संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
सप्तविंशोऽ‍ध्यायः

शङ्कराख्यः षष्ठोऽम्शः - सप्तविंशोऽ‍ध्यायः

श्रीशिवरहस्यम्


ऋभुः -
वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् । कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥१॥
अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् । ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥२॥
विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः । वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥३॥
जडानन्दप्रकाशात्मा आत्मानन्दरसोऽ‍स्म्यहम् । आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥४॥
कार्यानन्दविहीनो‍ऽहं कार्यानन्दकलात्मकः । गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥५॥
गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् । ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥६॥
सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः । लोकानन्दो महानन्दो लोकातीतमहानयम् ॥७॥
भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः । क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥८॥
सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः । सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥९॥
वाक्यानन्दमहानन्दः शिवानन्दोहमद्वयः । शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥१०॥
अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः । वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥११॥
कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः । सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥१२॥
जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् । शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥१३॥
शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः । आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥१४॥
द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः । एवमादिमहानन्द अहमेवेति भावय ॥१५॥
शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः । एकानन्दपरानन्द एक एव चिदव्ययः ॥१६॥
एक एव महानात्मा एकसंख्याविवर्जितः । एकतत्वमहानन्दस्वत्वभेदविवर्जितः ॥१७॥
विजितानन्दहीनो‍ऽहं निर्जितानन्दहीनकः । हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥१८॥
ममतानन्दशान्तोऽहमहमादिप्रकाशकम् । सर्वदा देशशान्तोऽहं शान्तोऽहमिति वर्जितः ॥१९॥
ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः । अन्तरादन्तरो‍ऽहं वै अन्तरादन्तरान्तरः ॥२०॥
एक एव महानन्द एक एवाहमक्षरः । एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥२१॥
एक एव महानात्मा एक एव मनोहरः । एक एवाद्वयोऽहं वै एक एव न चापरः ॥२२॥
एक एव न भूरादि एक एव न बुद्धयः । एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥२३॥
एक एव न कामात्मा एक एव न कोपकम् । एक एव न लोभात्मा एक एव न मोहकः ॥२४॥
एक एव मदो नाहं एक एव न मे रसः । एक एव न चित्तात्मा एक एव न चान्यकः ॥२५॥
एक एव न सत्तात्मा एक एवा जरामरः । एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥२६॥
एक एव महानन्द एक एवामहेकवान् । देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥२७॥
शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः । जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥२८॥
एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये । एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥२९॥
कालस्वभावो नियतैंश्च भूतैः
जगद्विजायेत इति श्रुतीरितम् ।
तद्वै मृषा स्याज्जगतो जडत्वतः
इच्छाभवं चैतदथेश्वरस्य ॥३०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्ययः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP