संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
आविष्कारनाम अष्टादशं स्तोत्रम्

आविष्कारनाम अष्टादशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


जगतोऽन्तरतो भवन्तमाप्त्वा
पुनरेतद्भवतोऽन्तराल्लभन्ते ।
जगदीश तवैव भक्तिभाजो
न हि तेषामिह दूरतो‍ऽस्ति किञ्चित् ॥१॥
क्वचिदेव भवान् क्वचिद्भवानी
सकलार्थक्रमगर्भिणी प्रधाना ।
परमार्थपदे तु नैव देव्या
भवतो नापि जगत्रयस्य भेदः ॥२॥
नो जानते सुभगमप्यवलेपवन्तो
लोकाः प्रयत्नसुभगा निखिला हि भावाः ।
चेतः पुनर्यदिदमुद्यतमप्यवैति
नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥३॥
भवन्मयस्वात्मनिवासलब्ध -
सम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः ।
न भोजनाच्छादनमप्यजस्त्र -
मपेक्षते यस्तमहं नतोऽस्मि ॥४॥
सदा भवद्देहनिवासस्वस्थो -
ऽप्यन्तः परं दह्यत एष लोकः ।
तवेच्छया तत्कुरु मे यथात्र
त्वदर्चनानन्दमयो भवेयम् ॥५॥
स्वरसोदितयुष्मदङ्घ्रिपद्म -
द्वयपूजामृतपानसक्तचितः ।
सकलार्थचयेष्वहं भवेयम्
सुखसंस्पर्शनमात्रलोकयात्रः ॥६॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो ।
उपयान्त्यपयान्ति चानिशम्
मम वस्तूनि विभान्तु सर्वदा ॥७॥
सततमेव तवैव पुरेऽथवा -
प्यरहितो विचरेयमहं त्वया ।
क्षणलवोऽप्यथमा स्म भवेत् स मे
न विजये ननु यत्र भवन्मयः ॥८॥
भवदङ्गपरिस्रवत्सुशीता -
मृतपूरैर्भरिते समन्ततोऽपि ।
भवदर्चनसम्पदेह भक्ता -
स्तव संसारसरोऽन्तरे चरन्ति ॥९॥
महामन्त्रतरुच्छायाशीतले त्वन्महावने ।
निजात्मनि सदा नाथ वसेयं तव पूजकः ॥१०॥
प्रतिवस्तु समस्तजीवतः
प्रतिभासि प्रतिभामयो यथा ।
मम नाथ तथा पुरः प्रथां
व्रज नेत्रत्रयशूलशोभितः ॥११॥
अभिमानचरूपहारतो
ममताभक्तिभरेण कल्पितात् ।
परितोषगतः कदा भवान्
मम सर्वत्र भवेद् दृशः पदम् ॥१२॥
निवसन्परमामृताब्धिमध्ये
भवदर्चाविधिमात्रमग्नचित्तः ।
सकलं जनवृत्तमाचरेयं
रसयन्सर्वत एव किञ्चनापि ॥१३॥
भवदीयमिहास्तु वस्तु तत्त्वं
विवरीतुं क इवात्र पात्रमर्थे ।
इदमेव हि नामरूपचेष्टा -
द्यसमं ते हरते हरोऽसि यस्मात् ॥१४॥
शान्तये न सुखलिप्सुता मना -
ग्भक्तिसम्भृतमदेषु तैः प्रभोः ।
मोक्षमार्गणफलापि नार्थना
स्मर्यते हृदयहारिणः पुरः ॥१५॥
जागरेतरदशाथवा परा
यापि काचन मनागवस्थितेः
भक्तिभाजनजनस्य साखिला
त्वत्सनाथमनसो महोत्सवः ॥१६॥
आमनोऽक्षवलयस्य वृत्तयः
सर्वतः शिथिलवृत्तयोऽपि ताः ।
त्वामवाप्य दृढदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम् ॥१७॥
न च विभिन्नमसृज्यत किञ्चिद -
स्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखि च भेदि च सर्वथा -
प्यसमविस्मयधाम नमोऽस्तु ते ॥१८॥
खरनिषेधखदामृतपूरणो -
च्छलितधौतविकल्पमलस्य मे ।
दलितदुर्जयसंशयवैरिण -
स्त्वदवलोकनमस्तु निरन्तरम् ॥१९॥
स्फुटमाविश मामथाविशेयं
सततं नाथ भवन्तमस्मि यस्मात् ।
रभसेन वपुस्तवैव साक्षा -
त्परमासत्तिगतः समर्चयेयम् ॥२०॥
त्वयि न स्तुतिशक्तिरस्ति कस्या -
प्यथवास्त्येव यतोऽतिसुन्दरोऽसि ।
सततं पुनरर्थितं ममैत -
द्यदविश्रान्ति विलोकयेयमीशम् ॥२१॥

अठारहवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP