संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
सर्वात्मपरिभावनाख्यं द्वितीय स्तोत्रम्

सर्वात्मपरिभावनाख्यं द्वितीय स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम -
स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥१॥
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे ।
महानलाय भवते विश्वकैहविषे नमः ॥२॥
परमामृतसान्द्राय शीलताय शिवाग्नये ।
कस्मैचिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥३॥
महादेवाय रुद्राय शङ्कराय शिवाय ते ।
महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये ॥४॥
नमो निकृत्तनिःशेषत्रैलोक्यविगलद्वसा -
वसेकविषमायापि मङ्गलाय शिवाग्नये ॥५॥
समस्तलक्षणायोग एव यस्योपलक्षणम् ।
तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे ॥६॥
वेदागमविरुद्धाय वेदागमविधायिने ।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये ।
क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥९॥
नमः सुकृतसंभारविषाकः सकृदप्यसौ ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने ।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥
ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये ।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥१३॥
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः ।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥१४॥
मायामयजगत्सान्द्रपङ्कमध्याधिवासिने ।
अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥
मङ्गलाय पवित्राय निधये भूषणात्मने ।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥१६॥
नमः सततबद्धाय नित्यनिर्मुक्तिभागिने ।
बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे ॥१७॥
उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये ।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥
दक्षिणाचारसाराय वामाचाराभिलाषिणे ।
सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥
यथा तथापि यः पूज्यो यत्रतत्रापि योऽर्चितः ।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥२०॥
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे ।
नमो विततलावण्यवाराय वरदाय ते ॥२१॥
सदा निरन्तरानन्दरसनिर्भरिताखिल -
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥२३॥
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।
आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः ॥२४॥
परमामृतकोशाय परमामृतराशये ।
सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥२५॥
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ।
अपूर्वामोदसुभगं परामृतरसोल्वणम् ॥२६॥
स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे ।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥२७॥
सर्वाशङ्कशनिं सर्वालक्ष्मीकालानलं तथा ।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥२८॥
जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् ।
जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥२९॥

दूसरा स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP