TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकरः - प्रथमोध्याय:।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


रसोत्पत्तिवर्णनम्।
हिमालयात्पश्चिमदिग्विभागे
गिरिन्द्रनामा रुचिरोऽपि भूधर:।
तस्मिन्‍ समीपेऽतिसुवृत्तकूपे
साक्षाद्र्सेन्द्रो निवसत्ययं हि ॥१॥
कुमारिका रुपगुणेन युक्ता
साऽल्कृता वाहवरेऽधिरुढा ।
तत्रागता कूपमवेक्षणा
निवर्तिता सा मह्ता जवेन ।
प्रधावित: सूतवरश्चतुर्षु
ककुप्सु भूमौ पतितौ हि नूनम् ॥२॥

परित: पर्वतात्सम्यक्‍ क्षेत्रं द्वादशयोजनम्।
विस्तीर्णं च सुवृतं हि सूतकस्य समीरितीम्‍ ॥३॥
तन्मृद: पातने यत्रे पातित: खलु रोगहा ।
जायते रुचिर: साक्षादुच्यते पारद: स्वयम् ॥४॥
कूपाद्विनिसृत: सूतश्चतुर्दिक्षु गतो द्विज: ।
क्षत्रियो वैश्यशूद्रौ च चतुर्धा जायते खलु ॥५॥
श्चेता कृष्णा तथा पीता रक्ता वै जायते छवि:।
ग्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥६॥
द्युगुल: कण्डविस्तारो मध्येतिमसृणीकृत: ।
अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशागुल: ॥२७॥
सूत: पश्चपलस्तस्मिन्‍ शोधनियो भिषग्वरै: ।
खेदनोद्दिष्टभैषज्यैर्मर्दयेत्काज्जिकैरुयहम्‍ ॥२८॥
बहिर्मलविनाशाय रसराजं तु निश्चितम् ।
उष्णकाज्जिकतोयेन क्षालयेत्तदनन्तरम् ॥२९॥

मूर्च्छनम्
अत: परं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम्‍ ।
मूर्च्छनं दोषरहितं सप्तकस्चुकनाशनम् ॥३०॥
खर्जिका यावसुकश्च तथा च पटुपश्चकम् ।
अम्लौषधानि सर्वाणि सूतेय सह मर्दयेत ॥३१॥
खल्वे दिनत्रयं तावद्यावनष्टत्वमाप्नुयात ।
स्वरुपस्य विनाशेन मूर्च्छनं तदिहोच्यते ॥३२॥
निर्मलत्वमवाप्नोति ग्रन्थिभेदश्च जायते ।

उत्थापनम्
अथोत्थापनकं कर्म पारदस्य भिषग्वरे: ॥३३॥
करणीयं प्रयत्नेन रससास्त्रस्य वर्त्मना ।
दोलायत्रे तत: खेद्य: पूर्ववद्दिवसत्रयम् ॥३४॥
सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले ।
उत्थापनं भवेत्सम्यडरुर्च्छादोषविनाशनम् ॥३५॥

पातनभेदा:।
पातनं हि महत्कर्मं कथयामि सुविस्तरम् ॥३६॥
त्रिधा पातनमित्युक्तं रसदोषविनाषनम् ।
ऊर्ध्वपातस्त्वध:पातस्तिर्यकपात: क्रमेण: हि ॥३७॥

ऊर्ध्वपातनम् ।
ऊर्ध्वपातन्नस्य लक्षणं तदिहोच्यते।
मृण्मयी स्थालिका कार्या चोर्छितां तु षड्न्गुला ॥३८॥
मुखे सप्तान्गुलायामा परितस्त्रिदशान्गुला ।
इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥३९॥
क्षारद्वयं रामठं च तथा हि पटुपश्चकम्‍ ।
अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥४०॥
लेपयेक्तेन कल्केन अध:स्थां स्थालिकां शुभाम् ।
उपरिस्थामधोवक्रां दत्वा संपुटमाचरेत् ॥४१॥
सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् ।
चुल्यां स्थालिं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥४२॥
तस्योपरि जलाधानं चतुर्यामावधिं कुरु ।
स्वान्गशीतलतां ज्ञात्वां ऊर्ध्वगं ग्राहयेद्रसम् ॥४३॥
ऊर्ध्वपातनयत्रं हि तदेवम परिकीर्तितम् ।

अध:पातनम ।
पूर्वोक्तां स्थालिकां सम्यग्विपरितां तु पन्किले ॥४४॥
गर्ते तु स्थापितां भूमौ ज्वालयेन्मून्ध्रि पावकम् ।
यामत्रितयपर्यन्तमध: पतति पारद: ॥४५॥
अध:पातययत्रं हि कीर्त्तितं रसवेदिभि: ।

तीर्यकपातनम् ।
पूर्वोक्तैरोषधै: सार्ध रसराजं विमर्दयेत्‍ ॥४६॥
तीर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घट:
कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् ॥४७॥
नलिकां जलपात्रस्थां कार्येच्च भिषग्वर: ।
अधस्ताद्रसयन्नस्य तीव्राग्निं ज्वालयेद्धुध: ॥४८॥
यामत्रितयपर्यन्तं तिर्यकपातो भवेद्रस:।
यत्राणां पातनानां च त्रितय़ं सुकरं खलु ॥४९॥
कथितं हि मया सम्यग्रसागमनिदर्शनात् ।

रोधनम्‍
अधुना कथयिष्यामि रसरोधनकर्म च ॥५०॥
यत्कृते चपलत्वं हि रसरजस्य शाम्यति।
सिन्धूद्भवं दशपलं जतप्रस्थत्रयं तथा ॥५१॥
धारयेध्द्टमध्ये च सूतकं दोषवर्जितम् ।
पिधानेन यथा सम्यक्‍ मुद्रितं मृतस्नया खलु ॥५२॥
निर्वाते निर्जने देशे धारयेतेद्दिवसत्रयम् ।
अनेनैव प्रकारेण रोधनं कुरु वैद्यराट्‍ ॥५३॥

नियमनम्
अत: परं प्रवक्ष्यामि नियमं पारदस्य च ।
जलसैन्धवसंयुक्तो घटस्थो हि रसोत्तम: ॥५४॥
दिनत्रयं खेदितश्व वीर्यवानपि जायते ।

दीपनम्
अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम्‍ ॥५५॥
बुभुक्षा व्यापकत्वं च  येन कृत्वा प्रजायते ।
राजिका लवणोपेता मरिचं शिग्रुटक्कणे ॥५६॥
कासीससंयुक्ता काक्षी काज्जिकेन समन्वितै: ।
दिनानि त्रीणी संस्वेद्य पश्चात्क्षारेण मर्दयेत् ॥५७॥
अनेनैव प्रकारेण दीपनं जायते ध्रुवम ।
तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता ॥५८॥
बलवत्वं विशेषेणं कृते सम्यक्‍ प्रजायते ।
मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि ॥५९॥
कथयामि समासेन यथाव्द्रससाधनम् ।
अष्टाद्शांशभागेन कनकेन च सूतक: ॥६०॥
निम्बूरसेन संमर्द्यो वासरैकमत: परम् ।
क्षारैश्च लवणै रम्यै: खेदित: काज्जिकेन हि ॥६१॥
क्षालिते काज्जिकेनैव वक्रं भोक्तुं प्रजायते ।
ताप्यसत्वं कलांशेन हेम्ना तद्दिगुणेन हि ॥६२॥
तप्तमायसखत्वेन तप्तेनाथ प्रमर्दयेत् ।
व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि ॥६३॥
जम्बीरपूरकजलैर्मर्दयेदेकविंशतिम्‍ ।
वासरे याममेकं तु प्रत्येकं हि विमर्दयेत्‍ ॥६४॥
यातुधानमुखं सम्यक्‍ यात्येव हि न संशय़: ।
द्वितीयो दीपनस्यैवं प्रकार: कथितो मया ॥६५॥
सूतस्याष्टौ च संस्कारा: कथिता देहकर्मणि ।
तथा च दश कर्माणि देहलोहकराणि हि ॥६६॥

अभ्रकग्रासनम्

अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि ।
(करोटीविधीना सम्यक्कर्तव्यं लोहसंपुटम् ॥६७॥)
जलयत्रस्य योगेन बिडेण सहितो रस: ।
भक्षयत्येव चाभ्रस्य कवलानि न संशय: ॥६८॥
अतो हि जलयत्रस्य लक्षणं कथ्यते  मया ।
सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥६९॥
तन्मध्ये सुद्दढं सम्यकर्तव्यं लोहसंपुटम् ।
लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम्‍ ॥७०॥
बिडेन सहितं चैव षोडशांशेन यत्नत: ।
चतु:षष्टयंशकं चाभ्रसत्वं संपुटके तथा ॥७१॥
संपुटं मुद्रयेत्पश्चाद्दृढया तोयमृत्त्स्त्रया ।
वह्यिमृत्तकया वापि सन्धिरोधं तु कारयेतं ॥७२॥
चुल्ल्यां निवेश्य तं यत्रं जलेनोष्णेन पूरितम् ।
क्रमादग्नि: प्रकर्तव्यो दिवसार्धकमेव हि ॥७३॥
एवं कृते ग्रासमानं भक्षयेन्नात्र संशय: ।
अनेनैव प्रकारेण षड्ग्रासं भक्षयेतद्भुवम् ॥७४॥
भक्षिते चाभ्रसत्वे वै सर्वकार्येषु सिद्बिद: ।
मानं मानविहीनेन कर्तु केन न शक्यते ॥७५॥
तस्मान्मानं मया कर्म कथितव्यं यथोदितम् ।
चतु:षष्टयंशतो बीजं पारदान्मुखकारकम् ॥७६॥
पश्चात द्वात्रिंशभागेन दातव्यं बीजमुत्तमम्‍ ।
तत: षोडशभागेन बीजस्य कवलं न्यसेत‍ ॥७७॥
रसादष्टमभागेन दातव्यं भिषगुत्तमै: ।
चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥७८॥
तथा च समभागेन ग्रासनैव च साधयेत् ।
बिडेन षोडशांशेन क्षुधितो जायते रस: ॥७९॥
यदा जीर्णो भवेद्भास: पातितश्च बिडेन हि ।
कासीससिन्धुलवणसौवर्चलसुराष्ट्रिका: ॥८०॥
गन्धकेन समं कृत्वा बिडोऽयं वह्यिकृद्भवेत् ।

चारणम् ।
अथगर्भद्रुते: कर्म चारणं गुणवर्धनम् ॥८१॥
कथयामि यथातथ्यं रसराजस्य सिध्दिदम् ।
ताप्यसत्वाभ्रसत्वं च घोषाकृष्टं च ताम्रकम् ॥८२॥
समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ।
भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् ॥८३॥
तद्‍भ्रसत्वं सूतस्य चारयेत समभागिकम् ।

गर्भद्रुति: ।
अनेनैव प्रकारेण त्रिगुणं जारणं रसे ॥८४॥
गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमै: ।

बाह्यद्रुति: ।
बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गत: ॥८५॥
अभ्रसत्वं हि मुषायां वज्रवल्लीरसेन हि ।
सौवर्चलेन संध्मातं रसरुपं प्रजायते ॥८६॥
अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ।
तेन बन्धत्वमायाति द्रुतिर्बाह्यस्य कथ्यते ॥८७॥
बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ।
गुरो: प्रसादात्सततं महाभैरववन्दनात् ॥८८॥
शिवयोरर्चनादेव सिध्यति बाह्यगा द्रुति: ।
अथ जारणकं कर्म कथयामि सुविस्तरम्  ॥८९॥
अभ्रकं ताप्यसत्वं च समं कृत्वा तु सन्धमेत् ।
अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे ॥९०॥
एवं पुतिद्वयेनैव घनसत्वं हि साधयेत् ।
धातुवादविधानेन लोहकृद्देहकृन्न हि ॥९१॥
गजवन्गौ महाघोरावसेव्यो हि निरन्तरम् ।
साधितं घनसत्वं तद्रेतितं रजसन्निभम् ॥९२॥
बुभुक्षितरसस्यासे निक्षिप्तं वल्लमात्रकम्‍ ।
रसो गद्याणकस्यापि तुर्यभाग: प्रकीर्तित: ॥९३॥
ताम्रपात्रस्थमम्लं वै सैन्धवेन समन्वितम् ।
क्षीरेण सहितं वाऽपि प्रहितं त्रिदिनावधि॥९४॥
जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधै:
कल्केनानेन सहितं सूतकं च विमर्यदेत ॥९५॥
दिनत्रयं तप्तखल्वे धौत: पश्चाश्च काज्जिकै: ।
स्थापयेत्काचपात्रे तु तदूर्ध्वाधो बिडं न्यसेत् ॥९६॥
रसस्याष्टमभागेन संपुटं कारयेत्तत: ।
भूर्जपत्रैर्मुखं रुध्वा सूत्रेणैव तु वेष्टयेत्‍ ॥९७॥
संपुटं वाससा वेष्टय दोलायां खेदयेत्तत: ।
गोमूत्रेणाम्लवर्गेण काज्जिकेन दिनं दिनम् ॥९८॥
अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ।
उष्णकाज्जिकतोयेन क्षालयेत्वा रसं तत: ॥९९॥
द्दढे चतुर्गुणे वस्त्रे क्षिप्तवऽध: पीडनाद्रस: ।
निपतत्यन्यपात्रे तु सर्वोपि यदि पारद: ॥१००॥
तदाऽभ्रं जारितं सम्यग्दण्डदारी भवेद्रस: ।
ग्रासमाने पुनर्देयमभ्रबीजमनुत्तमम्‍ ॥१०१॥
अष्टग्रासेन सर्वं हि जारयेद्गुरुमर्गत: ।
एवं कृते समं चाभ्रं सूतके जीर्यती ध्रुवम् ॥१०२॥
स्वहस्तेन कृतं सम्यग‍ जारणं न श्रुतं मया ।
समाभ्रे जारिते सम्यग्दण्डधारी भवेद्रस: ॥१०३॥
बालश्च कथ्यते सोऽपि किश्चित्कार्यकरो भवेत् ।
द्विगुणे त्रिगुणे चैव कथ्यते मया खलु ॥१०४॥
चतुर्गुणेऽभ्रके जीर्णे किशोर: कथ्यते मया ।
जीर्णे पश्चगुणे चाभ्रे युवा चैव रसोत्तम: ॥१०५॥
षडगुणे जारिते त्वभ्रे वृध्द्श्चैव रसोत्तम: ।
सप्ताष्टगुणिते चाभ्रसत्वे जीर्णेऽतिवृध्द्क: ॥१०६॥
सर्वसिध्दिकर: सोऽपि पारद: पारद: स्वयम् ।
अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥१०७॥
सारणम्‍
अथेदानीं प्रवक्ष्यामि वेधवृध्देश्च कारणम्‍ ।
महासिध्दिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥१०८॥
धूर्तपुष्पसमाकारा मूषाऽष्टाड्गुलदीर्घिका ।
मुखे सुविस्तृता कार्या चतुरड्गुलसंमिता ॥१०९॥
मृण्मया साऽपि शुष्का ओ मध्येऽतिमसृणीकृता ।
अन्या दिधानिका मूषा सुनिम्रा छिद्रसंयुक्ता ॥११०॥
सुध्दं सुजारितं सूतं मूषामध्ये निधापयेत ।
मत्स्यकच्छपमण्डूकजलौकामेषसूकरा: ॥१११॥
एकीकृत्य वसामेषामेवं तैलं तु सारणम् ।
भुनागविट्‍ तथा क्षौद्रं वायसानां पुरीषकम् ॥११२॥
तथैव शलभादीनां महिषिकर्णयोर्मलम् ।
रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥११३॥
पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् ।
सारणार्थे कृतं तैलं तस्मिन्‍ तैले सुपाचयेत ॥११४॥
बीजं च कल्ममिश्रं हि कृत्वा मूषोपरि न्यसेत् ।
पिधानेन द्वितीयेन मूषावक्रं निरुन्धयेत ॥११५॥
भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् ।
मूषिकायास्त्रिभागां हि खनित्वा वसुधां क्षिपेत ॥११६॥
तदूर्ध्वं ध्यापयेत्सम्यग्द्दढाड्गारै: खराग्निना ।
एवं संजारितं बीजं रसमध्ये पतत्यलम्‍ ॥११७॥
बन्धमायाति सूतेन्द: सारितो गुणवान्‍ भवेत् ।
प्रथमं जारितश्चैव सारितं: सर्वसिध्दिद: ॥११८॥
नाजारितं: सारितश्च कथं बन्धकरो भवेत् ।
गुरुपदेशतो द्दष्टं सारणं कर्म चोत्तमम्‍ ॥११९॥
हस्तानुभवयोगेन कृतं सम्यक्‍ श्रुतं नहि ।
अथ क्रामणकं कर्म पारद्स्य निगद्यते ॥१२०॥
शास्त्रात्कृतं न द्दष्टं हि यथावत्क्रामयेद्रसम् ।
कर्णफलं महिषीणां स्त्रीदुग्धं टड्केन संमिश्रम ॥१२१॥
एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेश्च दिनम् ।
विषं च दरदश्चैव रसको रक्तकान्तकौ ॥१२२॥
इन्द्रगोपश्च तुवरी माक्षिकं काकविट्‍ तथा ।
कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत ॥१२३॥
काचचूर्णं ततो दत्वा चान्धमूषागतं धमेत् ।
अनेन क्रामणेनैव पारद: क्रमते क्षणात्‍ ॥१२४॥
इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ।
ताप्यसत्वं तथा नागं शुध्दं क्रामणकं सदा ॥१२५॥
बीजानि परद्श्चापि क्रमते च न संशय:।

वेधनम्

अथ वेध्वेधनं हि कथयामि सुविस्तरम् ॥१२६॥
येन विज्ञातमात्रेण वेधज्ञो जायते नर: ।
धूर्ततैलमहे: फेनं कड्गुणीतैलमेव च ॥१२७॥
भृड्गीतैलं विषं चैव तैलं जातीफलोअद्भवम् ।
हयमारशिफातैलमब्धे: शोषकतैलकम् ॥१२८॥
एतान्यन्यानि तैलानि विध्दि वेधकराणि च ।
सिध्द्सूतेन च समं मर्दितं वेधकृद्भवेत ॥१२९॥
लेपवेधस्तथा क्षेप: कुन्तधस्तथैव च ।
धूमाख्य: शब्दवेध: स्यादेव पश्चविध: स्मृत: ॥१३०॥
सूक्ष्माणि ताम्रपत्राणि कत्धूतभवानिच ।
कल्केन लेपितान्येवं ध्मापयेदन्धमूषया ॥१३१॥
शीतभूते तमुत्तार्य लेपवेधश्च कथ्यते ।
द्रुते तम्रेऽथवा रुप्ये रसं तत्र विनिक्षपेत्‍ ॥१३२॥
विध्यते तेन सहसा क्षेपवेध: स कथ्यते ।
द्रावयेन्नगरुप्यं च ताम्रं चैव तथाऽपरान् ॥१३३॥
पार्दोऽन्यतमे पात्रे द्रावितेऽत्र नियोनित:
वेधते कुन्तवेध: स्यादिती शास्त्रविदब्रवीत् ॥१३४॥
धूमश्पर्शेन जायन्ते धातवो हेमरुप्यकौ ।
धूमवेध: स विज्ञेयो रसराजस्य निश्चितम् ॥१३५॥
बध्दे रसवरे साक्षात्स्पर्शनाज्जायते रव: ।
तथैव जायते वेध: शब्दवेध: स कथ्यते॥१३६॥

सेवनविधि:

अथ सेअवनकं कर्म पारद्स्य दशाष्टमम् ।
कथ्यतेऽत्र प्रयत्न्नेन विस्तरेण मयाऽधुना ॥१३७॥
यत्नेन सिवित: सूत: शास्त्रमार्गेण सिध्दिद: ।
अन्यथा भक्षितश्चैव विषन्मारयेन्नरम् ॥१३८॥
आदौ तु वमनं कृत्वा पश्चद्रेचनमाचरेत् ।
ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥१३९॥
सम्यक्‍ सूतवर: शुध्दो देहलोहकर: सदा ।
सिवित: सर्व्रोअगघ्न: सर्वसिध्दिकरो भवेत् ॥१४०॥
यावन्मानेन लोहस्य गद्याणे वेधकृद्रस: ।
तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥१४१॥
राजिकाऽथ प्रियड्गुश्च सर्षपो मुद्रमाषकौ।
रक्तिका चणको वाऽथ वल्लमात्रो भवेद्रस: ॥१४२॥
एषा मात्रा रस प्रोक्ता रसकर्मविशार्दै: ।
अनुपानेन भुज्जीत पर्णखण्डिकया सह ॥१४३॥
इत्थं संसेविते सूते सर्वरोगाध्दिमुच्यते ।
सर्वपापाध्दिनिर्मुक्त: प्राप्नोति परमां गतिमं ॥१४४॥
अथेदानि प्रवक्ष्यामि रज्जनं पारदस्य हि ।
रज्जित: क्रामितश्चैव साक्षाद्देवो महेश्वर: ॥१४५॥
रज्जनं लोहताम्राभ्यां रसकेन विधीयते ।
तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥१४६॥
गन्धरागेण कर्तव्यं पारदस्याथ रज्जनम् ।
ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥१४७॥
अन्धमूषागतं सूतं रज्जयेताम्रकादिभि: ।
इष्टिकायत्रयोगेन गन्धरागेण रज्जयेत ॥१४८॥
रसकस्य च रागेण तुलायत्रस्य योगत:
मर्दनात्तीक्ष्णचूर्णेन रज्जयेत्सूतकं सदा ॥१४९॥
ताम्रकल्कीकृतेनैव स्थापयेत्स्प्तवासरान्
रजनं सूतराजस्य जायते नात्र संशय: ॥१५०॥
मृन्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता ।
तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रज्जनकं भवेत् ॥१५१॥
मया संक्षेपत: प्रोक्तं रज्जनं हि निदर्शितम् ॥१५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-09T04:34:01.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भेर

  • स्त्री. बोरीचें झाड ; बोर पहा . 
  • स्त्री. 
  • स्त्री. ( राजा . ) भेग ; चीर ; फट . 
  • मोठा नगारा ; नौबत . 
More meanings
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.