TransLiteral Foundation

श्लोक १ ते २०
अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ॥
प्रथमहायन एव समग्रही -
त्सकलवर्णमसौ निजभाषिकाम् ॥१॥
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ॥
अथ स काव्यपुराणमुपाशृणो -
त्स्वयमत्वैत्किमपि श्रवणं विना ॥२॥
अजनि दुःखकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ॥
सहनिपाठजनस गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥३॥
रजसा तमसाऽप्यनाश्रितो
रजसा खेलनकाल एव हि ॥
स कालधरसत्तमात्मजः
सकलाश्चापि लिपीरविन्दत ॥४॥
सुधियोऽस्य विदिद्युतेऽधिकं
विधिवच्चौलविधानसंस्कृतम् ॥
ललितं करणं घृताहुतिज्व -
लितं तेज इवाऽऽशुशुक्षणेः ॥५॥
उपपादननिर्व्यपेक्षधीः
स पपाठाऽऽहृतिपूर्वकागमान् ॥
अधिकाव्यमरंस्त कर्कशेऽ -
प्यधिकांस्तर्कनयेऽत्यवर्तत ॥६॥
हरतस्त्रिदशेज्यचातुरीं
पुरतस्तस्य न वक्तुमीश्वराः ॥
प्रभवोऽपि कथासु नैजवा -
ग्विभवोत्सारितवादिनो बुधाः ॥७॥
अमुकक्रमिकोक्तिधोरणी -
मुरगाधीशकथावधीरिणीम् ॥
मुमुहुर्निशमय्य वादिनः
प्रतिवाक्योपहृतौ प्रमादिनः ॥८॥
कुमतानि च तेन कानि नो -
न्मथितानि प्रथितेन धीमता ॥
स्वमतान्यपि ते खण्डिता -
न्यतियत्नैरपि साधितानि क्कै: ॥९॥
अमुना तनयेन भूषितं
यमुनातातसमानवर्चसा ॥
तुलया रहितंनिजं कुलं
कलयामास स पुत्रिणां वरः ॥१०॥
शिवगुरुः स जरंस्त्रिसमे शिशा -
वमृत कर्मवशः सुतमोदितः ॥
उपनिनीषितसूनुरपि स्वयं
नहि यमोऽस्य कृताकृतमीक्षते ॥११॥
इह भवेत्सुलभं न सुतेक्षणं
न सुतरां सुलभं विभवेक्षणम् ॥
सुतमवाप कथंचिदयं द्विजो
न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२॥
मृत्मदीदहदात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ॥
समनुनीतवती धवखण्डितां
स्वजनना मृतिशोकहरेः पदेः ॥१३॥
कृतवती मृतचोदितमक्षमा
निजजनैरपि कारितवत्यसौ ॥
उपनिषीषुरभृत्सुतमात्मनः
परिसमाप्य च वत्सरदीक्षणम् ॥१४॥
उपनयं किल पज्चमवत्सरे
प्रवरयोगयुगे सुमुहूर्तके ॥
द्विजवधूर्नियता जननी शिशो -
र्व्यधित तुष्टमनाः सह बन्धुभिः ॥१५॥
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ॥
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनतामनः ॥१६॥
सहनिपाठयुता बटवः सभं
पठितुमैशत न द्विजसूनुना ॥
अपि गुरुर्विशयं प्रतिपेदिवा -
न्क इव पाठयितुं सहसा क्षमः ॥१७॥
अत्र किं स यदशिक्षत सर्वां -
श्चित्रमागमगणाननुवृत्तः ॥
द्वित्रमासपठनादभवद्य -
स्तत्र तत्र गुरुणा समविद्यः ॥१८॥
वेदे ब्रह्मसमस्तदङ्गनिचये गार्ग्योपमस्तत्कथा -
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ॥
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः ॥१९॥
आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे ।
पीतं पातञ्जस्लाम्भः परमपि विदितं भाट्टघट्टार्थतत्त्वम् ॥
यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि -
न्कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेत्किम् ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-05-19T19:17:24.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pygochord

  • स्त्री. Zool. पुच्छ रज्जु 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site