संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
द्वात्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - द्वात्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च । यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥१॥
चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥२॥
देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता । सर्वं मिथ्या ......  ...... ॥३॥
दृश्यं न दर्शनं द्रष्टा कर्ता कारयिता क्रिया । सर्वं मिथ्या ......  ...... ॥४॥
एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः । सर्वं मिथ्या ......  ...... ॥५॥
शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् । सर्वं मिथ्या ......  ...... ॥६॥
जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः । सर्वं मिथ्या ......  ...... ॥७॥
अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् । सर्वं मिथ्या ......  ...... ॥८॥
परापरविकल्पश्च पुण्यपापविकल्पनम् । सर्वं मिथ्या ......  ...... ॥९॥
कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् । सर्वं मिथ्या ......  ...... ॥१०॥
सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनम् । सर्वं मिथ्या ......  ...... ॥११॥
आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् । सर्वं मिथ्या ......  ...... ॥१२॥
अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या ......  ...... ॥१३॥
शमो दमो मनोधर्मस्तदभावे च तत् कुतः । सर्वं मिथ्या ......  ...... ॥१४॥
बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् । सर्वं मिथ्या ......  ...... ॥१५॥
सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः । सर्वं मिथ्या ......  ...... ॥१६॥
ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि । सर्वं मिथ्या ......  ...... ॥१७॥
विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा । सर्वं मिथ्या ......  ...... ॥१८॥
रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः । सर्वं मिथ्या ......  ...... ॥१९॥
चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् । सर्वं मिथ्या ......  ...... ॥२०॥
दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः । सर्वं मिथ्या ......  ...... ॥२१॥
सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः । सर्वं मिथ्या ......  ...... ॥२२॥
वरुणस्य सदा लोको जिह्वारससमन्वितः । सर्वं मिथ्या ......  ...... ॥२३॥
त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः । सर्वं मिथ्या ......  ...... ॥२४॥
अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः । सर्वं मिथ्या ......  ...... ॥२५॥
अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् । सर्वं मिथ्या ......  ...... ॥२६॥
इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः । सर्वं मिथ्या ......  ...... ॥२७॥
उपेन्द्रस्य महर्लोको गमनेन पदं युतम् । सर्वं मिथ्या ......  ...... ॥२८॥
मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या ......  ...... ॥२९॥
प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या ......  ...... ॥३०॥
सर्व मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥३१॥
मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने । चतुःसाधनसंपन्नः सोऽधिकारीति निश्चयः ॥३२॥
जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः । वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥३३॥
सर्वज्ञाननिवृत्तिश्चेदानन्दावाप्तिकं फलम् । इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥३४॥
सर्वशद्बार्थरूपं च निश्चयं भावनं तथा । ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥३५॥
अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥३६॥
नानुय्ध्यायाद्ब्रह्मशब्दान् ... महानसौ । ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥३७॥
ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् । चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥३८॥
अहं चिन्मात्रमन्त्रं वा कार्यकार्णचिन्तनम् । अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥३९॥
परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् । अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥४०॥
सर्वोपदेशकालं च साम्यं शेषं महोदयम् । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥४१॥
कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥४२॥
सत्यरूपं क्कचिन्नास्ति सत्यं नाम कदा नहि । संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥४३॥
आत्मनोऽन्यत् क्कचिन्नस्ति सर्वं मिथ्या न संशयः । महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥४४॥
देशभेदं वस्तुभेदं नच चैतन्यभेदकम् । आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥४५॥
आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् । आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥४६॥
आत्मनोऽन्यत् सुखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥४७॥
आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥४८॥
सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः । सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥४९॥
सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् । कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥५०॥
अनेककोटिजननपातकं भस्मसाद्भवेत् । सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ॥५१॥
सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ।
क्क भेदभावदर्शनं न चैव शोकमोहहृत्
प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।
यतो भवेज्जगाद तं महेश येन जीवितं
यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥५२॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP