संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
चतुश्चत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - चतुश्चत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


निदाघः -
श्रृणुष्व सद्गुरो ब्रह्मन् त्वत्प्रसादाद्विनिश्चितम् । अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥१॥
अहमेव हि नित्यात्मा अहमेव सदाऽजरः । अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥२॥
अहमेव हि निश्चिन्तः अहमेव सुखात्मकः । अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥३॥
अहमानन्द एवात्मा अहमेव निरञ्जनः । अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥४॥
अहं विदेह एवात्मा अहमेव हि शङ्करः । अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥५॥
अहमेव हि लक्ष्यात्मा अहमेव मनोमयः । अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥६॥
अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः । अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥७॥
अहं समुद्राः सरित अहमेव हि पर्वताः । अहं बनानि भुवनं अहमेवेदमेव हि ॥८॥
नित्यतृपो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः । अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥९॥
अहमेव महानात्मा सर्वमङ्गलविग्रह । अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥१०॥
अहं भूमिहरं वायुरहं तेजो ह्यहं नभः । अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥११॥
अहं लोका अलोकाश्च अहं लोक्या अहं सदा । अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥१२॥
अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् । शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥१३॥
अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः । अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥१४॥
अहं भूतभविष्यं च वर्तमानमहं सदा । अहमेको द्विधाहं च बहुधा चाहमेव हि ॥१५॥
अहमेव परं ब्रह्म अहमेव प्रजापतिः । स्वराट्‍ सम्राड् जगद्योनिरहमेव हि सर्वदा ॥१६॥
अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि । अहं प्राणो मनश्चाहं अहमिन्द्रियवर्गकः ॥१७॥
अहं विश्वं हि भुवनं गगनात्माहमेव हि । अनुपाधि उपाध्यं(?)यत्तत्सर्वमहमेव हि ॥१८॥
उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि । एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ॥
एवं यः श्रृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥१९॥
नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो(?) एकधा संस्थितोऽहम् ।
नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः
भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥२०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP