रसप्रकाशसुधाकरः - मन्गलाचरणम्

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् ।
जननपालनसंहारणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥१॥
कुमूदकुन्दसिताम्बधारिणीं विमल्मौक्तिकहारसुशोभिताम् ।
सकलसिध्दगणैरपि सेवितां परिणमामि भजामि च शारदाम् ॥२॥
वदनकुज्जरमभ्रद्लद्युतिं त्रिनयनं च चतुर्भुजवामनम ।
कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥३॥
गिरीशधाम सदा महदद्भुतं सकलरोगविघातकरं परम्
सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥४॥

गन्थानुक्रमणिका।
प्रथमं पारदोत्पत्तिं कथयामि यथातथम् ।
तत: शोधनकं तस्य तथाऽष्टादश कर्म च ॥५॥
चतुर्धा बन्धविज्ञानं भस्मत्वं सूतकस्य च।
धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥६॥
अष्टो महारस: सम्यक्‍ प्रोच्यन्तेऽत्र मया खलु।
तथा चोपरसानां हि गुणा: शोधनमारणम् ॥७॥
द्रुतिपातं च सर्वेषां कथयामि सुविस्तरम्।
रत्नानां गुणदोषाश्च तथा  शोधनमारणम् ॥८॥
क्रामणां रज्जनं चैव द्रुतिमेलनकं रसे ।
रसांश्च शतसंख्याकान्‍ कथयामि सुविस्तरात् ॥९॥
औषधीनां समाख्याता भेदाश्चत्वार एव च।
दिव्योषध्यो रसौषमध्य: सिध्दौषध्यस्तथा परा: ॥१०॥
महौषध्य इति प्रोक्ता यत्राण्यथ पुटानि च।
मूषाश्चैवं हि धातूनां कौतुकानि समासत: ॥११॥
वाजीकरणयोगाश्च शुक्रस्तम्भकराश्च ये ।
नातिसंक्षेपविस्तारात्‍ ग्रन्थेऽस्मिन्‍ परिकल्पिता: ॥१२॥
आयुर्वेदीयग्रन्थमाला ।

N/A

References : N/A
Last Updated : September 09, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP