संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
पञ्चविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - पञ्चविंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् । सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥१॥
तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः । चिदेवाह चिदेवाह चित्रं चेदहमेव हि ॥२॥
वाचावधिश्च देवोऽहं चिदेव मनसः परः । चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥३॥
स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि । चिदेव करणं सोऽहं कायमेव चिदेव हि ॥४॥
अखण्डाकारवृत्तिश्च उत्तरमाधममध्यमाः । देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥५॥
चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि । भावहीनश्चिदेवाहं दोषहीनश्चिदेवः हि ॥६॥
अस्तित्वं ब्रह्म नास्त्येव साकारं नस्ति नास्ति हि । अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥७॥
सर्वं नास्त्येव नस्त्येव साकारं नास्ति हि । यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥८॥
अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् । सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥९॥
सर्वापरं च सदसत् कार्यकारणकर्तृकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥१०॥
अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् । सर्वं .....  ..... ॥११॥
असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् । सर्वं .....  ..... ॥१२॥
भूतं भविष्यं वर्तं च मोहामोहौ समासमौ । सर्वं .....  ..... ॥१३॥
क्षणं लवं त्रुटिर्ब्रह्म त्वंपदं तत्पदं तथा । सर्वं .....  ..... ॥१४॥
त्वंपदं वापि ऐक्यं च ह्यहमेव हि । सर्वं .....  ..... ॥१५॥
आनन्दं परमानन्दं सर्वानन्दं निजं महत् । सर्वं .....  ..... ॥१६॥
अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् । सर्वं .....  ..... ॥१७॥
विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि । सर्वं .....  ..... ॥१८॥
श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् । सर्वं .....  ..... ॥१९॥
स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् । सर्वं .....  ..... ॥२०॥
परं रूपं चक्षुर्भिरेव तत्रैव योज्यताम् । सर्वं .....  ..... ॥२१॥
ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् । सर्वं .....  ..... ॥२२॥
चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा । सर्वं .....  ..... ॥२३॥
ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः । सर्वं .....  ..... ॥२४॥
वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् । सर्वं .....  ..... ॥२५॥
कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा ।
शरीरेण तु यद्भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते । सर्वं .....  ..... ॥२६॥
वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् । गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥२७॥
कामादिकलनं ब्रह्म देवादिकलनं पृथक् । जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥२८॥
ब्रह्म इत्यापि सङ्कल्पं ब्रह्मविद्वरकल्पनम् । वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पकम् ॥२९॥
ब्रह्माहमिति सङ्कल्पं ब्रह्मविद्वरकल्पनम् । महाविद्येति सङ्कल्पं महामायेति कल्पकम् ॥३०॥
महाशून्येति सङ्कल्पं चिदहं चेति कल्पनम् । महाविद्येति सङ्कल्पं महामायेति कल्पकम् ॥३१॥
महारूपेति सङ्कल्पं महारूपं च कल्पनम् । सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥३२॥
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् । सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥३३॥
चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् । यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥३४॥
सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् । ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥३५॥
अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् । सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥३६॥
सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् । सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमं महत् ॥३७॥
सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः । सर्वं ब्रह्मेति सङ्कल्पं सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥३८॥
सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् । सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥३९॥
सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः ( मुक्तिकः ) । सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥४०॥
सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः । सर्वोऽ‍हं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥४१॥
इत्यमित्येव यत्किञ्चित् तद्ब्रह्मैव नसंशयः । भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥४२॥
ब्रह्मा विष्णूरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् । विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥४३॥
देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः । मुनयो मनवः सिद्धा भ्रान्तिरेव संशयः ॥४४॥
सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च । विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥४५॥
ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च । सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥४६॥
वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः । ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥४७॥
तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः । वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥४८॥
सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि । एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥४९॥
एतावदुक्तं यत्किञ्चित् तन्नास्येव न संशयः । एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥५०॥
दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् । निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥५१॥
आर्तं यच्छिवपादतो‍ऽन्यदितरं तज्जादिशब्दात्मकं
चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने
सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत् वृत्त्युज्झितम् ॥५२॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ब्रह्मणः सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP