TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - तृतीयोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


तृतीयोऽध्याय: ।
रसभस्मभेदा: ।
अथ मया रसभस्म निगद्यते सकलसूतसुशास्त्रनियोगत: ।
ससितकृष्णसुपीतसुलोहितं भवति वर्णचतुष्टयभूषितम्‍ ॥१॥
दरदात्पारदाकर्षणविधि: ।
दरद अत्र सुरक्तसुशोभितो निखिलनिम्बरसेन विमर्दित: ।
नियतयामचतुष्टयमम्लके घनरसे समभागविलोडित: ॥२॥
डमरुकाभिधयत्रनिवेशितस्तदनु लोहराज: खटिकासमम्‍ ।
सुपयसा तवणेन विमर्दितं कुरु भिषग्वर यत्रसुरोधनम्‍ ॥३॥
नियतयामचतुष्टयमग्निना मृदु समं रसमत्र विपाचयेत्‍ ।
उपरि तत्र जलेन निषिश्चयेदिती भवेद्दरदाद्वरसूतक: ॥४॥
अखिलशोधवरेण च वै यथा सकलकश्चुकदोषविवर्जित: ।
बहुलदोषहरोऽपि भवेत्तथा भवति शुध्दतमो दरदोद्बव: ॥५॥

रसकर्पूरविधि: ।
विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकाड्क्षिका: ।
पृथगिमाश्च चतुष्पलभागिका: स्फटिकशुध्दपलाष्टसमन्विता : ॥६॥
सह जलेन विमर्द्य च यामकं लवणकाम्लजलेन विमिश्रिताम्‍ ।
उदितधातुगणस्य च मूषिकं सुरु विषं विनिवेशय तत्र वै ॥७॥
डमरुकाभिधयन्त्रवरेण तं द्विदश्याममु पाचय वह्यिना ।
पवनपित्तकफक्षयकारक: सकलरोगहर: परम: सदा ॥८॥
गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रद: ।
युवतिकामविलासविधायको भव्ति सूतवर: सुखद: सदा ॥९॥
स घनसाररस: किल कान्तिदस्त्वखिलसुष्ठहर: कथितो मया ।

उदयभास्कररस: ।
विगतदोषकृतौ रसगन्धकौ तदनु तुड्गरसेन परिल्पुतौ ॥१०॥
प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ।
रुचिरकाचघटीविनिवेशितौ सिकतयत्रवरेण दिनत्रयम्‍ ॥११॥
कुरु भिषग्वर वह्यिमधस्तत: स च भवेदरुण: कमलच्छवि: ।
उदयभास्करनाम सह रसो ह्ययं भवति रोगविघातकर: स्वयम्‍ ॥१२॥
मगधजामधुना सह गुज्जिकात्रयमितश्च सदा परिसेवित: ।
ललितकामविधावभिलाषुक: स्थविरकोऽपि रतौ तरुणायते ॥१३॥
गहदरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा ।
सकलसूतकशास्त्रविमर्शनाद्दिजवरेण मया प्रकटीकृत: ॥१४॥

रक्तरस: ।
रसविदाऽपि रस: परिशोधितो विगतदोषकृतोऽपि हि गन्धक: ।
विमललोहमये कृतखर्परे ह्यमलसाररज: परिमुच्यताम्‍ ॥१५॥
अतिकृशाग्नियुते द्रवति स्वयं तदनु तत्र रस: परिमुच्यताम्‍ ।
विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम ॥१६॥
तदनु काचघटीं विनिवेश्य वै सिकतयत्रवरेण हि पाचित: ।
द्विदशयाममध:कृतवह्यिना भवति रक्तरसस्तलभस्मसात्‍ ॥१७॥
गतबलेन नरेण हि सेवितो भवति वाजिकर: सुखद: सदा ।
स च वलीपलितानि च नाशयेच्छतशरत्सु निरायमयकृत्परम्‍ ॥१८॥

रसमाणिक्यम्‍ ।
विमलनागवरैकविभागिकं हरभागचतुष्टयमिश्रितम्‍ ।
सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक्‍ ॥१९॥
दिनमितं सुविमर्द्य च कन्यकास्वरस ऐनकरेऽतिविशोषयत्‍ ।
तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥२०॥
दिवसयुग्मध:कृतवह्यिना स च भवेदरुग्ण: कमलच्छवि: ।
सकलरोगविनाशनवह्यिकृब्दलकर: प्ररमोऽपि हि कान्तिकृत्‍ ॥२१॥
नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारक ।
स खलु कर्मविपाकजरोगहा विशदनागयतु: खलु पारद: ॥ २२॥

गन्धकजारणम्‍ ।
मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुक्ता ।
रसवरं दशशाणमितं हि तत्सशुकपिच्छावरेण निधापयेत्‍ ॥ २३॥
सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवेन वै ।
स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम्‍ ॥२४॥
तदनु कुक्कुटनामपुटे शृतो ह्युपलकेन वनोद्भवलकेन वै ।
विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकमश्रुते ॥ २५॥
स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्दिकर: परमो भवेत ।
शतगुणं हि यदा परिजीर्यते रसवर: खलु हेमकरो भवेत्‍ ॥ २६॥

रसपोटली ।
स शुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टित: ।
द्दढतरामुपल्पय पर्पटी वसनबध्दकृतामपि पोटलीम ॥२७॥
उपरि नागर्सेन विलेपितां रविकरेण सदा परिशोषिताम्‍ ।
कनकपत्रसेन च सप्तधाऽप्य्वनिगर्ततले विनिवेशय ॥२८॥
अवनिगर्तमरत्निकमायतं द्विदशमड्गुलमेव सुनिभ्रकम्‍ ।
सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशाय पोटलीम्‍ ॥२९॥
उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम्‍ ।
द्विदशयामथाग्निमहो कुरु भवति तेन महारसपोटली ॥३०॥
इति मया कथिता रसपोटली वलकरा सुकरा सुखसिद्बिदा ।

कृष्णभस्म्‍ ।
विशदसूतसमोऽपि हि गन्धकस्तदनु खल्वतले सुविमर्दित: ॥३१॥
त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषित: ।
विमललोहमये द्दढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै ॥३२॥
करमिता सुकृताऽपि हि चुह्यिका ह्युपरि तत्र निवेश्य च भाजनम्‍ ।
अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत ॥३३॥
तदनु वह्यिमध: कुरु वै द्दढं सततमेव हि यामचतुष्टयम्‍ ।
सुपच एव रसो जलदोपमो भवति वल्लमितो मधुनायुत: ॥३४॥
कवलित: क्षयरोगगणापहो मदनवृध्दिकर: परमो नृणाम्‍ ।
स च वलीपलितानी विनाशयेत्सकलकुष्ठविनाशकर: परम्‍ ॥३५॥

शुध्दरसभस्म।
मृदुमृदा परिकल्पितमुषिकां रसमिताड्गुलिकां भुवि संन्यसेत्‍ ।
रसवरं विमलं हि शोभितं सशुकपिच्छसमं परिमर्दितम्‍ ॥३६॥
रससमानमितधृतमुषया द्वितययुग्मकृतं परिमुद्रितम्‍ ।
कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्यिना ॥३७॥
रसवरस्य हि विपाचनं यवमितं रसराजमयं तदा ।
दिनमुखं प्रतिहन्ति सुभक्षितं सकलदोषकृतां विकृतिं जयेत ॥३८॥

रसपर्पटी ।
रसवरं पलयुग्ममितं शुभं रुचिरताम्रमय: समभागिकम्‍ ।
बलिवस्सं च घृतेन वेमर्दयेदतिकृशाग्निकृते द्रवति स्वयम्‍ ॥३९॥
तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम्‍ ।
द्रुतमय़ं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम्‍ ॥४०॥
विघटयेदथ तोहसुदर्विणा तनुमोचदलोपरिं ढाल्यते ॥४१॥
भवति सारतमा रसपोटली सकलरोगविघातकरी हि सा ।
कुरु समानकटुत्रयसंयुक्तां मरिचयुग्ममितां सुखदां सदा ॥४२॥
अनुपाने प्रयोक्तव्या त्रिफला क्षौद्रसंयुता ।
पर्पटीं भक्षयेत्प्रातस्तथा त्र्य़ूषणसंयुताम्‍ ॥४३॥
सन्निपातहरा सा तु पश्चकोलेन संयुता ।
भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥४४॥
कणाक्षौद्रेण सहिता सर्वशोफान्निकृतन्ति ।
श्यामात्रिकटुकेनाऽपि वातजां ग्रहणीं जयेत्‍ ॥४५॥
गुग्गुलत्रिफलासार्धं वातरक्तं विनाशयेत्‍ ।
वातशूलहरा सम्यग्हिड्गुपुष्करसंयुक्ता ॥४६॥
व्योषैर्कन्यारसैर्वाऽपि कफामयविनाशिनी ।
दशमूलशृतेनापि वतज्वर्निबर्हणी ॥४७॥
बाकुतीबीजकल्केन कण्डुपामे विनाशयेत्‍ ।
आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥४८॥
गोमूत्रेणानुपानेन चार्शसां हि विनाशिनी ।
नवमाल्यर्जुनश्चैव चित्रको भृड्गराजक: ॥४९॥
शाल्मलीनिम्बपश्चाड्गं कल्हारश्च गुडूचिका ।
निर्गुण्डी च समांशानि कारयेद्भिषगुत्तम: ॥५०॥
चूर्णीकृत्य च तत्सर्वं पर्पटयाश्चनुपानकम्‍ ।
अष्टादश च कुष्ठानि निहन्त्येव न संशय: ॥५१॥
पर्पटीरसराजस्य रोगान्‍ हन्त्यनुपानत: ।
अपथ्यं नैव चाश्रीयाद्दोषदूष्यव्यपेक्षया ॥५२॥

द्वितीया रसपर्पटी ।
शुद्धं रसं गन्धकमेव शुद्धं पृथक्‍ समांशं कुरु यत्नतस्तत: ।
एरण्डमूलस्य रसेन सूतं तथाऽद्रिकर्ण्या स्वरसेन मर्दयेत्‍ ॥५३॥
तं काकमाच्या: स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयै: ।
क्रमेण सूतं हि दिनैश्चतुर्भि: शुद्धत्वमायाति हि निश्चयेन ॥५४॥
ततस्तु गन्धं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे ।
प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भुड्गरसे त्रिवारम्‍ ॥५५॥
कार्या तत: कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे ।
प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात्‍ ॥५६॥
तस्यास्त्वधोर्ध्व प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।
रोगानशेषान्मलदोषजातान्‍ हिनस्ति चैषा रसपर्पटी हि ॥५७॥
सा जीरकेणैव तु रामठेन वातामशूलं ग्रहणीं सकामलाम्‍ ।
गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुध्दरसस्य पर्पटी ॥५८॥
मयाऽपि सद्वैद्यहिताय नूनं प्रदर्शिता‍ऽयं खलु रोगनाशिनी ।

अन्यश्च सूतभस्म ।
सूतं सुशुद्धं तवणैश्चतुर्भि: क्षारैस्त्रिभिश्चापि विमर्दयेश्च ॥५९॥
संशोष्यं पश्चादपि हिड्गुराजिकाशुण्ठीभिरेभिश्च समं विमर्द्य वै ।
रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम्‍ ॥६०॥
तस्यां निधायाथ रसस्य गोलकं तं खेदितं चाम्लरसेन सम्यक्‍ ।
यामाष्टकेनाग्रिकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ  ॥६१॥
भेकपर्ण्युरुबुभृड्गराजकै: शृड्गवेरगिरिकर्णिकारसै:
काकमाचीरसविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवै: ॥६२॥
सिन्धुवारकरसेन विमर्दितं मसृणखत्वतले त्रिवासरम्‍ ।
प्रतिरसं च विशोष्य हि भक्षयेद्गुज्जिकाध्दयमितं रुजापहम्‍ ॥६३॥
केकिमाहिषवरापराहपित्तकै: कच्छपस्य च रसेन मर्दितम्‍ ।
जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत्‍ ॥६४॥
य: श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै
दीर्घायुर्धनधान्यधर्मसहित: प्राप्नोति सौख्यं सदा ।
लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते
प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम्‍ ॥६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T19:58:34.3230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

aneurism

  • रोहिणी विस्फार 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.