पेषणाज्जायते पिष्टिर्दिनैकेन तु निश्चितम्‍ ।
मूषामध्ये तु तां मुक्त्वा ह्यधोर्ध्वं गन्धकं न्यसेत्‍ ॥२८॥
वालुकायत्रमध्यस्थां दिनैकं तु द्दढाग्निना ।
पाचितां तु प्रयत्नेन खाड्गशीतलतांगताम्‍ ॥२९॥
तालेनाम्लेन सहितां मर्दितां हि शिलातले ।
ततो द्वादश वाराणि पुटान्यत्र प्रदापयेत्‍ ॥३०॥
अनेन विधिना सम्यग्रजतं म्रियते ध्रुवम्‍ ।

रजतमारणस्य द्वितीय: प्रकार: ।
तारमाक्षिकयोश्रूर्णमम्लेन सह मर्दयेत्‍ ॥३१॥
त्रिंशत्पुटेन तत्तारं भूतीभवति निश्चितम्‍ ।
पुटाधिक्यं हि लोहानां सम्यक्‍ स्वाद्गुणकारि च ॥३२॥
रज्जनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत्‍ ।
रजतभस्मगुणा: ।
शुद्बं भस्मीकृतं रुप्यं सारघाज्यसमान्वितम्‍ ॥३३॥
नेत्ररोगानपि सदा क्षयजान्‍ गुदजानपि ।
पित्तजान्‍ काससंभूतान्‍ पाण्डुजानुदराणि च ॥३४॥
दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ।

ताम्रभेदा: ।
ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम्‍ ॥३५॥
नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधै: ।
ताम्रशोधनम्‍
कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत्‍ ॥३७॥
कुक्कुटाख्ये पुटे सम्यग्पुटयेत्तदनन्तरम्‍ ।
सूतगन्धकयो: पिष्टि: कार्या चातिमनोरमा ॥३८॥
विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत्‍ ।
स्थालीमध्ये निरुन्ध्यात पचेद्यामचतुष्टयम्‍ ॥३९॥
पश्चदोषाविनिर्मुक्तं शुल्बं तेनैव जायते ।

ताम्रमारणस्य द्वितीय: प्रकार: ।
रवितुल्येन बलिना सूतकेन समेन च ॥४०॥
तालकेन तदर्धेन शिलया च तदर्धया ।
चूर्णं कज्जलसंकाशं कारयेन्मतिमान्‍ भिषक्‍ ॥४१॥
शरावसंपुटस्यान्त: पत्राण्याधाय यत्नत: ।
उपर्युपरि पत्राणि कज्जलीं च निधापयेत्‍ ॥४२॥
यामैकं पाचयेदग्रौ गर्भयन्नोदरान्तरे ।
स्वाड्गशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत्‍ ॥४३॥
लेहयेन्मधुसंयुक्तमनुपानैर्यथोचितै: ।
वल्लद्वितयमात्रं तु पूर्वाह्ये भिषजाज्ञया ॥४४॥
परिणाभवं शूलं तथा चाष्टविधं च रुक्‍ ।
उदरं पाण्डुशोफं च गुल्म्ल्पीहयकृत्क्षयान्‍ ।
अग्निसादक्षयकृतान्‍ मेहादीन्‍ ग्रहणीदान्‍ ।
जयेद्भहुविधान्‍ रोगाननुपानप्रयोगत: ॥४६॥

ताम्रमारणस्य तृतीय: प्रकार: ।
शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नते: ।
तत्समाशस्य गन्धस्य पारदस्य समस्य च ॥४७॥
तालकस्य तदर्धस्य शिलायाश्च तदर्धत: ।
लाड्गलीचित्रकव्योषतालमूलीकरज्जकै: । ॥४८॥
विषशम्याकातिविषासैन्धवैश्च समाशके ।
जम्बीरद्रवकेनाथ चूर्णं चातिद्रवीकृतम्‍ ॥४९॥
तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नत: ।
सूचीवेध्यानि पत्राणि रसेनालेपितानी च ॥५०॥
कल्कमध्ये विनि:क्षिप्य दिनसप्तकमेव हि ।
चूर्णीकृतं तु मध्वाज्यै: कणाद्वयसमन्वितम्‍ ॥५१॥
लेहितं वल्लमात्रं हि जरामृत्युविनाशनम्‍ ।
कथितं सोमदेवेन सरुजां सुखहेतवे ॥५२॥

ताम्रमारणस्य चतुर्थ: प्रकार: ।
शुद्धं शुल्वं गन्धकं वै समांशं पूर्वं स्थाल्यां स्थापयेग्द्न्धकार्धम्‍ ।
मध्ये शुत्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गन्धचूर्णस्य चार्धम्‍ ॥५३॥
स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्त्रयाऽपि ।
चुल्ल्यां च कुर्यादथ वह्यिमेव यामत्रणैव सुपाचितं भवेत्‍ ॥५४॥
शीतीभूतं दोषहीनं तवेव कृत्वा चूर्णं गालितं वस्त्रखण्डे ।
सेव्यं सम्यक्‍ वल्लमेकं प्रमाणं कासं श्वास हन्ति गुल्मप्रमेहान्‍ ॥५५॥
पिप्पलीमधुना सार्धं सर्वदोषहरं परम्‍ ।
दुनार्मग्रहणीअरोगान्निहन्ति च रसायनम्‍ ॥५६॥

लोहभेदा: ।
कान्तं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ।
यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक्‍ ॥५७॥

कान्तलोहभेदा: ।
कान्तं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च ।
संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञै: ॥५८॥

रोमकलक्षणम्‍ ।
खन्यां संख्यमाने हि पाषाणा नि:सरन्ति ये ।
तेभ्यो यद्रावितं लोहं रोमकं तत्‍ प्रचक्षते ॥५९॥

भ्रामकलक्षणम्‍ ।
यत्र कापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपल: ।
तस्माज्जातं तु यल्लोहं भ्रामकं तदिहोच्यते ॥६०॥

चुम्बकलक्षणम्‍ ।
विन्ध्याचतले भवेदश्मा लोहं चुम्बति चाद्बुतम्‍ ।
न मुश्चत्येव सततं विष्णुभक्तिं हि वैष्णव: ॥६१॥

द्रावकलक्षणम्‍ ।
हिमाद्रौ लभ्यते दु:खाद्य: स्पष्टो द्रावयेदय: ।
सुवर्णादींश्च तद्रूध्दि तत्कान्तं द्रावकं भवेत्‍ ॥६२॥

शुद्धकान्तलोहलक्षणम्‍ ।
शुध्दे कान्तभवे पात्रे श्रुतं दुग्धं हि नोग्दिरेत्‍ ।
पानीयं कथितं चास्मिन्‍ हिड्गुगन्धसमं भवेत्‍ ॥६३॥
तैलबिन्दुर्जले क्षिप्तो नचातिप्रसृतो भवेत्‍ ।
लेपोऽपि नैव जायेत शुध्द्कान्तस्य लक्षणम्‍ ॥६४॥

मुण्डादीनामुत्तरोत्तरश्रेष्ठत्वम्‍ ।
मुण्डाच्छतगुणं तीक्ष्णम तीक्ष्णात्कान्तं महागुणम्‍ ।
कोटिसंख्यगुणं प्रोक्तं तस्मात्सेव्यं सदा बुधै: ॥६५॥

लोहशोधनम्‍ ।
शशरक्तेन लिप्तं हि सप्तवारेण तापितम्‍ ।
कान्तादिसर्वलोहं हि शुध्यत्येव न संशय: ॥६६॥
सामुद्रलवणैस्तद्रूल्लिपितं त्रिफलाजले ।
निर्वापितं भवेच्छुद्बं सत्यं गुरुवचो यथा ॥६७॥

लोहमारणस्य प्रथम: प्रकार: ।
लोहचूर्णं घृत्ताक्तं हि क्षिप्त्वा लोहस्य खर्परे ।
अग्निवर्णप्रभं यावत्तवद्दर्व्या प्रचालयेत्‍ ॥६८॥
खल्वे पिष्ट्वा च विपचेत्पश्चवारमत: परम्‍ ।
वरोदकै: पुटेल्लोहं चतुर्वारमिदं खलु ॥६९॥
सुपेषितं वारितरं जायते नात्र संशय: ।
अनेन विधिना कार्यं सर्वलोहस्य साधनम्‍ ॥७०॥
जायते सर्वरोगघ्नं सेवितं पलितापहम्‍ ।

लोहमारणस्य द्वितीय: प्रकार: ।
लोहचूर्णं पलद्वन्द्वं गुडगन्धौ समांशकौ ॥७१॥
खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम्‍ ।
पेषणं तु प्रकर्तव्यं पुट: पश्चात्प्रदीयते ॥७२॥
अनेन विधीना सम्यग्भस्मीभवति निश्चितम्‍ ।
सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥७३॥
श्वेतापुनर्नवापत्रतोयेन दशसंख्यका: ।
पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥७४॥

लोहमारणस्य तृतीय: प्रकार: ।
अथापर: प्रकारोऽत्र कथ्यते लोहमारणे ।
लोहचूर्णसमं गन्धं मर्दयेत्कन्यकारसै: ॥७५॥
पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम्‍ ।
म्रियते नात्र सन्देहो ह्यनुभूतं मयैव हि ॥७६॥

लोहभस्मगुणा: ।
निरुत्थं लोहजं भस्म सेवेतात्र पुमान्‍ सुधी: ।
व्योषवेल्लाज्यमधुना टक्क्मानेन मिश्रीतम्‍ ॥७७॥
जरां च मरणं व्याधिं हन्यात्पुत्रप्रदं सदा ।
गरदोषकृता रोगा न भवन्ति शरीरिणामऽ ॥७८॥

वड्गभेदा: ।
वड्गं तु द्विविधं प्रोक्तं खुरं मिश्रं ततैव च ।
खुरवड्गलक्षणम्‍ ।
यच्छुध्दं सरलं शुभ्र खुरं तदभिधीयते ॥७९॥
वड्गगुणा: ।
वड्गं वातकरं रुक्षं तिक्तं मेहप्रणाशनम्‍ ।
कृमिमेदामयघ्नं हि कफदोषविषापहम्‍ ॥८०॥
वड्गशोधनम्‍ ।
भल्लातकभवे तैले खुरं शुद्यति ढालितम्‍ ।
पुनर्नासिन्धुचूर्णविषयुक्तं प्रढालितम्‍ ॥८१॥
तक्रमध्ये त्रिवारं हि मिश्रं वड्गं विशुध्यति ।
वड्गमारणस्य प्रथम: प्रकार: ।
छोणोपरि कृते गर्ते चिश्चात्वक‍चूर्णकं क्षिपेत्‍ ॥८२॥
कर्षंमानां वड्गचक्रीं तत्रोपरि निधापयेत्‍ ।
चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्तत: ॥८३॥
छगणेन विशुष्केण पुटाग्रिं दापयेत्तत: ।
स्वाड्गशीतं समुद्रुत्य सर्वकार्येषु योजयेत्‍ ॥८४॥
अनेन विधीना शेषमपक्कं मारयेद्रुवम्‍ ।

वज्रमारणस्य द्वितीय: प्रकार: ।
अथापर: प्रकारो हि वक्ष्यते चाधुना मया ॥८५॥
शुद्बवड्गस्य पत्राणि समान्येव तु कारयेत्‍ ।
अजाशकृद्वरा तुल्या चूर्णिता च निशा तथा ॥८६॥
चतुरस्त्रमथो निम्नं गर्तं हस्तप्रमाणकम्‍ ।
कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक्‍ ॥८७॥
तत: शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम्‍ ।
पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत्‍ ॥८८॥
चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत्‍ ॥८९॥
पुटयेदग्निना सम्यक्‍ स्वाड्गशीतं समुध्दरेत्‍ ।
मृतं वड्गं तत: पश्चान्मर्दयेत्पूरवारिणा ॥९०॥
समांशं रससिन्दूरमनेन सह मेलयेत्‍ ।
खल्वे द्दढतरं पिष्ट्वा काचकूप्यां निवेशयेत्‍ ॥९१॥
विपचेदग्नियोगेन यामषोडशमात्रया ।
हेमप्रभं मृतं वड्गं जायते रसवड्गकम्‍ ॥९२॥
सर्वरोगान्‍ हरत्याशु शक्तियुक्तं गुणाधिकम्‍ ।
यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम्‍ ॥९३॥
अशीतिर्वातजान्‍ रोगान्‍ तथा मेहांश्च विंशति : ।
हन्ति भक्षकमात्रेण सप्तकैकेन नान्यथा ॥९४॥
छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावमथोज्ज्वलम्‍ ।
कृष्णवर्णं बहि: शुध्दं नागं हितमतोऽन्यथा ॥९५॥

नागशोधनम्‍ ।
निर्गुण्डिकाहरिद्रयो रसे नागं प्रढालयेत्‍ ।
एवं नागो विशुध्द: स्यान्मूर्छास्फोटादि नाचरेत्‍ ॥९६॥
नागमारणस्य प्रथम: प्रकार: ।
शुध्दनागस्य पत्राणि सदलान्येव कारयेत्‍ ।
शिलां वासारसेनापि मर्दयेद्याममात्रकम्‍ ॥९७॥
पत्राण्यालेपयेत्तेन तत: संपुटके न्यसेत्‍ ।
पुटेन विपचेध्दीमान्‍ वराहेण खराग्रिना ॥९८॥
एवंकृते त्रिरात्रेण नागभस्म प्रजायते ।
जायते सर्वकार्येषु रोगोच्छेदकरं सदा ॥९९॥
नागस्य मारणं प्रोक्तं बहुधा बहुभिर्वुधै: ।
सर्वथा सूतनागस्य शम्भोश्च मरणं नहि ॥१००॥
प्रमेहान्‍ वातजान्‍ रोगान्‍ धनुर्वातादिकान्‍ गदान्‍ ।
विंशति: श्लेष्मजांश्वैव निहन्ति च न संशय: ॥१०१॥

नागमारणस्य द्वितीय: प्रकार: ।
अथापरप्रकारेण नागमारणकं भवेत्‍ ।
लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत्‍ ॥१०२॥
चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजै: ।
अधस्ताज्जवालयेत्स्म्यग्घठाग्रिं म्रियतेध्रुवम्‍ ॥१०३॥
रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत्‍ ।

पित्तलभेदास्तल्लक्षणं च ।
पित्तलं द्विविधं प्रोक्तं रीतिका काकतुण्डिका ॥१०४॥
तप्ता तुषजले क्षिप्त्वा शुल्बवर्णा तु रीतिका ।
निक्षिप्ता काज्जिके कृष्णा काकतुण्डी प्रजायते ॥१०५॥

द्विविधपित्तलगुणा : ।
रक्तपित्तहरा रुक्षा कृमिघ्री रीतिका मता ।
काकतुण्डी कुष्ठहरा सोष्णवीर्या सरा मता ॥१०६॥
श्रेष्ठरीतिकालक्षणम्‍ ।
पीताभा मृदु चेद्गुर्वी साराड्गी हेमवर्णिका ।
मसृणाड्गी च सुस्निग्धा शुभा रीतीति कथ्यते ॥१०७॥

हीनरीतिकालक्षणम्‍ ।
दुर्गन्धा पूतिगन्धा च खरस्पर्शा च पाण्डुरा ।
घनघाताक्षमा रुक्षा रीतिर्नेष्टा रसायने ॥१०८॥
रीतिकाशोधनम्‍ ।
तापिता चैव निर्गुण्डीरसे क्षिप्त्वा प्रयत्नत: ।
पश्चवाराणि चायाति शुद्बिं रीतिस्तु तत्क्षणात्‍ ॥१०९॥
रीतिकामारणम्‍ |
शिलागन्धकसिन्धूत्थरसैश्चतिप्रमर्दितै: ।
रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुन: ॥११०॥
सद्यो भस्मत्वमायाति ततो योज्या रसायने ।
कांस्यम्‍ ।
चतुर्भागेन रविणा भागैकं त्रपुरुत्तमम्‍ ॥१११॥
जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम्‍ ।
शुद्बे कांस्यमये पात्रे सर्वमेव हि भोजनम्‍ ॥११२॥
पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम्‍ ।
कास्यशोधनम्‍ ।
तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुद्बयति ॥११३॥
कांस्यभस्मगुणा: ।
मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम्‍ ॥११४॥

वर्तलोहलक्षणमं ।
लोहकास्यार्करीतिभ्यो जातं तद्वर्तलोहकम्‍ ।
तदेव विडलोहाख्यं विद्वद्भि: समुदाह्यतम्‍ ॥११५॥
वर्तलोहगुणा: ।
श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा ।
नेत्ररोगप्रशमनं गलरोगनिबर्हणम्‍ ॥११६॥
पाच्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम्‍ ।
क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम्‍ ॥११७॥
वर्तलोहशोधनम्‍ ।
हयमूत्रे द्रुतं सम्यड्रिक्षिप्तं शुध्दिमृच्छति ।
वर्तलोहमारणम्‍ ।
गन्धतालेन पुटितं म्रियते वर्तलोहकम्‍ ॥११८॥
चतुर्थाध्यायोपसंहार: ।
संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि ।
अन्यानि शास्त्राणि सुविस्तराणि निरेक्ष्य यत्नात्कृतमेव सम्यक्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T19:59:29.7770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pedalfer

  • स्त्री. अल्युलोह मृदा 
  • स्त्री. पेडलफर 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.