TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
अष्टत्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - अष्टत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


अष्टत्रिंशोऽध्यायः
ऋभुः -
वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥१॥
आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥२॥
नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥३॥
इदमस्तीति सत्तात्वमहस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥४॥
स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥५॥
मायासत्ता महासत्ता चित्तसत्ता जगन्मयम् । यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥६॥
एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥७॥
विष्णुरस्मीति विभ्रान्तिर्जगदस्ती(स्मी)ति विभ्रमः । ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥८॥
सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥९॥
दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥१०॥
जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥११॥
वेदज्ञानप्रपञ्चं वा शास्त्रज्ञाप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥१२॥
ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा दोषादोषविनिर्णयम् ॥१३॥
सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥१४॥
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥१५॥
असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृअम्भणम् ॥१६॥
सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥१७॥
मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥१८॥
यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥१९॥
सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥२०॥
सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहादेयमुपादेयं ग्राहं त्याज्यं च भाषणम् ॥२१॥
विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥२२॥
त्रैलोक्यसंभवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥२३॥
कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥२४॥
चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥२५॥
किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥२६॥
गोपनं तत्पदार्थस्य त्वंपदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥२७॥
भेदेषु भेदाभेदं च नान्यद् किञ्चिच्च विद्यते । एतत प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥२८॥
सर्वं चैतन्यमात्रत्वात केवलं ब्रह्म एव सः । आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥२९॥
तुर्यातीतं ब्रह्मणोऽ‍न्यत् सत्यासत्यं न विद्यते । सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥३०॥
चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् । सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥३१॥
यद्यद् भेदपरं शास्त्रं यद्यद् भेदपरं मनः । सर्वं संत्यज्य सततं स्वात्मनेव स्थिरो भव ॥३२॥
मनः कल्पितकल्पं वा आत्मकल्पनविभ्रमम् । अहंकरपरिच्छेदं देहोऽहं देहभावना ॥३३॥
सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव । प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥३४॥
बन्धसद्भावकलनं मोक्षसद्भावभाषणम् । देवताभावसद्भावं देवपूजाविनिर्णयम् ॥३५॥
पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् । प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥३६॥
पृथिवीभूतभेदं च गुणा यत् कुण्ठनादिकम् । वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥३७॥
लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् । सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव ॥३८॥
आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् । रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥३९॥
द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चदंशकम् । अखण्डाकारवृत्तिश्च अखण्डाकारसंमतम् ॥४०॥
अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् । उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥४१॥
दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्वतः ॥४२॥
अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः । वैश्वानरो विराट् स्थूलप्रपञ्चमिति भावनम् ॥४३॥
आनन्दस्फारणेनाहं परापरविवर्जितः । नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥४४॥
दृग्रूपं दृश्यरूपं च महास्त्तास्वरूपकम् । कैवल्य सर्वनिधनं सर्वभूतान्तरं गतम् ॥४५॥
भूतभव्यं भविष्यच्च वर्तमानमसत् सदा । कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥४६॥
प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् । प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥४७॥
शिवगमसमाचारं वेदान्तश्रवणं पदम् । अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥४८॥
सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव । अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥४९॥
स्थूलदेहं सूक्षदेहं कारणं देहमेव च । एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥५०॥
शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः । एतत् प्रकरणं यस्तु सकृदा सर्वदापि वा ॥५१॥
पठेद्वा श्रृनुयाद्वापि स च मुक्तो न संशयः । निमिषं निमिषार्धं वा श्रुत्वैतद्ब्रह्मभाग्भवेत् ॥५२॥
लोकालोकजगतस्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शङ्करनामरूपमसकृव्द्याकुर्वते केवलम् ।
सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते
यस्त्वेतत् सदितीव तत्ववचनैर्मीमांस्यतेऽ‍यं शिवः ॥५३॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-17T03:43:54.9230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सजण-सजण सोडूं नये, डोळा फोडूं नये-डोळा तर फुटूं नये

  • मैत्री कधीं तोडूं नये व त्याबरोबरच स्वार्थ सोडूं नये. दोन्ही गोष्टी सांभाळाव्या. तु० डोळातर फुटूं नये, काडी तर मोडूं नये. 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site