इष्टस्य हानेरनभीष्टयोगा -
द्भवन्ति दुःखानि शरीरमाजाम् ॥
वीक्षे न तौ द्वावपि वीक्षमाणो
विना निदानं नहि कार्यजन्म ॥२१॥
न तेऽत्यगादुद्वहनस्य कालः
परावमानो न च निःस्वता वा ॥
कुटुम्बभारो मयि दुःसहोऽयं
कुमारवृत्तेस्तव का‍ऽत्र पीडा ॥२२॥
न मूढभावः परितापहेतुः
पराजितिर्वा तव तन्निदानम् ॥
विद्वत्सु विस्पष्टतयाऽग्रपाठा -
त्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३॥
आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतरकर्मसेवा ॥
तस्मान्न भेयमपि नारकयातनाभ्यः
किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥
निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविदमूचतुः स्म ॥
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५॥
शोणाख्यपुंनदतटे वसतो द्विजस्य
कन्या श्रुतिं गतवती द्विजपुंगवेभ्यः ॥
सर्वज्ञतापदमनुत्तमरूपवेषां
तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६॥
पुत्रेण सोऽतिविनयं गदितोऽन्वशाद्द्वौ
विप्रौ वधूवरणकर्मनि संप्रवीणौ ॥
तावापतुर्द्विजगृहं द्विजसंदिदृक्षू
देशानतीत्य बहुलान्निजकार्यसिद्ध्यै ॥२७॥
भूभृन्निकेतनगतः श्रुतविश्वशास्त्रः
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८॥
पुत्र्या वचः पिबंति कर्णपुटेन ताते
श्रीविश्वरूपगुरुणा गुरुणा द्विजानाम् ॥
आजग्मतुः सुवसनौ विशदाभयष्टी
संप्रेषितौ सुतवरोद्वहनक्रियायै ॥२९॥
तावार्च्य स द्विजवरौ विहितोपचारै -
रायानकारणमथो शनकैरपृच्छत् ॥
श्रीविश्वरूपगुरुवाक्यत आगतौ स्व
इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥३०॥
संप्रेषिती श्रुतवयःकुलवृत्तवर्मैः
साधारणीं श्रुतवता स्वसुतस्य तेन ॥
याचावहे तव सुतां द्विज तस्य हेतो -
रन्योन्यसंघटनमेतु मणिद्वयं तत् ॥३१॥
मह्यं तदुक्तमभिरोचत एव विप्रौ
पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ॥
कन्याप्रदानमिदमायतते वधूषु
नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥३२॥
भार्यामपृच्छदथ किं करवाव भद्रे
विप्रौ वरीतुमनसौ खलु राजगेहात् ॥
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥
दूरे स्थितिः श्रुतवयःकुलवृत्तजातं
न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ॥
वित्तान्विताय कुलवृत्तसमन्विताय
देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥
नैवं नियन्तुमनघे तव शक्यमेत -
त्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ॥
प्रादात्स भीष्मकनृपः खलु कुण्डिनेश -
स्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥
किं केन संगतमिदं सति मा विचारी -
र्यो वैदिकीं सरनिमप्रहतां प्रयत्नात् ॥
प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन
शिष्यं यमेनमशिषत्स च भट्टपादः ॥३६॥
किं वर्ण्यते सुदति यो भविता वरो नो
विद्या धनं द्विजवरस्य न बाह्यवित्तम् ॥
याऽन्वेति संततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७॥
वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ॥
चोरान्नृपात्स्वजनतश्च भयं धनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८॥
केचिद्धनं निदधते भुवि नोपभोगं
कुर्वन्ति लोभवशगा न विदन्ति केचित् ॥
अन्येन गोपितमथान्यजना हरन्ति
तच्चेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥
सर्वात्मना दुहितरो न गृहे विधेया -
स्ताश्चेत्पुरा परिणयाद्रज उद्गनं स्यात् ॥
पश्येयुरात्मपितरौ बत पातयन्ति
दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥

N/A

References : N/A
Last Updated : May 18, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP