संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
त्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
वक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यान्नपूर्वकम् । सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥१॥
ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् । शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥२॥
अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥३॥
अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा । ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥४॥
सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः । आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥५॥
शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः । एकाकारस्वरूपोऽहं नैकसत्ताविवर्जिथ ॥६॥
अन्तरज्ञानशुद्धोऽहमहमेव परायणम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥७॥
अनेकतत्वहीनोऽहं एकत्वं च न विद्यते । सर्वं ....... ॥८॥
सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः । सर्वं ....... ॥९॥
निर्मलज्ञानरूपोऽहं अहमेव न विद्यते । शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥१०॥
नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्त्यादिवर्जितः ॥११॥
अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः । सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥१२॥
ब्रह्मानन्दमिदं सर्वं नास्ति कदाचन । जीवत्वधर्महीनो‍ऽहमीश्वरत्वविवर्जितः ॥१३॥
वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् । जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥१४॥
वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् । जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैंजसविश्वकाः ॥१५॥
सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा । अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥१६॥
द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥१७॥
सात्त्विकं राजसं भेदं संशयं हृदयं फलम् । दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥१८॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥१९॥
अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥२०॥
चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि । देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥२१॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥२२॥
अहंकारं बहुविदं देहोऽहमिति भावनम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥२३॥
ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् । सर्वं ब्रह्म ....... ॥२४॥
देहोऽहमिति तादात्म्यं देहस्य परमात्मनः । सर्वं ब्रह्म ....... ॥२५॥
सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः । इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥२६॥
दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् । दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥२७॥
दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः । अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥२८॥
शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् । यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्कचित् ॥२९॥
तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन । इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥३०॥
सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते । सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥३१॥
लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते । ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥३२॥
ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् । इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चिन ॥३३॥
स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा । अस्ति चेत् किल वक्त्यव्यं नास्ति चेत् कथमुच्यते ॥३४॥
परं विशेषमेवेति नास्ति किञ्चित् सदा मयि । चञ्चलं च मनश्चैव नास्ति नास्ति न संशयः ॥३५॥
एवमेव सदापूर्णो निरीहस्तिष्ठ शान्तधीः । सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥३६॥
आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि । ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥३७॥
इदं परमहन्ता च सर्वदा नास्ति किञ्चन । इदं सर्वमिति ख्याति अनन्दं नेति नो भ्रमः ॥३८॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥३९॥
अत्यन्ताभावमेवेति सर्वदानुभवं महत् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥४०॥
गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् । मरणं जननं कार्यं कारणं पावनं शुभम् ॥४१॥
कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि । द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥४२॥
इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् । इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥४३॥
अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् । सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥४४॥
एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः । सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥४५॥
जीवरूपा जीवभावा जीवशब्दत्रयं न हि । ईशरूपं चेशभावं ईशशब्दं च क्कल्पितम् ॥४६॥
नाक्षरं न च सर्व वा न पदं वाच्यवाचकम् । हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥४७॥
मूधो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि । निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥४८॥
तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् । प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥४९॥
ध्यानयोग राजयोगं भोगमष्टाङ्गलक्षणम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥५०॥
अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् । पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥५१॥
सवें ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥५२॥
शास्त्रज्ञानविदूरोहं वेदज्ञानविदूरकः । उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥५३॥
सवें ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥५४॥
इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः । यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः ॥५५॥
नित्यं श्रृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ।
सन्देहसन्देहकरोऽर्यकास्वकैः
करादिसन्दोहजगद्विकारिभिः ।
यो वीतमोहं न करोति दुर्हृदं
विदेहमुक्तिं शिवदृक्प्रभावतः ॥५६॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP