संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
अलौकिकोद्बलनाख्यमष्तमं स्तोत्रम्

अलौकिकोद्बलनाख्यमष्तमं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


यः परसादलव ईश्वरस्थितो
या च भक्तिरिव मामुपेयुषी ।
तौ परस्परसमन्वितौ कदा
तादृशे वपुषि रूढिमेष्यतः ॥१॥
त्वत्प्रभुत्वपरिचर्वणजन्मा
कोऽप्युदेतु परितोषरसोऽन्तः ।
सर्वकालमिह मे परमस्तु
ज्ञानयोगमहिमादि विदूरे ॥२॥
लोकवद्भवतु मे विषयेषु
स्फीत एव भगवन्परितर्षः ।
केवलं तव शरीरतयैतान्
लोकयेयमहमस्तविकल्पः ॥३॥
देहभूमिषु तथा मनसि त्वं
प्राणवर्त्मनि च भेदमुपेते ।
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः ॥४॥
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसितां मम ।
क्षणमपीश मनागपि मैव भूत्
त्वदविभेदरसक्षतिसाहसम् ॥५॥
लघुमसृणसिताच्छशीतलं
भवदावेशवशेन भावयन् ।
वपुरखिलपदार्थपद्धते -
र्व्यवहारानतिवर्तयेय तान् ॥६॥
विकसतु स्ववपुर्भवदात्मकं
समुपयान्तु जगन्ति ममाङ्गताम् ।
व्रजतु सर्वमिदं द्वयवल्गितं
स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥७॥
समुदियादपि तादृशतावका -
नवविलोकपरामृतसम्प्लवः ।
मम घटेत यथा भवदद्वया -
प्रथनघोरदरीपरिपूरणम् ॥८॥
अपि कदाचन तावकसङ्गमा -
मृतकणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराड्मुखो
न भवितास्म्युभयच्युत एव किम् ॥९॥
सततमेव भवच्चरणाम्बुजा -
करचरस्य हि हंसवरस्य मे ।
उपरि मूलतलादपि चान्तरा -
दुपनमत्वज भक्तिमृणालिका ॥१०॥
उपयान्तु विभो समस्तवस्तून्यपि
चिन्ताविषयं दृशः पदं च ।
मम दर्शनचिन्तनप्रकाशा -
मृतसारणि परं परिस्फुरन्तु ॥११॥
परमेश्वर तेषु तेषु कृच्छ्रे -
ष्वपि नामोपनमत्स्वहं भवेयम् ।
न परं गतभीस्त्वदङ्गसङ्गा -
दुपजाताधिकसम्मदोऽपि यावत् ॥१२॥
भवदात्मनि विश्वमुम्भितं यद्‌
भवतैवापि बहिः प्रकाश्यते तत् ।
इति यद्दृढनिश्चयोपजुष्टं
तदिदानीं स्फुटमेव भासताम् ॥१३॥

आठवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP