TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - द्वितीयोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


द्वितीयोऽध्याय:
अथेदानीं प्रवक्ष्यामि रसराजस्य बन्धनम्‍ ।
अनुभूतं मया किश्चिद्गुरुणां हि प्रसादत: ॥१॥

रसबन्धभेदा: ।
बन्धश्चतुर्विध: प्रोक्तो जलौका खोटपाटकौ ।
तथा भस्मामिध: साक्षात्कथितोऽपि रसागमे ॥२॥

तेषां सामान्यलक्षणम्‍ ।
पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटक: ।
पाट: पर्पटिकाबन्धो भस्म भूतिसमो भवेत्‍ ॥३॥

रसबन्धनसाधनानि ।
मूलिका च मणिश्चैव स्वर्णकं नागवड्गके ।
चत्वार एते सूतस्य बन्धनस्याथ कारणम्‍ ॥४॥

रसबन्धभेदानामुत्तमादिकत्वम्‍ ।
उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यम: ।
अधमो तातुबन्धस्तु पूतिबन्धोऽधमाधम: ॥५॥
द्रुतिबन्ध: पश्चमोऽसौ देहलोहकर: सदा ।
अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरै: ॥६॥

मूलिकाबन्धस्य प्रथम: प्रकार: ।
क्रमप्राप्तमिदं वक्ष्ये मूलिसाबन्धनं रसे ।
शुध्दो राक्षसवक्रश्च रसश्चाभ्रकजारित: ॥७॥
इड्गुदीमूलनिरर्यासे मर्दित: पारदरुह्यम्‍ ।
तत उद्रुत्य वस्त्रेण बन्धनं कारयेद्बुध: ॥८॥
काज्जिके खेदनं कुर्यान्नियतं सप्तवासरम्‍ ।
पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥९॥
ततो धूर्तफले न्यस्तं खेदयेच्छतसंख्यया ।
पाचितोऽसौ ततस्तैले धूर्ततैलसमायुते ॥१०॥
बध्दस्तु तेन विधिना कठिनत्वं प्रजायते ।
वड्गस्य स्तम्भनं सम्यक्करोत्येव न संशय: ॥११॥
धारितो ऽसौ मुखे साक्षाद्वीर्यस्त्म्भकर: सदा ।
मूलिकाबन्धनं ह्येकं कथितं पारदस्य वै ॥१२॥

मूलिकाबन्धस्य द्वितीय: प्रकार: ।
अथापर: प्रकारो हि बन्धनस्यापि पारदे ।
नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम्‍ ॥१३॥
मुखचर्णसंभूतैर्निम्बकाष्ठेन पेषित: ।
नवनीतसमस्तेन जायते पारदस्तत: ॥१४॥
वस्त्रेण बन्धनं कृत्वा निवेश्य फलधूर्तके ।
गोमयैर्वेष्टितं तच्च करीषाग्रौ विपाचयेत्‍ ॥१५॥
लावकाख्ये पुटे सम्यक्‍ क्रमवृध्या शतं पुटेत्‍ ।
मासत्रयप्रमाणेन पाचयेदन्नमध्यत: ॥१६॥
पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत्‍ ।
अनेनैव प्रकारेण बध्यते सूतक: सदा ॥१७॥
द्दष्टप्रत्यययोगोऽयं कथित: साधकाय वै ।
धारितोऽसौ मुखे सम्यग्वीर्यस्त्म्भकर: परम्‍ ॥१८॥
वन्गस्तम्भकरोऽप्येवं बध्द: सूतवरोऽप्यलम्‍ ।

मूलिकाबन्धस्य तृतीय: प्रकार: ।
शुद्धं सुजारितभ्रं वै सूतकं ओ विमर्दयेत्‍ ॥१९॥
अर्कमूलरसेनैव वासरैकं प्रयत्नात: ।
वज्रमूषा तत: कार्या सुद्दढा मसृणीकृता ॥२०॥
अर्कमूलभवेनैव कल्केन परिलेपिता
मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया ॥२१॥
यामार्धं ध्मापित: सम्यग्रसखोट: प्रजायते
स्वाड्गशीतं परिज्ञाय रसखोटं समुध्दरेत ॥२२॥
वर्षमात्रं धृतो वक्रे वलीपलितनाशन: ॥
सर्वसिध्दिकरोऽप्येष मूलिकाध्द्पारद: ॥२३॥
मूलिकानन्धनं सत्यं कृतं नागार्जुनादिभि:
सर्वसिध्दिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥२४॥

मूलिकाबन्धस्य चतुर्थ प्रकार :
शुध्दं रसवरं सम्यक्‍ तथैवाम्बरभक्षितम्‍ ।
जलकुम्भीरसै: पश्चान्मर्दयेद्दिनसप्तकम्‍ ॥२५॥
तस्या: प्रकल्पयेन्मूषां सूतकं तत्र नि:क्षिपेत्‍
अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत‍ ॥२६॥
पुटं तत्र प्रदातव्यमेकेनारण्यकेन च ।
पुटान्येवं प्रदेयानि चोत्पलैकप्रवर्धीनि ॥२७॥
अनेनैव प्रकारेण पुटानि त्रिणि दापयेत्‍ ।
बन्धमाप्तोति सूतेन्द्र: सत्यं गुरुवचो यथा ॥२८॥

मूलिकाबन्धस्य पश्चम्‍ प्रकार: ।
चूर्णीकृतानि सततं धूर्तबीजानि यत्नत: ।
सूतराजसमान्येवमूर्ध्वयत्रेण पातयेत्‍ ॥२९॥
एकविंशतिवाराणि तत: खल्वे निधापयेत ।
इड्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम्‍ ॥३०॥
भृड्गुराजर्सेनैव विषखर्परकेन च ।
पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥३१॥
त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम्‍ ।
दोलायत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥३२॥
विषमूषोदरे धृत्वा मांसे सूकरसंभवे ।
भर्जयेद्भुर्ततैलेन सप्ताहाज्जय्ते मुखम्‍ ॥३३॥
कठिनो वज्रसद्दशो जायते नात्र संशय: ।
क्षीरं शोषयते नित्यं कौतुकार्थे न संशय: ॥३४॥
वीर्यं बड्गं स्तम्भयति सत्यं सत्यं न संशय: ।
प्रकारा: कथिता: पश्च सूतराजस्य बन्धने ॥३५॥

मणिबन्धस्य (वज्रबन्धस्य) प्रथम प्रकार: ।
वज्रबंन्धं द्वितीयं तु क्रमेणैव यथातथम्‍ ।
रसशस्त्राणि बहुधा नीरीक्ष्य प्रवदाम्यहम्‍ ॥३६॥
वज्रसत्वं तथा सूतं समांशं कारयेद्भुध: ।
रसपादसमं हेम त्रयमेकत्र मर्दयेत्‍ ॥३७॥
बन्ध्याकर्कोटिकामूलरसेनैवाऽथ भावयेत्‍
तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥३८॥
कांबोजीरसकेनैव तथा नाडिरसेन वै ।
आसां नियामिकानां च रसं वस्त्रेण गालयेत्‍ ॥३९॥
सूर्यतपे दिनैकैकं क्रमेणानेन मर्दयेत्‍ ।
अन्धमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥४०॥
लोहसंपुटके पश्चान्निक्षिप्तं मुद्रेतं द्दढम्‍ ।
घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥४१॥
स्वाड्गशीतलकं ज्ञात्वा गृह्यीयात्तां च मूषिकाम्‍ ।
उट्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत ॥४२॥
काचटड्कण्योगेन ध्मापितं तं च गोलकम्‍ ।
वेधते शतवेधेन सूतको नात्र संशय: ॥४३॥
वक्रस्थो निधनं हन्याद्देहलोहकरो भवेत्‍ ।

वज्रबन्धस्य द्वितीय: प्रकार: ।
वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत ॥४४॥
त्रिनेमिकावज्रवल्लीसहदेव्यो रसेन च ।
स्त्रुहीक्षीरेण सप्ताहं  सूर्यधर्मे सुतीत्रके ॥४५॥
रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत्‍ ।
काकमाचीरसेनैव लाड्ग्लीस्वरसेन हि ॥४६॥
गोअजिह्यिकारसेनैव सप्तवारं प्रलेपयेत्‍
वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥४७॥
लोहसंपुटमूषायामन्धितं मध्यसंस्थितम्‍ ।
सप्तमृत्कर्पटै: सम्यग्लेपितं सुद्दृढं कुरु ॥४८॥
ध्मापितं द्दढमड्गारैस्तत्रस्थं शीतलीकृतम्‍ ।
भित्वा मूषागतं सूतखोटं नक्षत्रसन्निभम्‍ ॥४९॥
सर्वकार्यकरं शुभ्रं रज्जितं वेधकृद्भवेत्‍ ।

अभ्रकद्रुतिबन्ध: ।
अभ्रकद्रुतिभि: सार्धं सूतकं च विमर्दयेत् ॥५०॥
समांशेन शिलापृष्ठे यामत्रयमनारतम्‍ ।
कस्तुरीघनसाराभ्यां कृष्णागरुसमन्वितम्‍ ॥५१॥
शर्करालशूनाभ्यां च रामठेन च संयुक्तम्‍ ।
पलाशबीजस्य तथा तत्प्रसूनस्य रसेन हि ॥५२॥
तीक्ष्णांशुनापि मृदितं द्रुदिभि: सह सूतकम्‍ ।
मिलत्येव न संदेह: किमन्यैर्बहुभाषितै: ॥५३॥
ततो गुजासेनैव श्चेतवृश्चीवकस्य च ।
लाड्ग्ल्याश्च रसैस्तावद्यावद्भवति बन्धनम्‍ ॥५४॥
तत: प्रकाशमूषायां पश्चाड्गारैर्धमेत्क्षणम्‍ ॥
बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम्‍  ॥५५॥
अभ्रद्रुतिसमायोगे रसेन्द्रो बध्यते खलु ।
शिवभक्तो बभेत्साक्षात्सत्यवाक्‍ संजितेन्द्रिय: ॥५६॥
शिवयोर्मेलनं सम्यक्‍ तस्य हस्ते भविष्यति ।
रसागमेषु यत्प्रोक्तं बन्धनं पारदस्य च ॥५७॥
कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम्‍

हेमद्रुतिबन्ध: ।
अथेदानीं प्रवक्ष्यामी सूतराजस्य बन्धनम्‍ ॥५८॥
हेमदुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान्‍ ।
ज्वालामुखीरसेनैव धौत: पश्चाच काज्जिकै: ॥५९॥
प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ।
अन्धमूषागतं पश्चानमृदा कर्पटयोगत: ॥६०॥
लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत्‍ ।
द्वादशाड्गुलविस्तीर्णं द्वादशाड्गुलनिम्नकम्‍ ॥६१॥
खातप्रमाणं कथितं गुरुमर्गेण च स्फुटम्‍ ।
तत्रोपरि पुटं देयं गजाह्यं छगणेन च ॥६२॥
यामद्वादशकेनैव बध्यते पारद: स्वयम्‍
हेमद्रुतौ बध्दरसो देहलोहप्रसाधक: ॥६३॥
सर्वसिध्दिकर: श्रीमान्‍ जरादारिद्यनाशन:

वज्रध्रुतिबन्ध: ।
वज्राणां ब्रम्हजातीनां द्रुतिर्वल्लप्रमाणिका ॥६४॥
तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ।
तावत्तं मर्दयेत्सम्यग्यावत्‍ पिष्टी प्रजायते ॥६५॥
कृत्वा मूषां समां शुध्दां दहनोपलनिर्मिताम्‍ ।
तन्मध्ये पिष्टिकां मूक्त्वा पिष्टीमानं विषं त्वहे: ॥६६॥
पिधानं ताद्दशं कुर्यान्मुखं तेनाथ रुन्धयेत्‍ ।
कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम्‍ ॥६७॥
भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ।
चित्रं घर्मप्रसंगेन बन्धमायाति पारद: ॥६८॥
यामात्‍ खरातपे नित्यं शिवेनोक्तमतिस्फुटम्‍ ।
वज्रद्रुतिसमायओगात्सूतं बन्धनकं ब्रजेत‍ ॥६९॥
सर्वेषां सूतबन्धानां श्रेष्ठं सत्यं सदैव हि ।

धातुबन्धस्य प्रथम प्रकार: ।
धातेबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया ॥७०॥
तदहं कथयिष्यामि साधकार्थे यथातथम्‍ ।
भूर्जवत्सूक्ष्मत्राणि कारयेत्‍ कनकस्य हि ॥७१॥
तान्येव कोलमात्राणि पतमात्रं तु सूतकम्‍ ।
मर्दयेन्निम्बूकद्रावैर्दिनमेकमनारतम्‍ ॥७२॥
ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत्‍ ।
चुल्ल्यामारोपणं कार्यं धान्यम्लेन निषिश्चयेत्‍ ॥७३॥
पिष्टिस्तम्भस्तु कर्तव्यो नियतं त्रिदिनावधि ।
ततो धूर्तरसेनैव खेदयेत्सप्तवासरान्‍ ॥७४॥
श्वेता पुनर्नवा चिश्चा सहदेवी च नीलिका ।
तथा धूर्तवधू चैव लाड्गली सुरदालिका ॥७५॥
सूतबन्धकरा: श्रेष्ठा: प्रोक्ता नागार्जुनादिभि: ।
एतेषां स्वरसै: पड्कैर्लेपयेत्सूतगोलकम्‍ ॥७६॥
त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनन्तरम्‍ ।
वस्त्रेण पोटलीं बध्वा खेदयेन्निम्बुकद्रवै: ॥७७॥
यामत्रयं प्रयत्नेन धौत: पश्चाद्गवां जलै: ।
ततो धूर्तफलान्त:स्थं पाचयेद्बुहुभि: पुटै: ॥७८॥
लावकाख्यै: सुमतिमान्‍ शोभन: सूर्यकान्तवत्‍ ।
जायते नात्र सन्देहो बध्द: शिवसमो भवेत्‍ ॥७९॥

धातुबन्धस्य द्वितीय प्रकार: ।
अष्टमांशेन रुप्येन सूतकं हि प्रमर्दयेत्‍ ।
चाड्गेरीस्वर्सेनैव पिष्टिकां कार्येध्दुध: ॥८०॥
खोटं बध्वा तु विपचेद्धुर्ततैले त्रिवासरान्‍ ।
तथा च कड्न्गुणीतैले करवीरजटोद्भवे ॥८१॥
जातीफलोद्भवेनापि वत्सनागोद्भवेन च ।
भृड्ग्युद्भेन च तथा समुद्रशोषकस्य वै ॥८२॥
देवदारुभवेनापि पाचयेन्मतिमान्‍ भिषक्‍ ।
पश्चात्सुतीक्ष्णमदिरा दातव्या च तुषाग्निना ॥८३॥
दिनानि सप्त संख्यानि मुखमुत्पद्यते ध्रुवम्‍ ।
शुक्रस्तम्भकर: साक्षात्क्षीरं पिबति नान्यथा ॥८४॥

धातुबन्धस्य तृतीय प्रकार: ।
लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम्‍ ।
कृत्वा सुशोधितं सूतं तस्मिन्नि:क्षिप्य मात्रया ॥८५॥
तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवै: ।
पिधानेन मुखं रुद्वा लोहपात्रस्य यत्नत: ॥८६॥
निवाते निर्जने देशे त्रिदिनं स्थापयेत्तत: ।
उष्णकाज्जिकयोगेन क्षालयेद्बुहुशो भिषक्‍ ॥८७॥
नवनीतसमो वर्ण: सूतकस्यापि द्दश्यते ।
रसखोटं ततो बद्वा खेदयेत्काज्जिकैस्त्र्यहम्‍ ॥८८॥
अश्मचूर्णस्य कणिकामध्ये खोटं निधाय च ।
जलसेक: प्रकर्तव्य: शीतीभूतं समुध्दरेत्‍ ॥८९॥
अनेनैव प्रकारेण त्रिवारं पाचयेद्भुतम्‍ ।
कठिनत्व प्रयात्येव सत्यं गुरुवचो यथा ॥९०॥
ततो धूर्तफलानां हि सहस्त्रेणापि पाचयेत्‍ ।
मुखमुत्पद्यते सम्यग्वीर्यस्तम्भकरोऽप्यलम्‍ ॥९१॥

धातुबन्धस्य चतुर्थ प्रकार: (पूतिबन्ध: ।)
वड्नतीक्ष्णे समे कृत्वा ध्मापयेद्धज्रमूषया ।
बड्गमुत्तारयेत्सम्यक्‍ तीव्राड्गारै: प्रयत्नत: ॥९२॥
अनेनैव प्रकारेण त्रिगुणं वाहयेत्रपु ।
वीजं शाणप्रमाणं हि सूतं पलवितं भवेत्‍  ॥९३॥
मर्दयेत्कनकद्रावैर्दिनमेकं विशोषयेत्‍ ।
गोलस्य स्वेदणं कार्यमहोभि: सप्तभिस्तथा ॥९४॥
त्रिफलाक्काथमध्ये तु त्रियामं खेदयेत्सुधी: ।
कुमार्या: स्वरसेनैव भृड्गराजरसेन हि ॥९५॥
भृड्गीरसेन च तथा त्रिदिनं स्वेद्यमेव हि ।
एकैकेनौषधेनैवं काचकूप्यां निवेशयेत्‍ ॥९६॥
खटीपटुशिवाभक्टं पिष्टा वक्रं निरुन्धयेत्‍ ।
खातं त्रिहस्तमात्रं स्याल्लद्दिपूर्णं तु कारयेत्‍ ॥९७॥
मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत्‍ ।
भूमिस्थां मासयुग्मेन पश्चादेनां समुध्दरेत्‍ ॥९८॥
बध्दं सूतवरं ग्राह्यं शुभ्रचन्द्रप्रभानिभम्‍ ।
मुखस्थं कुरुते सम्यकद्दढवज्रसमं वपु : ॥९९॥
कामिनीनां शतं गच्छेदूलीपलितवर्जित: ।
देवीशास्त्रानुसारेण धातुबध्दरसोऽप्ययम्‍ ॥१००॥
प्रकाशितो मया सम्यडात्र कार्या विचारणा ।

धातुबन्धस्य पश्चम: प्रकार: ।
रसेन्द्रं कान्तलोअहं च तीक्ष्ण्लोहं तथैव च ॥१०१॥
अभ्रसत्वं तथा पायसत्वं हेमसमन्वितम्‍ ।
समांशानि च स्र्वाणि मर्दयेन्निम्बूकद्रवै: ॥१०२॥
निशीश्च्येद्दिनैकं तु पश्चाद्रोलं तु कारयेत्‍ ।
पक्वमूषा प्रकर्तंव्या गोलं गर्भे निवेशयेत ॥१०३॥
गोजिह्या काकमाची च निर्गुण्डी दुग्धिका तथा ।
कुमारी मेघनादा च मधुसैन्धवसंयुता ॥१०४॥
एतासां स्वर्सेनैव स्वेदयेब्दुहुशो भिषक्‍ ।
यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम्‍ ॥१०५॥
वक्रे धृतं जरामृत्युं निहन्ति च न संशय: ।
सर्वरोगान्निहन्त्याशू वय: स्तम्भयते ध्रुवम्‍ ॥१०६॥
कर्णे कण्ठे तथ हस्ते धारिते मस्तकेऽपि वा ।
अभिचारादिदोषाश्च न भवन्ते कदाचन ॥१०७॥

अध्यायोपसंहार: ।
चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि ।
कुर्वन्ति ये तत्वविदो भिषग्वरा राज्ञां गृहेतेऽपि भवन्ति पूज्या: ॥१०८॥
इति परमरहस्यं सूतराजस्य चोक्तं
रसनिगममहाब्धेर्लब्धमेतत्सुरत्नम्‍ ।
सकलगुणवरिष्ठा वादिन: कौतुकज्ञा
निजह्युदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञा:  ॥१०९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T19:57:28.8700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

interlacement

  • न. अंतर्वयन 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site